OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 3, 2023

 लङ्कादहनं ; भारतं पूर्वान्त्यचक्रे। 

मुम्बई>  विश्वचषक क्रिकट्क्रीडापरम्परायां भारतस्य अनुस्यूतः सप्तमविजयः। ह्यः मुम्बय्यां वांखडे क्रीडाङ्कणे सम्पन्ने भारत-श्रीलङ्काप्रतिद्वन्द्वे श्रीलङ्कां ३०२ धावनाङ्कैः पराजित्य भारतं परम्परायाः पूर्वान्त्यचक्रं प्राविशत्। परम्परायामस्यां भारतस्य अनुस्यूतः सप्तमः विजयः भवत्येषः। 

  क्रीडायाः प्रथमचरणे भारतेन ५० क्षेपणचक्रेभ्यः ८ क्रीडकानां विनष्टेन ३५७ धावनाङ्कानि प्राप्तानि। प्रत्युत्तरचरणे १९. ४ क्षेपणचक्रैः ५५ धावनाङ्कानि सम्पाद्य सर्वे श्रीलङ्कीयक्रीडकाः निष्कासिताः।