OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 22, 2015

 केरले जतुकृषकाः महत्सङ्कटे। 

कोट्टयम् - केरलराज्ये जतुकृषिः महान्तं प्रतिकूलसन्धिम् उपगच्छति। संवत्सरेभ्यः अनुवर्तमानं मूल्यशोषणमेव कारणम्। दिनंप्रति जतुमूल्यस्य अधःपतनम् अनुवर्तते। अतः ह्रस्वक्षेत्रस्वामिनः कृषकाः च्यावनात् प्रतिनिवृत्ताः। वर्षत्रयात्पूर्वं एककिलोपरिमितस्य जतोः मूल्यं २०० रूप्यकाण्यासन्। किन्तु इदानीं ९०- ९२ रूप्यकाणि कृषकः लभन्ते। जतुविपण्याः मान्द्यम् इतरविपणिमण्डलानि अपि प्रतिकूलेन बाधते।