OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 6, 2023

 वीरविराटविजयः। 

विराट् कोहलेः ४९ तमं शतकं  जन्मदिनसम्मानम्। 

शतकप्राप्तौ कोहलेः आह्लादः। 

सच्चिनस्य अतुल्यप्राप्त्या समं कोहलेः शतकोपलब्धिः। 

कोल्कता> विश्वचषक क्रिकट् स्पर्धापरम्परायां भारतस्य अपराजितविजयमेधः। अष्टमप्रतिद्वन्द्वे अपि भारतस्य अनुस्यूतविजयः। ह्यः 'ईदन् गार्डन्' क्रीडाङ्कणे दक्षिणाफ्रिकां विरुद्ध्य  सम्पन्ने प्रतिद्वन्द्वे भारतं २४३ धावनाङ्कैः विजयं प्राप। क्रीडायाः प्रथमचरणे ५० क्षेपणचक्रेषु ५ ताडकैः ३२६ धावनाङ्कान् सम्प्राप्तवति भारते दक्षिणाफ्रिका २७. १ क्षेपणचक्रेषु ८३ धावनाङ्कान् सम्पाद्य सर्वे कन्दुकताडकाः निष्कासिताः। 

  भारतस्य भूतपूर्वनायकः विराट कोहलिः १०१ धावनाङ्कान् सम्पाद्य सचिन टेण्टुत्करस्य ४९  एकदिनशतकसम्प्राप्तिः इति विश्वोत्तमप्राप्त्या [Record] समं प्राप्तवान्। कोहलेः ३५ तमं जन्मदिनमासीत् ह्यः इति आराधकाणां कृते मधुरयुगलस्य अनुभवः प्रदत्तः।