OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 30, 2024

  राष्ट्रिय मतदातृ दिवससमारोहः 

वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

  राष्ट्रिय मततदातृ दिवसावसरमुपलक्ष्य देहरादूनगांधीपार्क् इत्यत्र राज्यनिर्वाचन-आयोगद्वारा भव्यकार्यक्रम: समायोजितोभवत्। समारोहस्य मुख्यातिथि: महामहिमराज्यपाल: लेफ्टिनेंटगुरमीतसिंह: कार्यक्रमे समुपस्थित: आसीत् । अत्र विभिन्नकार्यक्रमेषु निबन्धचित्रकलाश्लोगनादिप्रतियोगिता: अपि अभवन् अत्र प्रथमस्थानं प्राप्तकर्तृभ्य: प्रतिभागिभ्य: ५००० रुप्यकाणां धनराशिं प्रदाय प्रतिभागिन: सम्मानिताः अभवन् यत्र अटल-उत्कृष्ट-रा.इ.का.नौगांवखालत: हिन्दी प्रवक्ता रोशनबलूनी 511 श्लोगनप्रतिभागितायां प्रथमस्थानं प्राप्तवान्। वक्तव्यम् अस्ति यत् उपर्युक्तत्रिविधप्रतियोगितासु त्रयोदशजनपदेषु प्रथम:, द्वितीय: तृतीय: सुनिश्चिते राज्यस्तरे श्लोगनप्रतियोगितायां लछमपुरकोटद्वारनिवासी रोशनबलूनी प्रथमं स्थानं प्राप्तवान् । 

   जागरूकताम् वर्धयितुं उत्तराखण्डस्य प्रत्येकस्य जनपदस्य निर्वाचनाधिकारिणः स्तम्भाः प्रदर्शन्य: अपि सम्प्रदर्शिता: , येषु आदर्शमतदानकेन्द्राणां विषये सूचनाः दत्ताः, निर्वाचनायोगेन महिलानां, वृद्धानां, विकलाङ्गानाम् च कृते प्रदत्तानां सौविध्यानां विषये च सूचनाः दत्ताः। कार्यक्रमस्य कालखण्डे महामहिमराज्यपालः सर्वप्रदर्शनीनां भ्रमणं कुर्वन् आसीत्, तदा पौडीजनपदस्यस्य रा.बा.इ.का.कोटद्वारस्य छात्राः राज्यपालस्य सम्मुखे "महिलामतदाता जागरूकता तथा प्रयासः" इति पथनाटकं कृतवत्य:, यस्य निर्देशनं विज्ञानशिक्षिका श्रीमती शकुन्तला बुडाकोटी इत्यनया कृतम् आसीत् । कार्यक्रमे राज्यनिर्वाचनायुक्त: चंद्रशेखरभट्ट:, निर्वाचनसचिव: दिलीपजवालकर:, मुख्यनिर्वाचनाधिकारी डॉ.वी.षणमुगम:, अपरमुख्यनिर्वाचनाधिकारी विजयकुमारजोगदंडे, मुख्यशिक्षा-अधिकारी श्रीदिनेशचंद्रगौड: आदयश्च अधिकारिण: उपस्थिता: आसन्। कार्यक्रमस्य संचालनं प्रख्यात: उद्घोषकः श्री हेमन्तबिष्टः कृतवान् ।