OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 7, 2016

'नीट्' विषये पुनरपि आश्वासवचनानि 

     नवदेह्ली : - वैद्यपठनमण्डले देशीयैकीकृतप्रवेशनपरीक्षायाः पूर्वमेव प्रवेशनपरीक्षाम् आयोजितेभ्यः राज्येभ्यः उच्चतर न्यायालयपक्षतः आश्वासवचनानि। नियमस्य आधारेण राज्याणां प्रवेशनपरीक्षाणां साधुतायै अन्यं  कमपि मार्गं प्रस्तौतुम्‌ उच्चतरन्यायालयेन केन्द्र सर्वकाराय निर्देशः दत्त:। ' नीट् ' विषये उच्चतरन्यायालयेन अप्रैल् २८ दिनाङके एव निर्देश: दत्त: वर्तते। ततः पूर्वमेव विविधैः राज्यैः प्रवेशनपरीक्षा समापिता ।

 श्रीशङ्करकुलदेवमन्दिरे कनकधारायज्ञः अद्य आरभते। 
कोच्ची> अद्वैतवेदान्त-प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मना विश्वविख्याते कालटिग्रामे स्वकुलदेवतास्थाने श्रीकृष्णमन्दिरे मेय् ७ आरभ्य ११ पर्यन्तं कनकधारायज्ञः प्रचलति।
 बाल्यकाले भिक्षार्थं किञ्चित् निष्किञ्नगृहं प्राप्ताय शङ्कराय गृहिण्याः शुष्कामलकमेवालभत। गृहस्य दौर्भिक्षं प्रत्यभिज्ञातः शङ्करः तत्रैव स्थित्वा ऐश्वर्यदेवतां महालक्ष्मीं संस्तुत्य कनकधारास्तवं विरच्य प्रार्थयामास। स्तवेन प्रसीदा देवी सुवर्णामलकानि वर्षयित्वा तत्कुटुम्बम् अनुगृह्णाति स्म  इत्यैतिह्यः।
  तदनुस्मारयन् आयोजिते कनकधारायज्ञे लक्ष्मीदेव्याः प्राणप्रतिष्ठां कृतानि स्फटिकयुक्तानि सुवर्ण-रजतामलकानि १००८ वारं कनकधारास्तोत्रजपैः पवित्रीकृत्य भक्तजनेभ्यः अक्षयतृतीयादिने  प्रदास्यन्ते।    MORE

स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का

  कोल्लम् > पेरुम्बावूरे संवृत्ते नियम-विद्यार्थिन्याः जिषायाः दारुणवध सम्बन्धे विषये अन्वेषणाय केन्द्रान्वेषणसंघः सज्जः इति केन्द्राभ्यन्तरमन्त्रिणा राजनाथ सिंहेन अभिप्रेतम्‌। केरलसर्वकार पक्षतः अभ्यर्थना लब्धा चेत् अन्वेषणदायित्‍वं निर्वोढुं सि बि ऐ सज्जः इति कोल्लम् मण्डले संवृत्‍ते भा जा पा दलस्य निर्वाचनयोगे मन्त्रिणा उक्तम्। केरलेषु स्त्रीजनानां सुरक्षाविषये केन्द्रसर्वकारस्य आशङ्का वर्तते इत्यपि तेन सूचितम्।

 भूमानचित्रस्य वक्रता - दण्डः कठिनः। 
   नवदहली> भारतस्य भूमानचित्रस्य रेखीकरणे वक्रता कापि अस्ति चेत् इतः परं दण्डनव्यवस्था कठिना भवेदिति सर्वकारः। सामूहिकमाध्यमेषु अपि बहुत्र मानचित्रेषु जम्मू काश्मीरस्य स्थानं पाकिस्थाने तथा अरुणाचलप्रदेशस्य स्थानं चैनायां च रेखीकृतं दृश्यते। अतः वक्रतया चित्रीकरणं सप्तवर्षाणां कारागारवासः १०० कोटि रूप्यकाणाम् धनरूप दण्डश्च बाधकमिति सर्वकारेण सूचितम्। अपि च भूमानचित्राणां क्रयविक्रयणाय सर्वकारस्य अनुमतिरपि आवश्यकी। इतःपरं सामूहिकमाध्यमेषु मानचित्राणां प्रसारणे सर्वैरपि श्रद्धा देया एव।

समुद्रजलात् शुद्धजलम् - शास्त्रम् नत्वा राष्ट्रम्।

       
   मुंबई> जलदौर्लभ्यम् अनुभवतां जनानां समाश्वासाय शास्त्रलोकस्य नूतनं योगदानम्। समुद्रजलात् पानयोग्यं शुद्धजलं निर्मितवतां 'बाबा अट्टोमिक् रिसर्च् सेन्टर्'स्थानां शास्त्रज्ञानां योगदानं राष्ट्रे जलदौर्लभ्यम् अनुभवतां प्रदेशानां कृते आश्वासयुक्तं जातम्। प्रतिदिनं ६०,००००० लिटर् जलं शुद्धीकृत्य जलदौर्लभ्यम् अनुभूयमानेषु राज्येषु वितरणाय सज्जं भवति इति तेषाम् अभिप्रायः। तमिल्नाट् राज्ये कल्पाक्कं देशे स्थापिते यन्त्रागारे जलशुद्धीकरणं क्रियमाणं वर्तते। कूटंकुलम् आणवनिलये एवं शुद्धीकृतं जलमेव उपयुज्यते। एवं शुद्धीकृते जले लवणांशः नास्ति एव इति जनाः अभिप्रेतवन्तः च।


 बङ्गाल् राज्ये सि पि एम् + काण्‌ग्रेस् दलम्   
नवदहली >बङ्गाल् राज्ये निर्वाचनप्रक्रियायां सि पि एम् -काण्‌ग्रेस् दलेन अधिकारः प्राप्यते इति निरीक्षणम्। बङ्गाले निर्वाचन प्रक्रियायाः समापनात्परं कृते निरीक्षणे एव अयमभिप्रायः आगतः। इस्लां प्रसिद्धीकरणेन 'मिल्ली गसटट्' दलेन कृतेऽस्मिन् निरीक्षणे सि पि एम् -काण्‌ग्रेस् दलेन १६४ मण्डलेषु विजयः प्राप्यते इति उक्तम्‌। तृणमूलदलस्य १२६ मण्डलेषु जयः भविष्यति इति निरीक्षणं सूचयति।

उत्तराखण्डे भूरिमति नर्णयार्थं सर्वोच्चन्यायालयः।
नवदिल्ली> उत्तराखण्डविधानसभायां मेय् १० दिनाङ्के भूरिमतनिर्णयं कारयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। बहिष्कृतः कोण्ग्रस् दलीयमुख्यमन्त्री हरीष् रावत् तद्दिने विधानसभायां विश्वासमतदानं मार्गयितुमर्हति। अयोग्यानां विमतसामाजिकानां मतदानं उच्च न्यायालयस्य विधिमपेक्षते इति न्यायाधिपयोः दीपक् मिश्रः शिवकीर्तिः इत्यनयोः नीतिपीठेन स्पष्टीकृतम्। विमतसामाजिकानां याचिकां न्यायालयेन अद्य परिगण्यते।