OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 3, 2024

 ताइवानदेशे प्रचण्ड: भूकम्प:

-युवराजभट्टराई -

 ताइवान् देशे समागते प्रचण्डे भूकम्पे न्यूनान्न्यूना:  नवजना: मृता:, सप्तशताधिका: जनाश्च व्रणिताः इति सूच्यन्ते। भूकम्पमापनयन्त्रेण 7.4 वेगमित: तीव्रतायुत:  भूकम्प: अद्य  ताइवानदेशस्य पूर्वीये तटे समागत:,  येन तस्मिन् क्षेत्रे सुनामीति सामुद्रिक-झञ्झावातस्य जाग्रत् सूचना प्रख्यापिता वर्तते। यूनाइटेड स्टेट्स जियोलॉजिकल् सर्वे (USGS)  इति  संस्थया प्रोदितं यत् भूकम्पस्य तीव्रता 7.4 वेगयुत: अवर्तत यस्य केन्द्रं ताइवान-देशस्य हुआलिएन-नगरात्  अष्टादश-किलोमीटर-मिते दक्षिणे 34.8 दशमलवोत्तराष्टाधिकचतुस्त्रिंशत् किलोमीटर्  मितायां  गहनतायाम् आसीत्। ताइपे-नगर्या: भूकम्प-विज्ञान-केन्द्रस्य निदेशकेन "वू चिएन फू"  इत्यमुना प्रतिपादितं यत्, भूकम्प: समस्ते ताइवान-देशे, समीप-द्वीपेषु च जनैः भृशं समनुभूत:।  एष: भूकम्प: 


विगते पञ्चविंशति वर्षाभ्यन्तरे जायमानेभ्यः भूचलनेभ्यः अधिकतरः प्रचण्ड: भूकम्प:  वर्तते। प्रारम्भिक-सूचना-विवरणस्य आधारत्वेन हुआलिएन क्षेत्रे भूरि भवनानि  आंशिकरूपेण भग्नीभूतानि  सन्ति। कतिपय-भवनानि तु भयङ्कर-कोणेषु अवनतानि  दरीदृश्यन्ते। अधिकारिभि: प्रोक्तं यत्, नैके जना: भवनेषु एव निरुद्धा: सन्ति।  भूकम्पस्य कारणेन  दक्षिणजयप्राणे (जापान)  अपि  सुनामीति सामुद्रिक-झञ्झावातस्य सञ्चेतनापि प्रख्यापिता वर्तते।   स्रोतसाम् अनुसारेण, अद्य प्रात:  प्राय: सपाद-नववादने (9:18)   योनागुनीत्याख्ये  द्वीपे  30 सेंटीमीटरमित: सुनामीति सामुद्रिक-झञ्झावातस्य अनुभव: कृत: (जापान) जयप्राणदेशस्य समयस्य अनुसारेण। फिलीपींस-देशस्य भूकम्प-विज्ञानाभिकरणेन अपि सुनामीति सामुद्रिक-झञ्झावातस्य सञ्चेतना प्रख्यापितास्ति। चीनदेशीयेन प्राशासनिक-सञ्चार-माध्यमेन प्रोदितं यत् चीनस्य दक्षिण-पूर्वीये फ़ुज़ियान प्रान्ते कतिपयेषु  भू भागेषु भूकम्पस्य अनुभव:  जात: इति।

मुख्यबिन्दव:

ताइवान  देशे आगतेन भीषण-भूकम्पेन अधुना यावत्  नवजना: पञ्चत्वं प्राप्ता: इति सूच्यन्ते।

7.4 तीव्रतान्वित: एष: भूकम्प: विगतेषु 25 वर्षेषु सर्वाधिक: प्रचण्ड: भीषणतमश्च भूकम्प: प्रतिपाद्यते। सुरक्षाधिकारिभि: सूच्यते यत् भूकम्प-कारणेन 800  मिता: जना: व्रणिताः सन्ति। 

आपदुद्धारकर्मिण: ध्वंसावशेषेषु निरुद्धजनानाम् अन्वेषणपूर्वकम् उद्धारं कुर्वन्त: सन्ति। एतादृशानां अवरुद्धानां  संख्या 100  प्राया भवितुं शक्नोति।