OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 30, 2016

काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम् -सप्तसैनिकानां वीरमृत्युः।
 श्रीनगरम् > जम्मुकाश्मीरस्य नग्रोड प्रविश्यायां भारतसैन्यस्य षोडशतमं मुख्यास्थानं प्रति मङ्गलवासरे प्रत्युषसि संवृत्ते भीकराक्रमणे सप्त भारतीयसैनिकाः वीरमृत्युम् उपगताः। आरक्षकवेषं धृत्वा आगताः भीकराः सैनिकालयस्य महानससमीपं भवनं प्रविश्य भुषुण्डिप्रयोगं कृतवन्तः। सैन्यस्य प्रत्याक्रमणे त्रयः भीकराः यमपुरीं प्राप्ताः। समीपकाले प्रवृत्तयोः उरि, पठान्कोट्ट् आक्रमणयोः अनन्तरं संपन्नेन अनेन आक्रमणेन जनाः सम्भीताः आशङ्काकुलाश्च संवृत्ताः।

वाहनचालकस्य धनजनयोजना लेखायां ९८०६ कोटिरूप्यकाणि।
चण्डीघर् > स: एक: वाहनचालक:। तस्य नाम बलवीर् सिंह:। पञ्जाब् प्रान्ते निवसति। एस्.बी.ऐ. धन जन योजनायां तस्य एका लेखा अस्ति। अस्मिन् मासे चतुर्थदिनाङ्के तस्य  लेखायां ९८०६ कोटि रूप्यकाणि नेक्षिप्त: अभवत्। एतद्धनं दृष्ट्वा स: आश्चर्यचकित: अभवत् । चलवाणी संदेशं दृष्ट्वा आनन्दितवान् । परन्तु दिनद्वयानन्तरं तद्धनं सर्वं तस्य लेखाया: बहिर्गतम्। स: तु तस्य लेखायां ३,००० रूप्यकाणि एव सन्ति। ९८०६ कोटि रूप्यकाणि कुत: आगतानि स: न जानाति इति अवदत् । स: वित्तकोशं गत्वा वित्तकोशस्य अधिकारीं पृष्टवान् कोsपि उत्तरं न दत्तवन्त: इति स: अवदत्। स: एतत् सर्वं आयकर शाखाधिकारीं प्रति अवदत्। वित्तकोश प्रबन्धक: सन्दीप: तस्य विवरणं दत्तवान्। तस्य लेखायां २००रूप्यकाणि निक्षेपणसमये वित्तकोश धनाधिकारी सङ्ख्या दोषेण कृतवान् अत: तस्य लेखायां ९८०६ कोटिरूप्यकणि आगतानीति वित्तकोश प्रबन्धक: अवदत् । अनन्तर दिवसे तच्छुद्धं च कृतमिति अवदत्।

विपक्षिदलानां सहायनिराकरणोद्यमस्य समाप्ति:
जनानां धनपत्राणां कष्टान् केन्द्रं प्रति नीत्वा समस्याया: परिहाराय विपक्षिदल-नेतार: तेलंगाना, आन्ध्र प्रान्तयो: पिधानाय वै.एस्.आर्.सीपी प्रयत्न: कृत:। परन्तु कुत्रापि तस्य प्रभाव: न अभवत् । बस् यानानि पिधानार्थं विपक्षिदल-नेतार: आन्दोलनं कृतवन्त: । आन्दोलनकारान् रक्षकभटा: कारागृहं नीतवन्त:। भारतकान्ग्रेस् तु  भारतपिधानं नास्ति केवलं आक्रोशदिवस: एव इति प्रकटित:। हैदराबाद् नगरे पिधानस्य प्रभाव: कुत्रापि न दृष्ट:। एम्.जी.बी.एस् बस् यान स्थानत: बस् यानानि यदेच्छेन चलितानि।

 उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकम्
प्रपञ्चे अन्तर्जाल शोधनं उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकमस्तीति एका सर्वेक्षण संस्था उद्घोषिता। अभिज्ञचलवाणी (Smart Mobile) आगमनान्तरं चलवाण्यामेव अन्तर्जालान्वेषणम् कर्तुं जना: रता: भवन्ति। अत: सर्वे वाणिज्य संस्था: अन्येतर संस्था: च जालदेशापेक्षया चलवाणी जालदेशस्य अधिकं प्राधान्यं यच्छेदिति निपुणा: वदन्ति। भारते ७०% जना: चलवाण्यामेव अन्तर्जालमेव उपयोगं कुर्वन्तीति निपुणा: वदन्ति।