OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 21, 2016

दलितछात्रस्य आत्माहुतिः - केन्द्रमन्त्रिणः त्यागपत्राय सम्मर्दः शक्तः।

हैदराबाद> हैदराबाद् सर्वकलाशालायां दलितछात्रस्य रोहित् वेमुल नामकस्य आत्माहुतिविषये केन्द्रमन्त्रिणः बणटारु दत्तात्रेयस्य स्थानत्यागाय सम्मर्दः शक्तः अभवत्। तं विरुद्ध्य व्यवहारः कृतः इत्यतः केन्द्रमन्त्रिसभातः सः निष्कासितव्य इति कोण्ग्रस् दलेन संयुक्तान्दोलनसमित्या च निर्दिष्टम्।
ह्यः अपि कलालयपरिसरः संघर्षपूरितः आसीत्। तत्र निरोधनाज्ञा विज्ञापिता।

 तृशिवपेरूरे भूचलनम् ।

तृश्शूर्> केरले  तृश्शूर् नगरसमीपे तलोर् प्रदेशे लघुभूकम्पः । मापिन्यां ३.४ अङ्कितः भूकम्पः मङ्गलवासरे अतिप्रभाते जातः।जनापायः न ज्ञापितः।
 
मार्च्मासादारभ्य परिष्कृतं वेतनम्।

अनन्तपुरी> केरलेषु सर्वकारसेवकेभ्यः अध्यापकेभ्यश्च समित्या निर्दिष्टं परिष्कृतं वेतनं मार्च् मासादारभ्य दातुं निर्णीतम्।२०१४ जूलायीतः आरभ्य भूतकालप्राबल्यमस्ति। परिष्करणमनुसृत्य वेतने २००० - १२००० रूप्यकाणां वृद्धिःभविष्यति।
 
ओडीषायां १५० सागरकूर्माः हताः।

भुवनेश्वर् > ओडीषाराज्यस्य पुरीसमुद्रतीरे कुलविनाशभीषणिम् अभिमुखीकुर्वन्तः ओलिव् रिड्लि वंशीयाः १५० समुद्रकूर्माः संघीभूय मरणं प्राप्ताः। कारणमव्यक्तं वर्तते। अनधिकृतैः धीवरैः हताः इति सन्देहः अस्ति।