केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता।
नवदिल्ली - धनमन्त्रिणं अरुण् जैतट्लीं विरुद्ध्य व्याज अलीक आरोपणे दिल्ल्याः मुख्यमन्त्रिणे केजरिवालाय उच्च न्यायालयेन सुचना प्रेषिता। केजरिवालं विहाय पञ्च आम आदमी नेतृभ्यः सुचना प्रेषिता। वारत्रयाभ्यन्तरेण प्रत्युत्तरं दादव्यमस्ति। दिल्ली क्रिक्कट् संस्थादलान् सम्बन्ध्य व्याज अलीकारोपणे 10 कोटि रुप्यकाणां अभिमाननष्टस्य मूल्यमिति: जैट्लिना पञ्चीकृतः ।
बस् यानं विमाने घट्टितम्
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiVBY-30Wbnes4zlBf2vUr_3JzJ7APrW4tu7IGpicRtX0cnQXN5W5osd7ZiQGhD6wuuAZVWUm8WyrOmu1J_HOHhVFHDONjHd6tn5fK2ulZOSv41IsfJYZao6qH7MkLbArkyhNkz81ymuv35/s200/accident.jpg)
समूह योग विदेशेऽपि
दुबाय् - अबुदाबी नगरे योगत्तोण् इति नाम्नि समूह योगप्रदर्शनम् आयोजितम्। अबुदाबी मुशिरिश् पार्क्क् मध्ये 25राष्ट्रेभ्यः षट्शताधिका: जनाः योगाचरणाय मिलिताः। आर्ट ओफ़् लिविङ्ग् अबुदाबी केन्द्रेण आयोजितः इदं मेलनम् । राष्ट्रान्तर - परिशीलक: हसन् टफ़्ति: परिशीलनस्य नेतृस्थाने आसीत् । विद्यालयछात्राः अपि भागभाजः आसन् ।
शबरिगिरौ महान् भक्तजनसम्मर्दः -३२ आहताः।
शबरिगरिः - दक्षिणभारतस्य महातीर्थाटनकेन्द्रे शबरिगिरौ भक्तजनप्रवाहः वर्धते।गतदिने सन्निधाने सञ्जाते भक्तजनसम्मर्दे ३२ अय्यप्पाः आहताः। क्रिस्मस् कालीनविरामदिनानि , वातावरणानुकूलतया तमिळनाट् राज्यात् समागतभक्तजनबाहुल्यं च सम्मर्दकारणानि जातानि। अन्यथा शबरिगिरौ च वातावतरणं भक्तानुकूलं एव वर्तते।
शर्माजी पुरस्कारः श्री टी के सन्तोष् कुमाराय
तोटुपुषा - संस्कृतभाषा प्रचरणमण्डले नूतनाविष्कारैः प्रवर्तमानायाः संस्कृतभारत्याः केरल घटकेन विश्वसंस्कृतप्रतिष्ठानेन संस्कृताध्यापकानां कृते प्रतिवर्षम् शर्माजी पुरस्कारः दीयते । विद्यालयाध्यापनेन साकं सामाजिकप्ररिवर्तनाय अपि कार्यं कुर्वतां संस्कृताध्यापकानां कृते एव अयं पुरस्कारः दीयते । केरले संस्कृतप्रतिष्ठानस्य आरम्भकालकार्यकर्ता संस्कृतप्रचारकः कविः पण्डितः इत्यादि रूपेण विख्यातस्य कृष्णशर्मणः स्मरणार्थमेव अयं पुरस्कारः दीयते ।
अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् ।
अस्य वर्षस्य शर्माजी पुरस्काराय टी. के सन्तोष्कुमार: चितः इति पुरस्कारनिर्णयसमित्या सूचितम् ।
केरल संस्कृताध्यापक फेडरेषन् कार्यदर्शी कोषिक्कोड् नन्मण्डा करुणारां यु पि विद्यालये संस्कृताध्यापकश्च भवति सन्तोष्कुमारः। १०००१ रूप्यकाणि प्रशस्तिफलकम् च अस्मिन् पुरस्कारे अन्तर्भवति । २६ दिनाङ्के तोडुपुषायां प्रचलतः राज्यशिक्षकप्रशिक्षणशिबिरस्य समापनसम्मेलने विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा अन्तर्देशीय संस्कृत कण्सल्टन् पण्डितरत्नं डो.जी. गङ्गाधरन् नायर् पुरस्कारं दास्यति । डा . एम्. पि उण्णिकृष्णन् , डा.पि.के.शङ्करनारायणः , डा इ .एन् . ईश्वरः इत्येतेषां समितिरेव पुरस्काराय सन्तोष् कुमारं चितवती ।
अशोकन् पुरनाट्टुकरा , सुरेन्द्रन् कटक्कोट् , रामचन्द्रन् ए .के. , डा . कोरमङ्गलं कृष्णकुमारः , सि .एन् . सोया , पद्मनाभशर्मा इत्येते एव पूर्वम् शर्माजी पुरस्कारं प्राप्तवन्तः ।