OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः। व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 30, 2020

 ‘मनोगतम् [०२.१५] ‘मनकीबात’प्रसारण-तिथि: ३०–अगस्त-मासः, २०२०  

       [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]


     मम प्रियाः देशवासिनः, नमस्कारः | सामान्यतया कालोऽयम् उत्सवस्य भवति, नैकत्र मेलकानि आयोज्यन्ते, धार्मिक-पूजापाठाः विधीयन्ते | कोरोना-संकट-कालेsस्मिन्  जनेषु उल्लासस्तु अस्ति, उत्साहः अपि वर्तते, किञ्च,  अस्माकं मनान्सि संस्पृशेत्, तादृशम् अनुशासनम् अप्यस्ति |  सुबहु एकरूपेण पश्याम, चेत् नागरिकेषु दायित्वस्य अनुभूतिः अपि अस्ति | जनाः स्वीयावधानं सन्धारयन्तः, अपरेषाम् अवधानं

धारयन्तः, नैजानि दैनन्दीनि कार्याणि अपि आचरन्ति | देशे सम्पद्यमाने प्रत्येकमपि आयोजने येन प्रकारेण संयमः कृच्छ्रत्वञ्च क्रमेsस्मिन् अनुपाल्यते, तद्धि अभूतपूर्वम् | गणेशोत्सवः अपि कुत्रचित् ‘ऑनलाइन’- सद्यस्कः आमान्यते, तर्हि, अधिकतरेषु स्थानेषु क्रमेsस्मिन् पर्यावरणानुकूलाः श्रीगणेशप्रतिमाः  स्थापिताः | 

       सखायः, वयं वृत्तमेकं यदि, सूक्ष्मेक्षिकया विचारयिष्यामः, तर्हि तथ्यमेकं नूनं अस्मदीयायाम् अवधान-सरण्याम् आगमिष्यति – अस्मदीयानि पर्वाणि पर्यावरणं च | अनयोः मध्ये अतितरां गहनः सम्बन्धः | यत्र एकतः अस्माकं पर्वसु प्रकृति-पर्यावरणाभ्यां साकं सहजीवनस्य सन्देशः अन्तर्निहितः अस्ति, तत्र अपरतः कानिचित् पर्वाणि तु प्रकृतेः रक्षार्थमेव आमान्यन्ते | यथा, बिहारस्य पश्चिमीये चम्पारणे, थारु-आदिवासि-समाजस्य जनाः शताब्देभ्यः षष्टि-होरा-पर्यन्तं ‘lockdown’ –इति, आहोस्वित् तेषामेव शब्देषु कथ्येत चेत् ‘षष्टि-होराणां बरना’-पालनं कुर्वन्ति | प्रकृतेः रक्षार्थं  ‘बरना’-इत्येतत् थारुसमाजेन स्वीय-परम्पराणाम् अङ्गं विहितं, शताब्देभ्यः विहितम् | अस्मिन्नवधौ न कश्चन ग्रामम् आगच्छति, न वा कश्चन स्वीय-गृहात् बहिः गच्छति, तथा च जनाः आमनन्ति यत् ते यदि बहिः गच्छेयुः आहोस्वित् कश्चन बहिस्तः आगच्छेत्, तदा तेषां गमनागमनैः, जनानां दैनन्दिनैः कार्यैः, नूतनाः पादपाः वृक्षाः च क्षताः भवितुं शक्नुवन्ति | ‘बरना’-इत्यस्य आरम्भे अस्मदीयाः आदिवासिनः भगिनी-भ्रातरः भव्यरीत्या पूजा-पाठम् आचरन्ति, तथा च तस्य समाप्तौ आदिवासि-परम्पराणां गीतानां, संगीतस्य, नृत्यस्य च कार्यक्रमान् अपि सानन्दं सोत्साहं चायोजयन्ति |

             सखायः, एतेषु दिनेषु ‘ओणम्’-पर्व अपि सोत्साहं सभाज्यते | पर्वेदं चिंगम-मासे भवति | अस्मिन्नवधौ जनाः किञ्चित् नूतनं क्रीणन्ति, निज-गृहाणि सुसज्जीकुर्वन्ति, ‘पूक्क्लम् ’ निर्मान्ति, ‘ओणम्-सादिया’-इत्यस्य आनन्दम् अनुभवन्ति, विविधाः क्रीडाः स्पर्धाः चापि भवन्ति | ओणम्-पर्वणः उल्लासस्तु, सम्प्रति, दूरं-सुदूरं  विदेशेषु प्रापितः | अमेरिका भवतु, यूरोपः वा स्यात्, आहोस्वित् खातीयाः देशाः भवेयुः, ओणम्-पर्वणः उल्लासं भवन्तः सर्वत्र प्राप्तुम् अर्हन्ति | ‘ओणम्’ आन्ताराष्ट्रियोत्सवत्वेन विवर्धते | 

   सखायः, ओणम् अस्माकं कृषि-कर्मणा संयुक्तं पर्वास्ति | अयं हि अस्माकं ग्रामीणार्थव्यवस्थायै अपि नूतनारम्भस्य कालो भवति | कृषकाणां शक्त्या एव अस्मदीयं जीवनं,अस्माकं समाजः च प्रचलतः | अस्माकं पर्वाणि कृषकाणां परिश्रमेण एव मनोरमाणि रञ्जितानि च भवन्ति | अस्माकम् अन्नदातारः, कृषकाणां च जीवनदायिनी शक्तिः तु वेदेषु अपि सुबहु-गौरवेण प्रणताः सन्ति | 

ऋगवेदे मन्त्रोsस्ति – 

अन्नानां पतये नमः, क्षेत्राणां  पतये नमः |

अर्थात्, अन्नदात्रे नमस्कारः, कृषकाय नमस्कारः  | अस्माकं कृषकाः कोरोना-कालस्य कठिनासु परिस्थितिषु अपि स्वीयं सामर्थ्यं प्रमाणितवन्तः | अस्माकं देशे क्रमेsस्मिन् आषाढीयस्य शस्यस्य वपनं विगत-वर्षापेक्षया प्रतिशतं सप्तमितं अधिकतरं जातम् | धान्यानां वपनं प्रायेण प्रतिशतं दशमितं, द्विदलानां प्रायेण प्रतिशतं पञ्चमितं, स्थूलान्नानां प्रायेण प्रतिशतं त्रिमितं, तैलबीजानां प्रायेण प्रतिशतं त्रयोदशमितं, कार्पासस्य प्रायेण प्रतिशतं त्रिमितं च अधिकं वपनं जातम् | अहम्, एतदर्थं देशस्य कृषकान् वर्धापयामि, तेषां परिश्रमं प्रणमामि | 

   मम प्रियाः देशवासिनः, कोरोना-कालखण्डेsस्मिन् देशः अनेकेषु व्यूहेषु युगपद् एव युध्यति, किञ्च सहैव, अनेकवारं मनसि प्रश्नः अयं समुद्भूतः यत् एतावत्-दीर्घकाल-पर्यन्तं गृहेषु संरोधकारणात्, मदीयानां लघु-लघूनां बालमित्राणां कालः केन प्रकारेण याप्यते | तथा च, अस्मादेव कारणात् गान्धि-नगरस्य ‘Children University’- बाल-विश्वविद्यालयः यो हि जगति स्वप्रकारकः पृथगेव प्रयोगः वर्तते, भारत-सर्वकारस्य महिलाबालविकासमन्त्रालयः, शिक्षामन्त्रालयः, सूक्ष्म-लघु-मध्यमोद्योग- मन्त्रालयः, चैतैः सर्वैः सम्भूय, वयं बालानां कृते किं कर्तुं शक्नुमः, इति विषये मन्थनं कृतवन्तः, चिन्तनं चानुष्ठितवन्तः | मम कृते तु इदं सुतरां सुखदम् आसीत्, लाभकारि च अवर्तत यतो हि अन्यतर-प्रकारेण मत्कृते अपि किञ्चित् नूतनम् अवगन्तुम्,नवीनञ्च शिक्षितुम् अवसरो लब्धः |

   सखायः, अस्माकं चिन्तनस्य विषयः आसीत् – क्रीडनकानि, अपि  च, भारतीयानि  क्रीडनकानि | वयम् वृत्तमिदम् अचिन्तयाम यत् भारतीयाः बालाः नव-नवीनानि क्रीडनकानि, केन प्रकारेण अवाप्नुयुः, भारतम्, Toy Production-इति  क्रीडनकोत्पादने बृहत्तमं केन्द्रं केन प्रकारेण स्यात्? ‘मनोगतम्’- प्रसारणस्य श्रोतॄणां बालानां पितरौ क्षमां याचे, यतो हि सम्भवेत् यत्ते, इतः परं     ‘मनोगतम्’- प्रसारणस्य श्रवणानन्तरं क्रीडनकानां नव-नवीनानाम् अभियाचनानां श्रवणस्य कदाचित् अभिनवमेकं कार्यं सम्मुखीकरिष्यन्ति | 

वयस्याः, क्रीडनकानि एकतः क्रिया-विवर्धकानि भवन्ति, अपरतश्च क्रीडनकानि अस्माकम् आकाङ्क्षाः अपि उड्डापयन्ति | क्रीडनकानि केवलं मनान्सि एव नैव रञ्जयन्ति, एतानि मनसः निर्माणम् अपि कुर्वन्ति, लक्ष्याणि चापि विरचयन्ति | मया कुत्रचित् पठितं यत् क्रीडनकानां विषये गुरुदेवः रवीन्द्रनाथ-ठाकुरः कथितवान् यत् उत्कृष्टं क्रीडनकं तद् भवति यत् अपूर्णं भवेत् | एतादृशं क्रीडनकं, यत् अपूर्णं भवेत्, अपि च बालाः मिलित्वा क्रीडन्तः एव तत् पूर्णं कुर्युः | गुरुदेवः ठाकुरः अकथयत् यत् सः यदा कनिष्ठः आसीत् तदा स्वीय-कल्पनाद्वारा, गृहे प्राप्यैः वस्तुभिः एव, निज-मित्रैः सार्धं, स्वीयानि क्रीडनकानि क्रीडाः च विदधाति स्म | परञ्च, एकदा शैशवस्य तेषु आनन्दोल्लासमयेषु क्षणेषु ज्येष्ठानां हस्तक्षेपः अभवत् | एवं जातं यत् तेषाम् अन्यतमः सखा, एकं बृहत् सुन्दरञ्च, वैदेशिकं क्रीडनकम् आदाय सगर्वम् आगतः | साम्प्रतं  सर्वेषां  सखीनां ध्यानं क्रीडापेक्षया क्रीडनके स्थिरीभूतम् | प्रत्येकम् अपि बालस्य आकर्षणकेन्द्रं साम्प्रतं क्रीडा नैवासीत्, क्रीडनकं सम्वृत्तम् | यः बालः अधुना-पर्यन्तं सर्वैः सार्धं क्रीडति स्म, सर्वैः साकं वसति स्म, सर्वैः सह आत्मानं संयोजयति स्म, क्रीडायां सुतरां निमज्जति स्म, सः इतः परं दूरे स्थातुम् आरभत | अन्यतम-प्रकारेण शेषबालैः साकं भेदभावः तस्य मनसि रूढः जातः | महार्घेषु  क्रीडनकेषु रचनात्मक-कार्यार्थम् अपि किञ्चित् नासीत्, शिक्षणार्थमपि किञ्चित् नासीत्  | अस्यायम् अर्थः यत् एकेन आकर्षकेण क्रीडनकेन एकः उत्कृष्टः बालः कुत्रचित् दमितः, विलोपितः, म्लानीकृतः च | अपरैः शब्दैः एवं वक्तुं शक्यते यत् अमुना क्रीडनकेन धनस्य, ज्येष्ठत्वस्य च प्रदर्शनं कृतम्, परञ्च तस्य बालस्य रचनात्मक-भावः सम्वर्धनात् विकसनात् च अवरोधितः | क्रीडनकं  तु आगतम्, परञ्च क्रीडा समाप्ता, बालस्य विकसनम् चापि प्रणष्टम् | अतः, गुरुदेवः कथयति स्म यत्,  क्रीडनकानि तादृन्शि स्युः यानि बालस्य बाल्यं बहिः निष्कासयेत्, तस्य रचनात्मिकां क्रियां समक्षम् आनयेत् | बालानां जीवनस्य पृथक् पृथक् पक्षोपरि क्रीडनकानां यः प्रभावोsस्ति, तमाधृत्य  राष्ट्रिय- शिक्षानीतौ अपि समधिकम् अवधानं प्रदत्तम् | क्रीडावसरे शिक्षणम्, क्रीडनकानां संरचना-शिक्षणम्, क्रीडनकानि यत्र निर्मीयन्ते तत्रत्यः प्रवासः, एतत्-समग्रमपि पाठ्यक्रमस्य अङ्गत्वेन विहितम्  | 

                    वयस्याः,  अस्माकं देशे स्थानीयानां क्रीडनकानाम् अतिसमृद्धा परम्परा प्रावर्तत | अनेके प्रतिभाशालिनः कुशलाः च शिल्पिनः सन्ति, ये हि समुचितानां क्रीडनकानां निर्माणे दाक्ष्यं निर्वहन्ति | भारतस्य कानिचन क्षेत्राणि ‘Toy Clusters’ अर्थात् क्रीडनकानां केन्द्ररूपेण विकसन्ति | यथा – कर्णाटके रामनगरम् –इत्यत्र चन्नापटना, आन्ध्रप्रदेशस्य कृष्णाजनपदे कोंडापल्ली, तमिलनाडु-राज्ये तंजौरः, असमराज्ये धुबरी, उत्तरप्रदेशे वाराणसी – चेत्यादीनि अनेकानि स्थानानि सन्ति,  नैक-नामानि गणयितुं शक्यते | भवन्तः एतज्-ज्ञात्वा आश्चर्यम् अनुभविष्यन्ति यत् ‘Global Toy Industry’,- इति  वैश्विक-क्रीडनकोद्योगः सप्तलक्ष-कोटिरूप्यकेभ्यः अपि अधिकतरोsस्ति |  सप्तलक्ष-कोटिरूप्यकाणाम् एतावान् बृहत्तमः उद्योगः, परञ्च भारतस्य अंशः तत्र अल्पीयान् एव | साम्प्रतं भवन्तः विचारयन्तु  यत्  यस्य राष्ट्रस्य पार्श्वे एतावत् रिक्थं स्यात्, परम्परा भवेत्, विविधता  स्यात्, युव-सन्ततिः भवेत्, किं क्रीडनकानां विपण्यां तस्य सहभागित्वं एतावत् न्यूनं भवेत्, तत् किम् अस्मभ्यं रोचिष्यते ननु? न कदापि, एतत्-श्रवणानन्तरं भवद्भ्यः अपि न रोचिष्यते | अवलोकयन्तु, सखायः, क्रीडनकानाम् उद्योगः अतिव्यापकः | गृहोद्योगः भवतु, लघु-लघुतरोद्योगः वा स्यात्, ‘Msmes’ इति वा स्यात्, एतैः साकं बृहदुद्योगाः, वैयक्तिकाः उद्यमिनः च  अस्मिन् अन्तर्भवन्ति | एनम् अग्रे सारयितुं देशेन सम्भूय श्रमः करणीयः |  सम्प्रति यथा आन्ध्रप्रदेशे विशाखापट्टनम्-स्थः श्रीमान् सी.वी.राजूः अस्ति | तस्य ग्रामस्य एति-कोप्पका-क्रीडनकानि कस्मिन्श्चित् काले अतिप्रचलितानि आसन् | एतेषां वैशिष्ट्यम् आसीत्  यदेतानि काष्ठ-निर्मितानि,  अपरः विषयः यत् एतेषु क्रीडनकेषु भवन्तः कुत्रापि कोणं नैव लप्स्यन्ते | इमानि क्रीडनकानि प्रत्येकमपि पक्षतः वलयाकाराणि भवन्ति स्म, अतः बालानाम् कृते आधात-शङ्का अपि निर्मूला भवति स्म | सी.वी.राजूः एतिकोप्पका- क्रीडनकानां कृते, अधुना, निजग्रामस्य शिल्प-कर्मिभिः सम्भूय सर्वथा नवीनम् अभियानम् आरभत | समुचित-गुणवत्तायाः एति-कोप्पकाक्रीडनकानि निर्मीय सी.वी.राजूः स्थानीय-क्रीडनकानां विलुप्तं गौरवं परावर्तितवान् | क्रीडनकैः साकं वयं वस्तु-द्वयं कर्तुं पारयामः – स्वीयं गौरवशालि अतीतं निज-जीवने पुनः क्रियया अन्वेतुं, नैजं स्वर्णिमं च भविष्यत् अपि संस्कर्तुं प्रभवामः | अहं स्वीयान् ‘Start-Up’-वयस्यान्, अस्मदीयान् नवीनान् उद्यमिनः च कथयामि यत् - Team Up For Toys… आगच्छन्तु, मिलित्वा क्रीडनकानि विरचयेम | साम्प्रतं सर्वेषां कृते Local-इति स्थानीय-क्रीडनकानां कृते Vocal-इति मुखरत्वस्य कालः अस्ति | आगच्छन्तु, वयं स्वीय-यूनां कृते किञ्चित्-नवल-प्रकारकाणि क्रीडनकानि, समीचीन-गुणवत्तायुतानि क्रीडनकानि विरचयाम | क्रीडनकं हि तत् भवेत् यस्य उपस्थितौ शैशवं विकसेदपि, विहसेदपि, | वयं तादृशीनि क्रीडनकानि विरचयेम, यानि पर्यावरणस्य कृतेsपि अनुकूलानि स्युः |

                  सखायः , साम्प्रतं संगणकानां स्मार्ट-चलभाषयन्त्राणाम्  अस्मिन्युगे सांगणकीय-क्रीडानां अतिशयं प्रचलनमस्ति। एताः क्रीडाः यथा बालैः क्रीड्यन्ते तथैव वयस्कैरपि। परम् आसां क्रीडानां विषयवस्तूनि प्रायशः बाह्यदेशीयानि भवन्ति। यद्यपि अस्माकं देशे बहुविध-विचाराः सन्दर्भाश्च सन्ति, अस्माकम् इतिहासोsपि समृद्धः अवर्तत। किं वयं तान्विचारान् समृद्धेतिहासं चाधृत्य  सांगणकीय-क्रीडाः संयोजयितुं शक्नुमः। अहं देशस्य यविष्ठप्रतिभां आह्वयामि यद्भवन्तः भारते भारताधृतानां क्रीडानाम् उपकल्पनं कुर्वन्तु। कथ्यते चापि - Let The Games Begin!  तर्हि आगच्छन्तु, क्रीडारम्भं करवाम।

         वयस्याः, आत्मनिर्भर-भारताभियाने अध्यासक्रीडाभिः क्रीडनकक्षेत्रेण च महती भूमिका निर्वोढव्यास्ति, साम्प्रतमेतस्य अवसरोsपि सम्प्राप्तः।  शतैकवर्षपूर्वं यदा असहयोगान्दोलनम् आरब्धम्, तदा गान्धिमहोदयेन लिखितमासीद् यत् - ‘‘असहयोगान्दोलनं देशवासिषु आत्मसम्मानं आन्तरिकशक्तिं च बोधयितुम् अन्यतमः प्रयासः अस्ति’ इति।

      अद्य वयं देशम् आत्मनिर्भरं कर्तुं प्रयतामहे, तर्ह्यस्माभिः पूर्णात्मविश्वासेन अग्रे गन्तव्यमस्ति, प्रत्येकमपि क्षेत्रमात्मनिर्भरं करणीयमस्ति। असहयोगान्दोलनत्वेन यद्बीजं वप्तमासीत् तस्य आत्मनिर्भरभारतस्य वटवृक्षत्वेन परिवर्तनं साम्प्रतमस्माकं सर्वेषां दायित्वमस्ति। 

       मम प्रियाः देशवासिनः, भारतीयानां नवोन्मेषः, समाधानवृत्तिश्च सर्वैः अभिनन्द्येते। यदाऽनयोः साकं समर्पणभावः सम्वेदना च योज्येते तर्ह्यसीमशक्तिः उद्भवति। मासारम्भेsस्मिन् देशस्य यूनां समक्षमेकं सांगणकीयोपकरण-नवोन्मेषाह्वानं समुपस्थापितमासीत्। अस्मिन् आत्मनिर्भरभारतोपकरण-नवोन्मेषाह्वाने अस्माकं युवजनैः सोत्साहं  सहभागः निर्व्यूढः। प्रायः सप्तसहस्रमिताः प्रस्तावाः आगताः, तेषु अनुमानतः प्रतिशतं षट्षष्टिमिताः द्वितीय-तृतीय- स्तरीयनगराणां युवजनैः कल्पिताः।  अयं हि आत्मनिर्भरभारतस्य, देशस्य चाऽनागतस्य कृते अतीव शुभसंकेतः विद्यते। आत्मनिर्भरोपरण-नवोन्मेषाह्वानस्य परिणाममवेक्ष्य भवन्तः अवश्यमेव प्रभाविताः भविष्यन्ति। पर्याप्त निरीक्षणानन्तरं भिन्नवर्गेषु प्रायशः पंचविंशतिमितानि उपकरणानि पुरस्कृतानि। भवन्तः अवश्यमेव एतेषां विषये जानन्तु तेषामुपयोगं च कुर्वन्तु। एतेन भवन्तश्चापि किंचित्संकल्पनायै उत्प्रेरिताः भवितुमर्हन्ति। एतेषु एकः ‘कुटुकि’इति  बालशिक्षणोपकरणमस्ति। एतेन नवप्रवर्तितोपकरणेन बालाः गीतानां कथानां च माध्यमेन गणित-विज्ञानविषयेषु बहुविधज्ञानमधिगन्तुं पारयन्ति। अस्मिन् अनेकानि  कार्याणि क्रीडाश्च सन्ति। एवमेवैकः सूक्ष्मब्लॉगेति सम्प्रेषणाधारात्मकं उपकरणमस्ति यस्य नाम ‘कू’ इत्यस्ति।  अस्य माध्यमेन वयं स्वीयमातृभाषायां कथ्य-चलचित्र-मौखिकमाध्यमेन सन्देशं  प्रेषयितुं शक्नुमः। एवमेव ‘चिंगारी’ इत्यपि सांगणकीयोपकरणं युवजनेषु प्रसिद्धं भवति। अन्यमेकम् उपकरणम् ‘आस्क सरकार’ इत्यस्ति, यस्य ‘‘चैट-बोट’- माध्यमेन कस्याश्चिदपि सर्वकारीययोजनाविषये कथ्य-चलचित्र-मौखिकैर्वा माध्यमैः विवरणमवाप्तुं शक्यते। एतदुपकरणं भवद्भ्यः अतीव सहायकं भवितुमर्हति। अन्यं ‘स्टेप्-सेट्-गो’ इति सौष्ठवोपकरणं विद्यते। भवद्भिः कियत् चलितं, कतिमिताश्च ऊष्मांकाः प्रयुक्ताः, एतत्सर्वं एतदुपकरणेन गण्यते। एतच्च भवन्तं स्वास्थ्यसंधारणाय उत्प्रेरितमपि करोति। एतानि कतिपयोदाहरणानि मया प्रस्तुतानि। अन्यान्यपि अनेकान्युपकरणानि पुरस्कृतानि। अनेकानि व्यापार-क्रीडासम्बद्धानि च संगणकीयोपकरणानि सन्ति यथा - ‘Is Equal To’, Books & Expense, Zoho (जोहो) Workplace, FTC Talent...इत्यादयः |        

       भवन्तः अन्तर्जाले एतेषामन्वेषणं कुर्वन्तु येनानेकविधं ज्ञानं लप्स्यते। भवन्तोsपि अग्रेसरन्तु, किमपि नवान्वेषणं नवप्रवर्तनं वा कुर्वन्तु। भवतां साम्प्रतिकाः लघुप्रयासाः अनागते सुप्रतिष्ठित-समवायत्वेन विकसिताः भविष्यन्ति, विश्वस्मिन् विश्वे च भारतस्य अभिज्ञानत्वेन स्थापिताः वर्तिष्यन्ते । भवद्भिः नैव विस्मरणीयं यत् अद्य  ये समवायाः  संसारे  सुप्रतिष्ठिताः, तेsपि कदाचित् सद्यः उपस्थापिताः एवासन्। 

       मम प्रियाः देशवासिनः, अस्माकं बालाः विद्यार्थिनश्च स्वीयम् अशेषसामर्थ्यं क्षमतां च प्रदर्शयन्तु, एतस्य कृते पोषणम् अत्यावश्यकम् । अखिलदेशे सेप्टेम्बरमासः पोषणमासत्वेन आयोजयिष्यते। राष्ट्रस्य पोषणस्य च गहनसम्बन्धः भवति। अत्रैका जनोक्तिरस्ति ‘‘यथा अन्नं तथा मनः’ इति । अर्थात् यथास्माकं अन्नं भवति तथैवास्माकं मानसिकः बौद्धिकः च विकासः भवति। बालानां पोषणस्य कृते मातृणां पोषणमपि अपरिहार्यम् । भवन्तः किं खादन्ति, कियत्, कतिवारं च खादन्ति; एतेन पोषणस्य तावान् सम्बन्धः नास्ति यावान् शरीरे आवश्यकतत्वानां आपूर्त्या भवति । अपि भवन्तः लौहं, छौरेयं, विक्षारं, जीवसत्वं चेत्यादीनां पोषणस्य प्रमुखतत्त्वानां ग्रहणं कुर्वन्ति? पोषणस्य अस्मिन्नान्दोलने जनसहभागित्वं अत्यावश्यकम् । जनसहयोगेनैव  एषः सङ्कल्पः  सफलः भविष्यति। गतवर्षेषु अस्यां दिशायां देशे प्रभूतप्रयासाः विहिताः। विशेषतः अस्माकं ग्रामेषु जनसहयोगेनैषः जनान्दोलनत्वेन स्थाप्यते। पोषणसप्ताहानां, पोषण-मासानां च आयोजनेन अस्मिन्विषये जागर्तिः प्रसार्यते।    

         विद्यालयेषु स्पर्धायोजनेन बोधविस्तरार्थं प्रयासाः सततं विधीयन्ते। यथा कक्षायां एकः नायकः भवति तथैव एकः पोषणनिरीक्षकः अपि भवतु, बालानाम् अंकतालिका एव पोषणतालिका अपि भवेदिति दिशायां प्रयासाः विधीयमानाः सन्ति। पोषणमासावधौ ‘माई-गोव’ इति जालद्वारा  एका प्रश्नोत्तरी, मीम-स्पर्धा चापि भविष्यतः। भवन्तः अत्र भागं गृह्णन्तु अन्यांश्चापि उत्प्रेरयन्तु। 

        सखायः! यदि भवद्भिः गुजराते सरदारवल्लभभाईपटेलस्य ‘स्टैच्यू ऑफ यूनिटी’ इत्यत्र विहारावसरः लब्धः, साम्प्रतं च यदा कोविडसंकटानन्तरं तत्र गमिष्यन्ति वा, भवन्तः  तदा द्रक्ष्यन्ति यद् अत्रैकम् अपूर्वं पोषणोद्यानं स्थापितम् । तत्र क्रीडामाध्यमेन सानन्दं च पोषणविषयकं ज्ञानमधिगन्तुं शक्ष्यते। 

         सखायः, भारतं विशालम् राष्ट्रम् । पानाशनयोः अत्र  बहुवैविध्यम्। देशे षडृतवः भवन्ति। भिन्नक्षेत्रेषु  ऋतोः अनुकूलानि खाद्यानि उद्भवन्ति। एतेन क्षेत्रीयस्य ऋतुकालस्या- नुसारेण स्थानीय भोज्यानाम् अन्न-फल-शाकादीनां समावेशेन पोषणयोजना निर्धारितव्या। करम्भक-लंगुर-महागोधूमादीनि रुक्षान्नानि अतिपोषकाणि भवन्ति। एकः भारतीयकृषिकोशः निर्मीयते, यस्मिन् देशस्य प्रत्येकं जनपदे किमुत्पाद्यते, तस्य पोषणस्तरः कियत् इतिविषयकं पूर्णवृत्तं संग्रहीष्यते। इदं भवतां कृते बहूपयोगि भवितुमर्हति। आगच्छन्तु, पोषणमासे पौष्टिक-भोजनग्रहणाय अन्येभ्यश्च स्वास्थ्यसंधारणस्य प्रेरणायै सन्नद्धाः भवेयुः।

           प्रियाः देशवासिनः, गतदिनेषु, यदा वयं स्वीयस्वातन्त्र्य-दिवसम् आयोजयन्तः स्मः तदैकं रुचिरवृत्तं मम ध्यानाकर्षणमकरोत्। वृत्तमिदम् अस्माकं सुरक्षाबलानां सुभट-द्वयस्य विषयेsस्ति। एतयोरेकः ‘सोफी’अन्यश्च ‘विदा’ इत्यस्ति ।  एतौ भारतीयसेनानां श्वानौ स्तः यौ हि सेनाध्यक्षाणां ‘कोमेंडेशन-कार्ड’ इत्यनेन सभाजितौ।  ‘सोफी’, ‘विदा’ चैतत्सम्मानं अधिगतवन्तौ यतोहि ताभ्यां देशरक्षायै स्वीयं कर्त्तव्यम्  अनात्मभावेन निर्व्यूढम् । अस्माकं सेनासु, सुरक्षाबलेषु च बहवो निर्भीकाः श्वानाः सन्ति ये देशाय जीवन्ति, देशरक्षायै च प्राणार्पणं कुर्वन्ति। नैकेषु विस्फोटेषु, आततायिनां षड्-यन्त्रोपशमनाभियानेषु नैकैः श्वानबलैः विशेष भूमिका निर्व्यूढा। किंचित्कालपूर्वं मया देशरक्षायां श्वानबलानां भूमिकाविषये विस्तरेण ज्ञातम् । नैकाः कथाश्चापि श्रुताः। एकेन बलरामाख्येन श्वानेन षडुत्तरद्विसहस्रतमे वर्षे अमरनाथयात्रामार्गे बहुमात्रिकं प्रच्छन्नविस्फोटकं अन्विष्टमासीत्। द्व्यधिक-द्विसहस्रतमे वर्षे  ‘भावना’इत्यनया आई.ई.डी.विस्फोटकम् अन्विष्टम् । अस्य निस्तारणप्रसंगे आतंकवादिभिः आई.ई.डी.इति विस्फोटितं येन एषा हुतात्मत्वम् अवाप्नोत् । कतिपयवर्षपूर्वं छत्तीसगढस्य बीजापुरे केन्द्रीयारक्षितारक्षि-बलानां  घ्राणज्ञश्वानः हुतात्मा संजातः। विगतदिनेषु भवद्भिः स्वीय-दृश्यवाहिनीषु अतीव भावुकं दृश्यं दृष्टं भवेद्यत् ‘बीड’ इति क्षेत्रस्यारक्षिणः स्वीयं श्वान-सहभागिनं  ‘रॉकी’ इत्येनं ससम्मानम् अन्तिमं सौप्रस्थानिकं व्याहृतवन्तः। रॉकी श्वानेन त्रिशताधिकानाम् अपराधानां समाधाने आरक्षिणां साहाय्यं विहितमासीत्। आपदाप्रबन्धने निस्तारणाभियानेषु च श्वानानां महती भूमिका भवति। भारते राष्ट्रियापदाप्रतिकरण-बलेन एन.डी.आर.एफ्. इत्यनेन श्वानाः प्रशिक्षिताः सन्ति। एतानि श्वानबलानि भूकम्पे,  भवनध्वंसे, अवशेषसक्तानां  जनानाम्  अन्वेषणे च विशेषज्ञाः भवन्ति। 

           सखायः, अहं सूचितोऽस्मि यत् भारतीय-प्रजातीनां श्वानाः अपि उत्तमाः दक्षाः च भवन्ति। भारतीयाभिजातिषु मुधोल-हाउण्डः, हिमाचलीय-हाउण्डः, राजापलायमः, कन्नी, चिप्पीपराई, कोम्बाई- इत्यादयः श्रेष्ठप्रजातयः सन्ति। एतेषां परिपालनव्ययः सीमितः, एते च भारतीयपरिवेशे सुसमायोजिताश्चापि भवन्ति। साम्प्रतमस्माकं सुरक्षाबलानि एतान्भारतीय- प्रजातीयान् शुनः स्वीयसुरक्षातन्त्रे योजयन्ति। विगतसमये सेनाभिः, केन्द्रीयोद्यौगिक- सुरक्षाबलेन, राष्ट्रीयसुरक्षाबलैश्चापि प्रशिक्षितानि, मुधोल-हाउण्डेति प्रजातीयश्वानबलानि समावेशितानि सन्ति। केन्द्रीयारक्षितारक्षिबलैः ‘कोम्बाई’-प्रजातीयाः श्वानाः नियोजिताः। भारतीयकृष्यनुसन्धानपरिषदपि भारतीयप्रजातीयेषु श्वानेषु अनुसन्धानं करोति। अस्योद्देश्यः भारतीय-श्वान-प्रजातीनाम्  उन्नतीकरणम्  उपयोगसंवर्धनं चास्ति ।  भवन्तः अन्तर्जाले एतेषां नामान्वेषणं कुर्वन्तु। एतेषां विषये जानन्तु। अवश्यमेव भवन्तः एतेषां सौष्ठवं गुणसम्पदां चाऽवेक्ष्य आश्यर्चान्विताः भविष्यन्ति। अनागते यदापि भवन्तः श्वानपालनाय विचारयन्तु, तदैतेषु कमपि भारतीय-प्रजातीयं श्वानं गृहे नयन्तु। आत्मनिर्भरभारतं यदा जनमनःमन्त्रं भवति तदैषः विषयोsपि नैव विगणनीयः। 

          मम प्रियाः देशवासिनः, कतिपयदिवसानन्तरं सेप्टेम्बरस्य पंचमे अह्नि वयं शिक्षकदिवसं मानयिष्यामः। यदा वयं स्वीय सफलां जीवनयात्रां चिन्तयामः तदा कस्यचित्शिक्षकस्य स्मरणं अवश्यमेव भवति। तीव्रतया परिवर्तमाने समये, कोरोनासंकटकाले च अस्माकं शिक्षकाणां पुरतः अपि समयेन साकं परिवर्तनस्याह्वानं समुपस्थितम्। अहं नन्दितोस्मि यदस्माकं शिक्षकैः न केवलं एतदाह्वानं स्वीकृतम्,  अपितु अवसरत्वेनापि समाशोधितम्। शिक्षणे प्रविधेरुपयोगः कथं अभिवर्धनीयः, नूतन-शिक्षण-प्रविधीनां प्रयोगः कथं कर्तव्यः, विद्यार्थिभिः सहयोगः कथं वर्धनीयः इत्यादिषु अस्माकं शिक्षकैः सहजानि समाधानानि अधिगतानि  स्वीयछात्रेभ्यश्च अन्तरितानि । अद्य देशे सर्वत्र नवोन्मेषाः सम्पाद्यमानाः सन्ति। शिक्षकाः छात्राश्च सम्भूय नवाचरणं कुर्वन्ति। अहं आशान्वितः अस्मि यद्राष्ट्रियशिक्षानीतिमाध्यमेन आमूलं  परिवर्तनम् आगम्यमानमस्ति, अस्माकं च शिक्षकाः एतस्य लाभं छात्रेभ्यः प्रसारयितुं केन्द्रीयभूमिकां निर्वक्ष्यन्ति। 

          मित्राणि, विशेषतश्चास्माकं शिक्षकबन्धवः,  द्वाविंशदुत्तर-द्विसहस्रतमे वर्षे अस्माकं देशः स्वतन्त्रतायाः पंचसप्ततितमं वर्षपूर्तिपर्व आयोजयिष्यति। स्वतन्त्रतापूर्वम्  अस्माकं देशे स्वातन्त्र्य-संघर्षस्य सुदीर्घपरम्परा अवर्तत। देशस्य कोsपि भागः नासीत् यत्र स्वातन्त्र्यसैनिकैः प्राणार्पणं नैव कृतं, सर्वस्वं वा नैव उत्सृष्टम् । अस्माकं साम्प्रतिकैः नागरिकैः, विद्यार्थिभिश्च स्वातन्त्र्यसंघर्षस्य, अस्य च नायकानां विषये अवश्यमेव ज्ञातव्यम्। स्वीयजनपदे क्षेत्रे वा स्वातन्त्र्यान्दोलने  किं जातं, कथमभवत्, कः हुतात्मत्वं आप्तवान्, कः कियत्कालं यावत् कारानिरुद्धः, एतादृग्वृत्तं यदास्माकं विद्यार्थिनः ज्ञास्यन्ति, तदा तेषां व्यक्तित्वे तस्य प्रभावः अपि प्रतिबिम्बितः भविष्यति।  अस्य कृते महत्प्रयासः आचरणीयः  यस्मिन्नस्माकं शिक्षकाणां विशिष्ट-दायित्वम् अस्ति। भवन्तः यस्मिन् जनपदे सन्ति, तत्र विगतशताब्देषु स्वातन्त्र्यसंघर्षे कापि विशिष्ट घटना घटिता न वा, एतद्विषये अनुसंधानं कारयितुं शक्यते। एतस्य लेखनं विद्यालयस्य पक्षतः कर्तुं पार्यते। भवतां नगरे स्वातन्त्र्य-समरसम्बद्धम्  यदि किमपि स्थलम् विद्यते तदा  छात्राः तत्र नेतव्याः। कस्यचित्  विद्यालयस्य  विद्यार्थिनः स्वतन्त्रतायाः पंचसप्ततितमे वर्षे पंचसप्ततेः नायकानां विषये काव्यानां नाटकानां वा लेखनं कर्तुं शक्नुवन्ति। भवतां  प्रयासाः देशस्य सहस्रम् लक्षान् वा नायकान् प्रत्यक्षीकरिष्यन्ति ये देशाय जीवनं संधारितवन्तः प्राणांश्च अर्पितवन्तः। तेषां नामानि समयेन साकमेव विस्मृतानि। यदि वयं एतादृशान् महानुभावान् सम्मुखं करिष्यामः, अपिच स्वतन्त्रतायाः पंचसप्ततितमे वर्षे तान्स्मरामः; तर्हि तेभ्यः पारमार्थिकः श्रद्धांजलिः भविष्यति। वयं सेप्टेम्बरमासे पञ्चमे दिने  शिक्षकदिवसम्  आयोजयामः  इतिकृत्वा  शिक्षकमित्राणि समाह्वयामि यत् ते अस्य कृते परिवेशनिर्माणं कुर्वन्तु, सर्वांश्च योजयन्तु। सर्वे च मिलित्वा प्रयासं कुर्वन्तु। 

मम प्रियाः देशवासिनः, देशः अद्य यां विकासयात्रां प्रति याति,अस्याः सफलता तदैव सुखदा भविता यदा प्रत्येकमपि देशवासी अस्यां समाविष्टः  स्यात्, अस्याः यात्रायाः यात्री भवेत्, अस्य पथः पथिकः भवेत्, अतः एतदावश्यकं यत् प्रत्येकमपि देशवासी स्वस्थः भवेत्, सुखी स्यात् वयञ्च सम्भूय कोरोना-सङ्क्रमणं पूर्णतया विजयेम | कोरोना तदैव पराजेष्यति  यदा भवन्तः सुरक्षिताः स्थास्यन्ति, यदा भवन्तः “दो गज की दूरी, मास्क जरुरी”,- इति सङ्कल्पं सम्पूर्णरीत्या पालयिष्यन्ति, भवन्तः सर्वे स्वस्थाः तिष्ठन्तु, सुखिनः सन्तु,- एताभिः शुभकामनाभिः साकम् आगामिनि मनोगतम्-प्रसारणे पुनः मेलिष्यामः | 

भूरिशो धन्यवादाः  | नमस्कारः |


*****



   [भाषान्तरं – डॉ.श्रुतिकान्तपाण्डेयेन सम्भूय बलदेवानन्द-सागर-द्वारा]

                     अणुप्रैषः  - baldevanand.sagar@gmail.com