भारतीय-संस्कृत-पत्रकारसङ्घस्य उपाध्यक्षाय पद्मश्री -
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEjH_vHYhUDALnUBoxlIIstZv46Asm_tufJbHhgm51ntcQcnG5P6Z3FfbK8JExu4Yzpo76xYh0zbMFyldl8SLIIx-RJNfbS-6pwrRPy5PF00n-RKkI327mQUIRMWkQsqiDKTcgflFm8fy3Ln/s1600/unnamed.png) |
डॉ.रवीन्द्र-नागर |
"हर्ष-प्रकर्षेण साम्प्रतमेतत् संसूच्यते यत् भारतीय-संस्कृत-पत्रकार-सङ्घस्य उपाध्यक्षाय सुख्याताय संस्कृत-विदुषे आचार्याय डॉ.रवीन्द्र-नागर-वर्याय ऐषमः पद्मश्री-अलङ्करण-प्रदानस्य समुद्घोषणा भारतीय-गणतन्त्रदिवसस्यस्य पूर्व-सन्ध्यावसरे भारत-प्रशासनस्य गृह-मन्त्रालयेन विहितास्ति | संस्कृत-वाङ्मयस्य भारतीय-संस्कृतेः संस्कृत-भाषायाश्च देशे विदेशेषु च सुबहु-प्रचारार्थं आचार्य-नागरः २०१२-तमे वर्षे राष्ट्रपति-सम्मान-पत्र-प्रदानेन सभाजितः आसीत् | आचार्य-नागरस्य अनामयत्वं दीर्घायुष्यत्वञ्च कामयमानः भा.सं.प.सङ्घः शुभावसरेsस्मिन् तं सर्वात्मना आशंसायते |" -बलदेवानन्द सागरः-