OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 13, 2017

कृत्रिमद्वीपेषु  चैनाया: रहस्ययुद्धसन्नाहः;  अण्वस्त्रसंविधानानि  विन्यस्तानि I
               दक्षिणचैनासमुद्रस्य कृत्रिमद्वीपेषु रहस्यसैनिकसन्नाह:  प्रचलतीत्यस्य दृष्टान्तै: सह  उपग्रहचित्राणि बहिरागतानि । प्रतिरोधवार्ताजालसङ्केतेन ( डिफन्स् न्यूस् वेब्सैट् ) एव  नूतनोपग्रहचित्राणि  एतानि बहिरानीतानि । इमेज्साट्  इन्टर्नाषणल् एरोस् बी साटलैट् द्वारा स्वीकृतं नूतनचित्रं गत सोमवारे  बहिरागतम्। कृत्रिमद्वीपेषु व्यापकतया  सैनिकसन्नाहा: प्रचलन्ति इति चित्रेभ्य: स्पष्टं प्रतीयते  । भूपक्षत: विक्षेप्तुमर्हा:  अण्वस्त्रविक्षेपण्य:  अपि विन्यस्ता: भवन्ति  इत्यपि  आवेदने कथयति । तानि च अतिनूतनानि अण्वस्त्रसंविधानानि भवेयु: इत्यपि प्रतिरोधवार्तया आवेदितं वर्तते । मार्च् पञ्चदश ( १५ ) , मई  अष्ट ( ८ )  दिनाङ्कयो: प्राप्तेषु उपग्रहचित्रेषु  विद्यमानभेदा:  एव  चर्चिता: । एच् डी  निपुणानि  चित्राणि एव प्राप्तानि । अस्याम् मेखलायां चैनया बहुविधानि आयुधसंविधानानि सज्जीकृतानि इति पूर्वमेव  अमरीकया आरोपितं वर्तते ।  प्रतिसज्जानि वायुसेनायानानि  ( एयर् क्राफ्ट् ) , प्रतिसज्जानि अण्वस्त्रायुधानि च  अत्र विन्यस्तानि इत्येव अमरीकाया: वाद: ।।