OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 16, 2016

शुल्कविभागेन सहस्रकोटिरूप्यकाणि सङ्गृहीतानि।
नवदिल्ली> राष्ट्रे मुद्रापत्रनिर्मूल्यीकरणानन्तरम् इतःपर्यन्तं सम्पन्नैः उपचत्वारिंशत्  प्रत्यवेक्षणैः सहस्रकोट्यधिकमूल्ययुक्तानि मुद्रारूप्यकाणि वशीकृतानि इति आयकरविभागेन निवेदितम्। राष्ट्रे सर्वत्र आयकरविभागस्य अवेक्षणं तीव्रेण अनुवर्तते।
     कर्णाटक-गोवा प्रदेशेभ्यः इतःपर्यन्तम् अनधिकृतानि त्रिंशत् कोटिरूप्यकाणि संगृहीतानि। दिल्लीतः चतुष्कोटि रूप्यकाणां निर्मूल्यवत्कृतमुद्रापत्राणि गृहीतानि। चण्डीगढ्तः २.२०कोटिः, मुम्बई तः सपादैककोटिः, पूणैतः६७लक्षं, छत्तीस्गढ्तः १४लक्षं ,असम राज्यात् २५लक्षं राजस्थानतः११लक्षं   रूप्यकाणि च संगृहीतानि।
    सि बि ऐ संस्थया सिऐएस् एफ् संस्थया च विमानपत्तनेषु अपि अन्वीक्षणं क्रियते च।

धनपत्र निर्मूल्यीकरणं -जनपद-सहयोग वित्तकोशेभ्यः दयाचेतः नास्ति।
 नवदिल्ली>धनपत्रस्य निर्मूल्यीकरणस्य अनुबन्धतया जनपद साह्य वित्तकोशेभ्यः सुविधा दातुं नशक्यते इति सर्वोच्च-न्यायालयेन उक्तम्। धन-विनिमयाय शीघ्रतरनिर्देशाय कृतमावेदनं न्यायालयेन निरस्तम्। नवम्बर् मासस्य दशमदिनाङ्कतः चतुर्दश दिन पर्यन्तं स्वीकृतं धनम् रिज़र्व् बैंक मध्ये पूरयितुमनुज्ञा सर्वकारेण दत्तमस्ति।जनपद सहयोग वित्तकोशेभ्यः वारद्वयं प्रतिपाल्य स्थातुं शक्यते वा इति च न्यायालयः अपृच्छत्।  दिसंबर् ३० तः सर्वकारेण नियमेषु दयाचेतः भविष्यति तदा निवेदनं पुनरालोकयिष्ये इति च न्यायालयेन उक्तम्।

अङ्कीयधनविनिमयाय पुरस्कार: कोटिरूप्यकाणि
 नवदिल्ली>धनपत्रसमस्या करणत: अङ्कीयधनविनिमयाय प्रोत्साहं दातुं केन्द्रियसर्वकार: द्वे योजने प्रारभ्स्यते । पञ्चविंशति दिसेम्बर् दिनाङ्कादारभ्य एप्रिल् चतुर्दश दिनाङ्कपर्यन्तं धनरूपेण प्रोत्साहका: दास्यन्ति। लक्कीग्राहक नाम एका योजना क्रेतॄणाम्, वणिजानां कृते डिजिधनव्यापारी योजना इति च नीति आयोगस्य सी.ई.ओ श्री अमिताब् कान्त: उद्घोषितवान् ।
लक्की ग्राहक योजना द्वारा प्रतिदिनं पञ्चसहस्र-ग्राहकाणां सहस्ररूप्यकाणि, सप्ताहे सप्तसहस्र जनानां लक्षं रूप्यकाणि च दास्यन्ति। ’डिजिव्यापारीयोजना’ द्वारा सप्तसहस्र वणिजानां पञ्चाशत् सहस्ररूप्यकाणि दास्यन्ति । अन्तिमे लक्कीग्राहकयोजनायां त्रयाणां भाग्यजेतॄणां प्रथमस्य पञ्चाशत् लक्षं रूप्यकाणि,द्वितीयस्य कृते पञ्चविंशतिलक्षं रूप्यकाणि, तृतीयाय पञ्चलक्षं रूप्यकाणि च पुरस्कारवत् दास्यते।

राजवीथिनां पार्श्वे मदिराशालाः निरुद्धाः। 
नवदिल्ली >राष्ट्रिय-राज्यकीयराजवीथिनां पार्श्वे अर्धकिलोमीटर् परिधौ मदिराविक्रयणशालानां प्रवर्तनं निरुध्य सर्वोच्चन्यायालयस्य आदेशः। आगामि संवत्सरस्य एप्रिल् प्रथमदिनाङ्कादारभ्य अनुशासितव्यम्।
      मार्गेषु मदिराशालानां प्रवर्तनं मार्गदुर्घटनावर्धकम् इत्यनेन कारणेनैव मुख्यन्यायमूर्तिः टि एस् ठक्कुरः, न्याय. डि वै चन्द्रचूडः, एल् नागेश्वर रावः इत्येतेषां खण्डपीठस्य आदेशः।