OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 8, 2024

हिमाचल-प्रदेशस्य धरा हिन्डोलिता, (5.3) दशमलवोत्तर त्र्यधिक-पञ्च-मिताद् तीव्रतायुताद् भू हिन्डोलनाद् भीता: पर्वता:, परं साम्प्रतं न जाता काचिद् जनधनक्षति:।

  हिमाचल-प्रदेशस्य चम्बां, हमीरपुरं, कुल्लूं च समेतेषु समीपवर्तिषु अपि क्षेत्रेषु वारद्व्यं भूकम्पस्य प्रचण्ड: हिन्डोल: अनुभूत:। परं सौभागधेयेन कासांचित् जनधनक्षतीनां सूचना नास्ति। नुकसा नेशनल् सेंटर् फॉर् सीस्मोलॉजी इत्यनेन भूकम्प-विज्ञान-विभागेन एतद्विषये पुष्टि: प्रदत्ता अस्ति। वस्तुतः भागेन प्रतिपाद्यते यत्  भूकम्पमापिन्याम् अस्य भूकम्पस्य तीव्रता 5.3 मिता वेगयुता अवर्तत। अनेन कारणेन तत्रत्याः जनाः भयभीता: जाता: वर्तन्ते। जनानाम् अनुसारेण एष: भूकम्प-हिन्डोल: रात्रौप्राय: सार्ध नववादने (9:33 ततश्च 9:36 वदने अपि अनुभूत:। चण्डीगढ़मध्ये अपि सामान्य: अल्पप्रभावी भूकम्प: अनुभूत:। सूचनाया: अनुसारेण, हिमाचलप्रदेशस्य कांगड़ाजनपदे अद्यत: 120 वर्षाणि पूर्वं 1905 तमे वर्षे अस्मिन्नेव दिने अप्रैल चतुर्थ्यां एक: विनाशकर: भूकम्प: आगत: आसीत्। तस्मिन् अवसरे कांगड़ा ध्वस्तीभूत: आसीत्। चम्बा प्रशासनेन प्रतिपादितं यत् रात्रौ 9.34 वादने भूकम्प-कारणेन जनपदस्य भूरि क्षेत्रेषु जनैः भूकम्प-हिन्डोला: अनुभूता:। अस्य भूकम्पस्य केन्द्रम् पांगी इत्याख्ये क्षेत्रे आसीत्। भूकम्पस्य कारणेन जातस्य जनधनहाने: विषये संज्ञानम् अभिस्वीकर्तुं प्रकाशयितुं च स्‍थानीया: अधिकारिण: विनिर्दिष्टा: सन्ति।