OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 18, 2024

 'नेस्ले' संस्थया भारते विक्रयमाणेषु शिशुभोज्येषु प्रचुरप्रमाणं शर्करा इति प्रवादः। 


नवदिल्ली> प्रमुखया  शिशुभोज्यनिर्मात्रा नेस्ले' नामिका संस्थया आभारतं विक्रयमाणेषु 'सेर्लाक्' अभिव्याप्य शिशुभोज्येषु अधिकपरिमाणं शर्करा विद्यते इति पब्लिक् ऐ नामिकया संस्थया कृते अन्वेषणात्मकानुशीलने विज्ञाप्यते। किन्तु अमेरिका यू के जर्मनी इत्यादिषु राष्ट्रेषु शर्करायाः अधिकसान्निध्यं न दृश्यते इति तेषां प्रवादे प्रस्तूयते। 

  भारतमभिव्याप्य नीच-मध्यस्तरीयराष्ट्रेषु एव ईदृशं विपणनं क्रियते। शिशिभ्यः सज्जीक्रियमाणेषु दुग्ध-धान्यसहितेषु  भोज्यवस्तुषु सिता मध्वादिमधुरवस्तूनाम् उपयोगः  तेषु अतिस्थूलतादीनां रोगाणां कारणाय भविष्यतीति अभिज्ञमतम्। एतत् अन्ताराष्ट्रियमार्गनिर्देशानां लङ्घनमिति अनुशीलने परामर्शमस्ति। 

  भारतं विना दक्षिणाफ्रिका फिलिपीन्स् इन्डोनेष्या इत्यादिषु राष्ट्रेषु नेस्ले संस्थया अधिकपरिमाणयुक्तानि शिशिभोज्यानि विक्रीयन्ते।