OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 16, 2016

भीकराः भारतं प्रविष्टाः - जाग्रता निर्दिष्टा।

नवदिल्ली >६-१० संख्याकाः मुहम्मद जयषे भीकराः पाकिस्तानसीमामुल्लङ्घ्य गूढमार्गेण भारतं प्रविष्टा इति भारतजाग्रताविभागेन (इन्टलिजन्स् ब्यूरो) विज्ञापितम्। केन्द्र गृहमन्त्रिणा संचालिते उन्नततलसम्मेलने एव अयं विषयः विज्ञापितः। अतः राष्ट्रस्य प्रधानस्थानेषु स्थापनेषु च अतिसुरक्षां पालयितुम् आदिष्टम्।
यान दुर्घटना परिहाराय नूतना योजना ।

नवदेहली >  पञ्चवर्षाभ्यन्तरे मार्गापघातान् पञ्चाशत् प्रतिशतम् न्यूनीकर्तुम् पद्धत्या केन्द्रसर्वकारः। वर्षे सामान्यतया पञ्चलक्षम् वाहनापघाताः  राष्ट्रे जायन्ते। एषु सार्धैकलक्षम् अपघाताः व्रणाय जीवहानये च कारणीभवन्ति ।
केन्द्रगतागतमन्त्री नितिन् गडकरी वर्यः अवदत् ।
मार्गसुरक्षावाराघोषस्य अङ्गतया देहल्यां जातायां सङ्गोष्ठ्यां भाषमाणः आसीत् मन्त्री । अपघातान् न्यूनीकर्तुम् अधिकारिण: सेवासंस्थाः च सर्वकारेण सह मेलनीयम् इति तेन उक्तम् । तेषां संख्यान्यूनीकरणं कष्टसाध्यम् इत्यपि मन्त्रिणोक्तम् ।

उत्तर जाप्पान् राष्ट्रे भूकम्पः।

© earthquake.usgs.govटोक्यो > जाप्पानस्य उत्तरभागे होकैड नाम तीरदेशे आसीत् भूकम्पः।
गुरुवासरे १२.३० वादने जायमानस्य कम्पनस्य शाक्ति: ६.७ मितः। ४० निमेषः पर्यतं कम्पितः चेदपि अपायः नास्ति। अणुशक्तिनिलय : सुरक्षितः च।



सिक्किमः प्रथमजैवराष्ट्रं भविष्यति।

कोल्कोत्ता > भारतस्य प्रथमं सम्पूर्णं च जैवराज्यं भवितुं सिक्किमः सज्जते। ७५,००० हेक्टर् मितानि क्षेत्राणि सुस्थिरकार्षिकपद्धत्यनुयुज्यमानरीत्या परिष्कृत्य एव अयं विजयः प्राप्तः।गाङ्टोक् नगरे जन.१८ दिनाङ्के आयोज्यमाने कार्षिकसम्मेलने प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं लाभः विज्ञापयिष्यते।