OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 2, 2017

 कोयम्पत्तूरु - पोल्लाच्ची मार्गे बस् यानानां धावनस्पर्धा ; चालकानाम् उद्योग: नष्ट: ।।
              कोयम्पत्तूरु >कोयम्पत्तूरु - पोल्लाच्ची राजमार्गेण धावनस्पर्धीं क्रियमाणयो: बस् यानयो:  चलनचित्रदृश्यम् सामाजिकमाध्यमेषु  स्फुलिङ्गम्  अभवत् । यानचालनस्य आधारतत्वानि अपि  बोधपूर्वं विस्मृत्य धावनस्पर्धां कुर्वतो: बस्  यानयो: दृश्यं कश्चन द्विचक्रिकाकार: स्वीकृतवान्। तत: दृश्यचित्रमेतत्  समाजनाध्यमेषु आगतेषु द्वयो: बस् चालकयो: सकाशं तीव्रविमर्शनानि एव आगच्छन्ति। घटना विवादपूर्णा जाता इत्यत: द्वयो: चालकयो: चालनसामर्थ्यपत्रं निश्चलीकृतम्। अपघातपरं चालनं केन्द्रीकृत्य द्वौ आरक्षकै:  न्यायालयव्यवहाराय पञ्चीकृतौ। पुनर्निर्माणप्रवृत्तिसूचकेन मार्गेण अतिसाहसिकतया  धावनस्पर्धां कृता यानचालकै: इति दृश्येभ्य: स्पष्टम्। पुरोवर्तिनं यानमुल्लङ्घितुं गतागतनियमान् सर्वानपि लङ्घयन्ति चालका: , परं यात्रिकाणां प्राणापायविषये ते लेशमात्रोपि न बोधवन्त: इत्यपि दृश्यानि स्पष्टीकुर्वन्ति । बस् यानानां  धावनस्पर्धां  दृष्ट्वा  प्रतिदिशि आगच्छन्ति वाहनानि अतिश्रमकरं चालनं कृत्वैव अपघातात् रक्षां प्राप्नुवन्ति। उभयदिशि यानेषु अतिवेगं गच्छत्सु  तन्मध्ये प्राणं गृहीत्वा एव अन्ये चालका: यानानि चालितवन्त: इत्यपि व्यक्तमेव । यानयात्रिकाणां कार्यमपि व्यत्यस्तं नास्ति ।