कोच्ची- वातावरणव्यत्ययस्य प्रत्याघातान् प्रतिरोद्धुं वनानि संरक्षणीयानि इति सन्देशं उद्घोषयन् 'पीप्पिल्स् क्लैमत्स् 'नाम दलः पथसञ्चलनमकरोत् केरलेषु अतिरप्पिल्ली वनमण्डलेषु आयोजिते पथसञ्चलने 1500 संख्यकाः परिस्थितिप्रवर्तकाः आगताः प्रमुखः परिस्थितिप्रवर्तकः शङ्कर शर्म, डो. वि.एस्.विजयः सि .आर.नीलकण्ठ:  प्रोफ़.सीताराम: आदय: 70 संख्यकाः विविधपरिस्थितिदलानां नेतारः अत्र मिलिताः। वनानि परिस्थितिं च नाशयन्तीं योजनां कर्तुं न शक्यते सर्वकारेण । वयं तत् रोध्तुं सन्नद्धाः इति सि .आर.नीलकण्ठ: अवदत्। शिला खननाय सर्वकारेण अनुज्ञा दीयते चेत् तां प्रतिरोद्धुं शक्ताः वयम् इति च सः अवदत्