OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 23, 2019

उत्तरभारते हिमपात: अतिरूक्षः
- पुरुषोत्तमशर्मा
    नवदेहली> जम्‍मू-कश्‍मीरे हिमाचलप्रदेशे उत्‍तराखण्डे च पुन: हिमपात:, येनोत्‍तरभारते शीतप्रकोप: समेधित:। ऋतुविज्ञानविभागेनोक्तं यत् तीव्रपश्चिमविक्षोभेन वायो: चक्रवातीयगतिकारणेन च पश्चिमहिमालयक्षेत्रं पश्चिमोत्‍तरभारतस्य समतलक्षेत्राणि च प्रभावितानि। हिमस्‍खलनेन जम्‍मूकश्‍मीरस्य राष्‍ट्रियराजमार्ग: विगतेह्नि अपि बाधित:। पर्यटकस्थलानि हिमाच्छादिनानि विद्यन्ते। ऋतुविज्ञानविभागेन हिमाचलप्रदेशे उत्तराखण्डे च इतोऽपि वृष्टे: हिमपातस्य च सञ्चेतना प्रसारितास्ति।उत्‍तराखण्डस्य कतिपयजनपदेषु विद्यालया: पिहितास्सन्ति।