OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 7, 2016

जयललितायै सहस्राणाम् अश्रुपूजा।
चेन्नै> तमिळ् नाटुराज्यस्य पुरट्ची तलैवी [परिवर्तननायिका] जयललितायाः देहवियोगे तत्रत्याः दशसहस्रशः जनाः दुःखाश्रुसङ्कुलनेत्रैः सन्तप्यमानहृदयैश्च स्वेषाम् अम्बाम् एकवारमप्यन्तिमदर्शनाय नगरसमीपस्थं मरीना सागरोपान्तं प्रवहन्ति। तत्रैव सामान्यजनानां दर्शनार्थं क्रमीकरणम् आयोजितम्।
             नैैकाः भारतीयराजनैतिकनेतारः जयललितायाः प्राणवियोगे अन्वशोचन्। प्रधानमन्त्री नरेन्द्रमोदी साक्षादनुशोचितुं चेन्नै प्राप्तः। तां प्रति आदरसूचकत्वेन एकदिनात्मकं राष्ट्रियदुःखाचरणं विज्ञापितम्। जयललितायाः अन्त्येष्टिः ह्यः सार्धचतुर्वादने एम् जि आर् स्मारकसमीपे अभवत्।

  केरलस्य राज्यस्तरीय-कायिकस्पर्धा- पालक्काट् विजितः।
कोष़िक्कोट्> केरलस्य राज्यस्तरीयविद्यालयीय कायिकोत्सवस्य आकाङ्क्षोज्वलपरिसमाप्तिः। गतचतुर्दिनेषु कोष़िक्कोट् विश्वविद्यालयस्य क्रीडाङ्कणे सम्पद्यमाने केरळछात्राणां कायिकोत्सवे किरीटलब्ध्यर्थं एरणाकुलं-पालक्काट्जनपदयोः पदप्रतिपदस्पर्धा एव दृष्टा। प्राथमिकदिनेषु अग्रगामित्वं प्रदर्शितवन्तम् एरणाकुलं जनपदं अन्तिमे दिने पराजित्य पालक्काट् जनपदः कायिककिरीटं स्वायत्तीकृतवान्। पालक्काट् २५५ अङ्के प्राप्ते एरणाकुलं २४७ अङ्कानि प्राप्य द्वितीयस्थानं प्राप्तवत्।

सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः - श्रीजगदीशसिंह:
नवदिल्ली>भारत-सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन जगदीशसिंह: नियुक्त: अभवत्। कार्यरतस्य न्यायाधीशस्य कालपरिमिति: जनवरी तृतीय दिनाङ्के समाप्तिर्भविष्यति । अत: जनवरी चतुर्थ दिनाङ्के श्री जगदीश: मुख्यन्यायाधीशपदवीं अलङ्करिष्यति । श्री जगदीश: चतुश्चत्वारिंशत्तम: मुख्यन्यायाधीश:।