OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 21, 2017

 वातावरणे व्यत्‍ययः ; भूतलं गलिष्यति वा समुद्र:?
                     वातावरणे आगच्छत् लघु परिवर्तनमपि  प्रकृत्याम्  बृहत् प्रतिफलनानि  कुर्यात् । वातावरणव्यतियानम्  अधिकाधिकं रूक्षतरं दृश्यमानसाहचर्येस्मिन् प्रकृत्यामपि एतस्य अनुरणनम् दृष्टिसाध्यमेव । समुद्रजलोपरितलमानके लघु वर्धनमपि  लोके सर्वत्र समुद्रजलस्य तीरदेशागिलनस्य  तथा समुद्राक्रमणस्य च तीव्रतां द्विगुणितं वर्धयेदिति नूतनपठनानि ।  वातावरणव्यतियानस्य भागतया  समुद्रतलोत्प्लव: ,  तेन च  रूक्षवीच्य: तथा समुद्रक्षोभा: च सम्भवन्तीति गवेषका: सूचयन्ति ।  आगोलतापनात् हिमफलकानि  द्रवीकृतानि , समुद्रजलस्य  उष्णता वर्धते  परं समुद्रजलोपरितलम् प्रतिवर्षं  चत्वारि मिल्लीमीटर् मितमुन्नतं च समपद्यते । वर्तमानसाहचर्यानुसारं वर्षाणि यावत् प्रतिभासोयम् अनुवर्तते।  प्रथमदृष्ट्या  लघुमानेन समुद्रजलवर्धनम्  इति भासते तथापि प्रत्याघात: महान् भविष्यति इति गवेषका: पूर्वसूचनां यच्छन्ति । समुद्रजलोपरितलव्यतियानं महावातानाम् उन्नतावृत्तियुक्तवीचीनां च कारणं स्यात् । समुद्राक्रमणं प्रतिरोद्धुं  सामान्यप्रतिरोधमार्गा:  अपर्याप्ता: भवेयु: । भूमध्यरेखासमीपप्रदेशेषु  समुद्राक्रमणरूक्षता  अधिका अनुभूता भवेत् । आफ्रिक्का , अमरीकाभूखण्डस्य दाक्षिणात्या: प्रदेशा: , दक्षिणपूर्वेष्या , यूरोपस्य अटलान्डिकतीरम् , अमरीकाया: पूर्वतीरम्  एतेषु स्थानेषु शक्तानि प्रतिफलनानि भवेयु: - गवेषका:  अभिप्रयन्ति । शास्त्रावेदनजेर्णल्  ( सयन्टिफिक् रिपोर्ट्स् जेर्णल् ) मध्ये  एतत्सम्बद्धपठनरेखा: प्रसिद्धीकृता: ।