OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 17, 2024

 दुबई मध्ये तीव्रवृष्टिकारणेन जलोपप्लवः

मेट्रोस्थानानि विमाननिलयाः बृहदापणानि च जलेन प्लावितानि, सुरक्षादृशा नैकेषां विमानयानानाम् उड्डयनम् कृतम्।

  संयुक्तारब् एमीरातस्य अबू धाब्यां, दुबय्याम्,  अल् ऐन् नगरे च सञ्जातया महत्या वृष्ट्या जलौघस्य दु:स्थिति: समुत्पन्ना वर्तते। येन तत्रत्यस्य वीथीगमनस्य रेल्पट्टिकामार्गस्य; उड्डयनमार्गस्य च यातायातेषु गमनागमनस्य च भृशं दुष्प्रभाव: जायते।  अतिवृष्ट्या-दुष्प्रभावितेषु नगरेषु कार्यालया:, विद्यालयाः, अन्यकार्यसंस्थाश्च पिहिता: सन्ति। विदाङ्कुर्वन्तु यत् खातिदेशस्य संयुक्त अरब् अमीरातस्य कतिपय-भूभागेषु मंगलवासरस्य प्रात: कालात् प्रभृति: दुरापन्नाया: अतिवृष्ट्या: झञ्झावातस्य च  अनन्तरं तत्रत्यानां सर्वसाधारणानां जनजीवनम् अस्तं व्यस्तं  सङ्कटाकुलं च जातम् अस्ति। विशेषत: दुबय्या: मार्गेषु जलभरणस्य समस्‍या  समुत्पन्ना  अस्ति। मार्गेषु भरितेन एकत्रितेन च जलेन  गमनागमनार्थं यातायातमपि  अतिशयेन  दुष्प्रभावितम् अस्ति।