OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 3, 2024

 उज्जयिन्यां  विराट् संस्कृतसम्मेलनस्य  आयोजनं जातम् ।

 -डॉ.दिनेश चौबे, उज्जयिनी

 

 संस्कृतभारती,उज्जयिनी इत्यस्य  तत्वावधाने मंगलवासरम् उज्जैन अभियांत्रिकीमहाविद्यालये, विराट्जनपदसंस्कृतसम्मेलनस्य आयोजनम् अभवत् सम्मेलने नगरस्य  सर्वे संस्कृतज्ञ: , संस्कृतानुरागिण: कार्यकर्तारा: च बहु संख्यायाम् उपस्थिता: आसन्।  कार्यक्रमस्य शुभारंभ: सरस्वतीपूजनेन दीपदीपेन सह जात:। मुख्यातिथिरूपेण उपस्थित: आसीत् मध्यक्षेत्रस्य संगठनमंत्री: श्रीप्रमोदपंडितवर्य: महोदय: स्वउद्बोधने उक्तवान् यत् संस्कृतभाषा प्रत्येकस्य भारतीयस्य  रक्ते विद्यमानम् अस्ति प्रवहति च संस्कृतं नहि भारतस्य अपितु सम्पूर्णं  विश्वस्य भाषा अस्ति।  बहवः जनाः ये  संस्कृत वक्तुं समर्था: न सन्ति। किंतु ते संस्कृतम् अवजानन्ति  अस्य तात्पर्यमिदम्  अस्ति यत्  संस्कृतभाषा तेषां रुधिरे प्रवहति। केवलम् आवरणम् दूरी करणीयम् अस्ति। 

  विशिष्टातिथिरूपेण  उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य  कुलपति: आचार्यविजयकुमार: सीजीवर्य:  उपस्थितः आसीत्। महोदयेन उक्तं यत्  संस्कृतभाषा भारतं  पुनः विश्वगुरुरूपेण प्रतिष्ठापितुं  महत्वपूर्णां भूमिकां  निर्वहति ।भारतीयज्ञानपरंपराया: सम्प्रति संस्कृतमाध्यमेन  संपूर्णविश्वे  प्रचार प्रसारं च क्रियते।  अस्मिन अवसरे कालिदाससंस्कृतअकादमी  निदेशक: डॉ.गोविंदगन्धेेवर्य: अपि उपस्थितः आसीत् । महोदयेन संस्कृतस्य  संवर्धनम् उन्नयनं तथा च तस्य प्रचारं प्रसारं कर्तुं  आवाहनं कृतम् ।सदैव कटिबद्ध: भूत्वा संस्कृतमाध्यमेन लोकस्य हितं कुर्वन्तु  इति तस्य चिन्तनम् आसीत्। कार्यक्रमस्य अध्यक्षता उज्जैनी,अभियांत्रिकी महाविद्यालयस्य  प्राचार्ययेण श्रीजीकेश्रीवास्तव महोदयेन कृता ।  संस्कृतभाषायां निहितं ज्ञानविज्ञानेन सामान्य जनानां परिचय: भवेत्  तथा जागरूकताभियानस्य आयोजनं करणीयम् इति। कार्यक्रमस्य  संचालनं श्रीहेमंतपंड्यामहोदयेन आभारप्रदर्शनञ्च धर्मदासबैरागी विभागप्रमुखेन कृतम्।

   अस्मिन् अवसरे छात्रै:  संस्कृतगीतं, संस्कृतनाटिका,  संस्कृतनृत्यम् प्रस्तुतम्।  संस्कृतप्रदर्शनी अपि  प्रदर्शिता   कार्यक्रमे डॉ. उपेंद्रभार्गव:, डॉ.रमेशशुक्ल:,डॉ.मनोजद्विवेदी डॉ.दिनेश चौबे, डॉ.अमिताभ शुक्ल: श्रीमुकेशभाला, श्रीसुभाष कुमावत: उपस्थिता: आसन्। कल्याणमंत्रेण सह कार्यक्रमस्य समापनं जातम्।