OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 2, 2023

 प्रकृतिरक्षणेनैव पर्यावरणं सुरक्षितं भविष्यति – डा.छबिलालन्यौपानेः 

बाह्यपर्यावरणमिव मनःपर्यावरणमपि स्वच्छं कर्तव्यम् - श्रीवीरसनातनपूर्णेन्दुरायः 

स्वच्छतैव सेवा भवति – डा० रामसंयोगरायः

       भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं श्रीवीरसनातनपूर्णेन्दुरायस्य संयोजकत्वे, प्रभारीप्रधानाचार्यस्य डा.रामसंयोगरायमहोदयस्य च आध्यक्षे विहितम्। 

      डा.छबिलालन्यौपानेमहोदयैः स्वीयव्याख्यानक्रमे उक्तं यत् प्रकृतिः सर्वेषां प्राणिनां संरक्षणाय प्रयासं करोति। इयं सर्वान् विविधैः प्रकारैः पुष्णाति, सुखसाधनैः च तर्पयति।पृथिव्यप्तोजोव्यावाकाशानि पर्यावरणस्य प्रमुखानि तत्त्वानि मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकौपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्चसन्तप्तस्य मानवस्य क्व मङ्गलम् ? अतः एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। एतैः प्रकृतिम् ईश्वरस्य अभिव्यक्तिः, उपहाररूपं च प्रतिपादितम्। एतदप्युक्तं यत् गान्धिनः जीवनदर्शने पर्यावरणस्य संरक्षणस्य संवर्धनस्य च विचाराः अनुस्यूताः सन्ति। केन्द्रसर्वकारः, राज्यसर्वकाराश्च पर्यावरणस्य संरक्षणे संवर्धने च विविधाः योजनाः प्रचालयन्तः सन्ति। अवसरेऽस्मिन् महाविद्यालयीयैश्छात्रैश्छात्राभिश्च पर्यवरणसंरक्षणविषयोपरि स्व-स्वविचाराः उपस्थापिताः। 

      कार्यक्रमस्य साधुसञ्चालनं कुर्वता महाविद्यालयस्य साहित्यविषयकसहायकप्राध्यापकेन श्रीवीरसनातनपूर्णेन्दुरायमहोदयेन उक्तं यत् – यथा वाह्यपर्यावरणस्य स्वच्छता करणीया, तथैव आन्तरिकस्य मनोरूपपर्यावरणस्यापि स्वच्छता कर्तव्या। त्याग-परिश्रम-परोपकार-दया-करुणा-अहिंसा-सत्यादिभिः गुणैरलङ्कृतो जनः एव स्वात्मनि गान्धित्वं लभते इति। अवसरेऽस्मिन् महाविद्यालयस्य सहायकप्राचार्याः (डा.सरिताकुमारी,डा.रेणुझा,डा.सरस्वतीकुमारी,डा.रंजीतकुमारठाकुर,डा. नितेशकुमारमिश्रः, श्रीमती नियतिकुमारी) कार्यालयसहायकौ (श्रीमुकुन्दकुमारः, श्रीराजकुमारझा) च उपस्थिताः आसन्।