OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 31, 2016

शनीश्वरमन्दिरे स्त्रीप्रवेशम् अनुमन्तव्यं - न्यायालयः।

मुम्बई > यत्र यत्र मन्दिरेषु पुरुषाणां प्रवेशनानुमतिः अस्ति तत्र तत्र महिलानां प्रवेशाय राज्ये कोsपि विरोधः न विद्यत इति महाराष्ट्रा उच्चन्यायालयेन निर्दिष्टम् ।
  अहम्मदनगरे शनि शिनांपूरमन्दिरे स्त्रीणां प्रवेशनिषेधं विरुद्ध्य नीलिमा वर्तक् नामिकया अभिभाषकया विद्या बाल् नामिकया समाजप्रवर्तकया च समर्पिते सार्वजनीनपरिदेवने एव न्यायालयस्य एतादृशं निरीक्षणम्।

मद्यपानस्य समापनं करिष्यामः सत्यापनं कृवा बीहार् राज्यस्य सामाजिकाः।

पट्ना > नियमसभायां सामाजिकानां सामाजिकत्वसत्यार्पणमेव सामान्येन प्रचलति। किन्तु बिहार् मियम सभायां बुधवासरे कृते सत्यप्रतिज्ञायां मद्यं त्यजामि इत्यासीत् सत्यार्पण-वाक्यम्। शासन-प्रतिपक्ष-भेदान्  विहाय  २४३ सामाजिकाः मिलित्वा एकमनसा प्रतिज्ञां कृतवन्तः। एप्रिल् मासात् आरभ्य राज्ये मद्य निरासः निश्चितः अस्ति।

केरले डिजिटल् साक्षरतायज्ञः प्रारब्धः।

तृश्शिवपेरूर्> राष्ट्रस्य प्रथमं सम्पूर्ण साक्षरताराज्यम् इति प्रथितं केरलम् ई- साक्षरतायामपि अनन्यादृशलाभाय प्रवर्तनम् आरब्धम् । राज्यं १००% साक्षरं कर्तुम् ऐटि मिषन् संस्थया पद्धतिः आरब्धा।
  राज्यस्य छात्रारक्षकसंधस्य (students police cadet) नेतृत्वे सर्वानपि जनान् डिजिटल् साक्षरान् कर्तुमेव लक्ष्यम् । प्रथमसोपानाय १७ कोटिरूप्यकाणाम् अनुमतिः लब्धा । प्रथमसोपानं सेप्तंबर् मासे पूर्तीकर्तुं निश्चितम्।

Wednesday, March 30, 2016

तेलुङ्कानायाः सामाजिकाः  प्रतिमासवेतने राष्ट्रपतेः उपरिI

हईद्राबाद् > स्वस्व वेतनं वर्धयितुं तेलुङ्कानायाः सामाजिकाः निश्चिताः शासनं ज्ञापितम् च। राष्ट्रपते: वतनात् द्वि गुणितं भवति तेषां वेतनं। ४१.६७ कोटि रुप्यकाणि एतस्य कृते अधिकतया आवश्यकानि। ९५०००तः २३०००० रुप्यकाणि भवति सामाजिकानां वेतनं चेत् भूतपूर्वानां ३०,००० रुप्यकाणि च। किन्तु भारतस्य राष्ट्रपतेः वेतनं १.५० लक्षं प्रधानमन्तिणः १.३५ लक्षं चI
द्वि-दिवसीयसंस्कृतशिक्षणवर्गः

पुदुच्चेरी> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I) 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे व्यवस्थापयिष्यते।

एतस्य शिक्षणवर्गस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः इत्यादि च वैज्ञानिकदृष्टिकोण-द्वारा भविष्यन्ति।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन पाठयिष्यते।

हैदराबाद्-नगरस्य प्रसिद्धः भाषावैज्ञानिकः डॉ. वाई.एन्. राव्-महोदयः एतस्य शिक्षणवर्गस्य आयोजनं करिष्यति।

ये उपरिनिर्दिष्टे शिक्षणवर्गे भागग्रहणमिच्छन्ति ते पाठ्यक्रमसञ्चालकं डॉ. वाई.एन्. राव्-वर्यं प्रति ईमेयिल्-पत्रं (सङ्केतः – “Dr. Y.N. RAO  <doctorynrao@yahoo.co.in>) प्रेषयित्वा विवरणं प्राप्नुवन्तु।

2016 वर्षस्य एप्रिल्-मासस्य 7 दिनाङ्कः एव परिपूरितानि आवेदन"पत्राणि प्रेषयितुम् अन्तिमतिथिः अस्ति। 

Tuesday, March 29, 2016

राष्ट्रिय-चलनचित्रपुरस्कारः प्रख्यापितः; बाहुबलिः उत्तममं चित्रम्।

नवदिल्ली> उत्तम चलन-चित्रपुरस्कारः बाहुबलिं प्राप्तः। एं एस्‌ राज मौलिः भवति अस्य चित्रस्य सूत्रधारः । 'पिकु'
नामकस्य हिन्दी चलनचित्रस्य अभिनयनाय उत्तमनटस्य पुरस्कारः अमिताभ बच्चन्वर्याय अलभत। उत्तमा नटी कङ्कण रनौत्  च  (तनु वेड्स् मनु रिट्टेण्स् इतिचित्रम् )।

Monday, March 28, 2016

पाकिस्ताने भीकराक्रमणं - ६५ मरणानि ।

पाकिस्ताने लाहोरे ह्यः सायं आत्महत्यासन्नद्धेन भीकरेण कृते आक्रमणे ६५ जनाः मारिताः ।२०० परं जनाः आहताः ।मृतेषु भूरिभागः महिलाः बालकाश्च भवन्ति । 
  लाहोरे इक्बाल् नगरमिति प्रमुखे जननिवासमण्डले वर्तमाने गुल्षन् इक्बाल् उद्याने एव आत्महत्याभटः स्वयमेव विस्फोटितः । ईस्टर् दिने ह्यः तत्समये महान् जनसम्मर्द आसीत् । सुरक्षाव्यवस्था अपि न्यूना आसीदित्यपि सूच्यते ।

२०- २० लोकचषकः - भारतम् उपान्त्यपादे ।

मोहाली - आस्ट्रेलियां ६ द्वारकैः पराजित्य भारतं २० - २० लोकचषकक्रिक्कट् स्पर्धायाः उपान्त्यचक्रे स्थानं दृढीकृतम् ।सूपर् १० चक्रस्य निर्णायकमत्सरे आस्ट्रेलियया दत्ता १६१ धावनाङ्काः इति विजयक्ष्यः पञ्चकन्दुकेषु अवशिष्टेषु ४ कन्दुकताडकानां नष्टे भारतेन प्राप्तः । 
विराटकोलिः भवति श्रेष्ठक्रीडकः । सः ५१ कन्दुकेभ्यः षड्कद्वयेन नवचतुष्कैश्च साकं ८२ धावनाङ्कान् प्राप्य अबाह्यः अभवत् ।

वैदिकः ऐ एस् भीकरैः अपहृतः ; मोचयितुं प्रयत्नः आरब्धः ।
नवदिल्ली - यमन् राष्ट्रे केरलीयः क्रिस्तीयपुरोहितः , फा. टोम् उष़ुन्नाल् नामकः ऐ एस् भीकरैः मार्च् ४ दिनाङ्के अपहृतः । यमन् राष्ट्रे मिषणरीस् आफ् चारिटि इति संस्थया प्रचाल्यमाने  अशरणानां केन्द्रे कृते भीकराक्रमणे भारतीयाः चतस्रः कन्यास्त्रीसहिताः १६ जनाः मारयन्ति स्म ।तस्यां वेलायामेव फा. टोमः अपहृतः ।
घटनायां ऐ एस् संघटनस्य उत्तरदायित्वं गतदिने एव केन्द्रसर्वकारेण प्रकाशितम् ।तस्य मोचनाय सर्वथा प्रयत्नः आरब्ध इति विदेशकार्यमन्त्रिण्या सुषमा स्वराजेन उक्तम् । परन्तु तस्य मोचनाय भीकरैः मोचनद्रव्यम् अभियाचितमिति वार्ता बहिरागता ।

Sunday, March 27, 2016

निलीयमानान् निरीक्षितुं सैन्यस्य " दिव्यचक्षुः" ।
नवदिल्ली> भारतसैन्यस्य आक्रमणशक्तिं वर्धयितुं श्रेष्ठः लाभः भारतीय प्रतिरोध गवेषणसंस्थया प्राप्तः । सन्देहयुक्ते साहचर्ये भवनेषु अदृष्टिगोचरान् जनान् निरीक्षितुं तेर्मल् इमेजिंङ् रडार् इति नूतनयन्त्रविशेषः दिव्यचक्षुनाम्ना विकसितः।
भारतीयप्रतिरोधगवेषणसंसस्थायाः अधीने प्रवर्तमाना इलक्ट्रोणिक्स् &रडार् डवलप्मेन्ट् एस्टाब्लिष्मेन्ट् इति संस्था एवास्य साक्षाकारमकरोत् । भित्तिकातः २० मीटर् दूरस्थं व्यक्तिम् अभिज्ञातुम् अनेन रडार् उपकरणेन साध्यते । व्यक्तेः शरीरोष्माणं प्रत्यभिज्ञाय रडार् प्रवर्तते ।
  ६ किलोपरिमितं भारयुक्तस्य अस्य निर्माणव्ययः ३५ लक्षं रूप्यकाणि सन्ति ।बंगुलुरु आस्थानत्वेन वर्तमाने गवेषणकेन्द्रे अस्य भारं लघूकर्तुं परिश्रमः वर्तते।
  सैन्यस्य प्रयत्नः सफलः प्राप्स्यते चेत् मुम्बई, पठान्कोट् सदृशानि भीकराक्रमणानि  प्रतिरोद्धुं शक्यते इति विश्वासः ।

शुद्धजलं दुर्लभम्
आभारतम् जनाः अत्युष्णेन क्लेशम् आवहन्ति। नगरेषु  ग्रामेषु अपि जलमन्विष्य जनाः परिभ्रमन्ति। पक्षि-जन्तुजालान्यपि क्लेशमनुभवन्ति। सूर्याघातेन पतिताः मृताः च बहवः सन्ति। एवं स्थिते सति एकत्र नालिकायाः दोषेण जलं वृथा प्रवहन्ति। अन्यत्र जलस्य आगमनं प्रतीक्षय स्त्रियः बालिका-बालकाश्च तिष्ठिन्ति। तत्रवर्तमानेन कोलाहलेन जिल्ला अधिकारिभिः निरोधनाज्ञा ज्ञापिता च। भवतु सकलप्राणिनां जीवरक्षायै जलं नूनम् आवश्यकम् इति अद्यतन चिन्तायाः विषय:।


सामूहिक माध्यमानां कण्ठेषु अन्तर्जाल-आरक्षक-सेनायाः ग्रहणम्।

कोच्ची > सामूहिक - अन्तर्जालमाध्यमेषु भय - जुगुप्सोत्पादकानि चित्राणि उद्प्रावेशकाः मार्च् मासस्य अष्ठविंशाति दिनाङ्कतः अपराधिनः भवेयुः। सर्वोच्च न्यायालयस्य आदेशानुसारं तादृशान्‌ ग्रहीतुं निश्चितः अस्ति इति अन्तर्जाल-आरक्षकसेना विभागेन उक्तम्। भग्नशरीराणां चित्रेण यान-दुर्घटनायाः भीतिदचित्रेण वा जनानां मनसि विभ्रममुद्‌पातयन्तः दण्डमर्हति। तादृशचित्राणि चलनचित्रखण्डानि अश्लील चित्राणि च उद्‌प्रेषणीयाः अपराधिनः। तादृशान् ग्रहीतुं प्रत्येकं जिल्लायां पञ्च चत्वारिंशत् (४५) आरक्षकाः सज्जाः सन्ति।

क्रैस्तवानाम् अद्य 'ईस्टर्'

क्रैस्तवानाम् गुरोः क्रैस्ट् महाशयस्य पुनरुत्थानं स् मारयित्वा सर्वत्र विश्वे अद्य ईस्टर् आघुष्यते। आर्तरक्षामुद्दिश्य स्वजीवनं समर्पितवानयम्। स्वजीव: अपि दीनरक्षायै दादव्यम् इति महोत्सवस्य अस्य सङ्‌कल्पः।






कण्णूर् स्फोटनं -अपराधी ग्रहीतः।

कण्णूर् - केरले कण्णूर् जनपदे स्फोटकसामग्रीणां स्फोटनेन गृहाणि  भञ्जितानि , ६ जनाः व्रणिताः इत्यस्मिन् विषये मुख्यापराधी चालाट् स्वदेशीयः अनूप् कुमारः आरक्षकैः ग्रहीतः ।

गतगुरुवारे अर्धरात्रौ एव कण्णूर् पोटिक्कुण्ट् राजेन्द्रनगर् सहनिवाससमीपे गृहे ग्रामभीतिदं महत्स्फोटनं जातम् । गृहे परिरक्षितानि ५ लक्षरुप्यकमूल्यपरिमितानि अत्युग्रस्फोटकवस्तूनि विस्फोटितानि । द्वितलाट्टशूल-गृहमेतत् पूर्णतया विशीर्णम् । तत्रस्थं कार् यानमपि भग्नमभवत् ।  समीपस्थानि पञ्च गृहाणि नाशितानि ।
अनूपेन सह वासं कुर्वत्यौ राहिला पुत्री हिबा च गुरुतरेण आहतेन चिकित्सालयं प्रवेशिते । ४ प्रातिवेशिका अपि स्फोटने व्रणिताः अभवन् ।

Saturday, March 26, 2016

दीनरक्षकेभ्यः शुभवार्ता ।

नव दिल्ली > आपदि पतितान् भीतिं विना साहाय्यं कर्तुम् आरम्भं कुर्मः ।  सज्जनान् प्रति कथं व्यवहर्तव्यः इति निर्दिशन्ती मार्गरेखा गतागत मन्त्रालयेन प्रकाशिता। चतुर्दशोत्तरद्विसहस्रतमस्य (२०१४) अत्युच्च न्यायालयस्य आदेशः तथा केन्द्रसर्वकारस्य मानदण्डान्‌ च अनुसृत्येव अयं निदेशः। SP अथवा जिल्लास्तरीय उत्तरदायिनः निदेशः पालितः इति निश्चयं करणीयम्।
व्रणितान् तथा  श्रान्तान् च यः साहाय्यं करोति सः आदरम् अर्हति। दुर्घटना दूर वाणी द्वारा ज्ञापितवन्तान् निर्बन्धतया साक्षीकरणं मा भवतु। इत्यादयः मर्यादा पूर्वकनिदेशाः अस्मिन् अन्तर्भवन्ति। अतः दयालुभ्यः जनेभ्यः ‌भयं विना दीनजनसेवां कृत्वा स्वधर्मपालनं शाक्यते इति मोदाय भवति ।



बाधा अपनीता; जम्मू काश्मीरे मेहबूबा मुख्यमन्त्री भविष्यति।

श्रीनगर् जम्मुकाश्मीरे पि डि पि - भा ज पा सख्यम् अनुवर्तितुं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह पिडिपि नेत्र्या मेहबूबावर्यया चालितायां चर्चायां निश्चितम् । राज्यस्य पि डि पि विधानसभापक्षनेतृरूपेण मेहबूबा चयिता ।
एतदनुसृत्य काश्मीरस्य प्रथमवनितामुख्यमन्त्री इति स्थानं तया प्राप्स्यते ।
तस्याः पितुः मुफ्ति मुहम्मद सयीदिवर्यस्य मरणानन्तरं मासत्रयं यावत् राज्ये राज्यपालशासनमेव वर्तते ।


हास्यकाथिकः वि डि राजप्पः दिवंगतः। 

कोट्टयं - केरळम् >  हास्यकथाकथनेन पारडिगानावतरणेन हास्याभिनयेन च कैरलीहृदयेषु चिरप्रतिष्ठां प्राप्तवानस्ति वि डि राजप्पः, सः दिवंगतः । ६८ वयस्कः आसीत्। चतुर्सप्तत्यधिक नव शतोत्तर सहस्रतमे (१९७४ ) वर्षे कोट्टयं स्वदेशीयः राजप्पः तदानींतनकाले जनप्रीतिं प्राप्तानि चलच्चित्रगानानि संगीतसरणिम् सर्वं च अनुप्रेक्ष्य स्वेनैव हास्यात्मकमाशयपरिवर्तनं कृत्वा ' पारडी ' इति नूतनगानसङ्केतस्य साहाय्येन कथाकथनमवतार्य  उत्सवसदांसि आवेशोज्वलानि कृतवान् । पक्षिमृगवाहनादीनि कथापात्रत्वेन स्वीकृत्य तेषु मानविकभावं सन्निवेश्य आक्षेपहास्यरूपेणैव कथाकथनमकरोत् । अचिरेणैव हास्यकाथिकः इति प्रथामवाप ।
आकेरलम् उत्सवक्षेत्रेषु स्वेनैव क्रमीकृतैः पारडिगानैः हास्यकथनैश्च हाससफोटनपरम्पराः जनयामास। अनन्तरं ७५ परं चलच्चित्रेषु हास्यकथापात्राणि अवतार्य प्रोक्षकप्रीतिं संवर्धयामास।

Friday, March 25, 2016

 दिनषष्ठ्‌यभ्यन्तरेणैव जनानां परिदेवनानि परिहर्तव्यानि- प्रधानमन्त्री

नवदिल्ली > सर्वकारस्य विविधविभागेभ्यः जनेभ्यः च लभ्यमानानि सेवनानि अधिकृत्य परिदेवनानि विद्यते चेत् षष्ठिदिनाभ्यन्तरेण परिहरणीयानि इति प्रधानमन्त्री नरेन्द्रमोदि वर्यः आदिष्टवान्। उन्नतोद्योगिभिः सह वीडियो कोण्फरन्सिङ् द्वारा कृते मेलने अयं निदेशः दत्तः। जनानां परिदेवनानि परिहर्तुं उद्योगिनः न तत्पराः इति विमर्शाः अजायन्त। सन्दर्भे अस्मिन् एतादृश निदेशः अजायत इत्यनेन जनानाम् आश्वासः।
प्रधानमन्त्रिणः प्रगतिः नाम अन्तर्जाल-परिदेवन-पञ्चीकरण द्वारा  लभ्यमानानि सेवनानि अधिकृत्य लक्षाधिकानां परिदेवनानां परिहाराः , विना विलम्बं कर्तुम् इदानीम् उद्योगिनः निर्बद्धाः भवेयुः।

विनयस्य परसेवनस्य च सन्देशेन " पेसहा " आघुष्टा; अद्य विशुद्धशुक्रवासरः।

कोच्ची >विनयस्य साहोदर्यस्य सहिष्णुतायाः च सन्देशं प्रचार्य आभुवनं क्रैस्तवदेवालयेषु पेसहाचरणं सम्पन्नम् । मर्दितानां पीडितानां कृते स्वजीवत्यागस्य पूर्वस्मिन् दिने येशुदेवेन कृतं शिष्यपादप्रक्षालनं स्मारयित्वा सर्वेषु देवालयेषु पेसहाश्रेष्ठकर्माणि आचरितानि ।
परस्परप्रेम्णा निस्स्वार्थसेवनेन साहोदर्यभावनया च धर्माणां राष्ट्राणां भाषाणां च आधारे वर्तमानाः भिन्नताः अतिक्रमान् च दूरीकर्तुं शक्यते इति वैदिकश्रेठाः उद्बोधितवन्तः ।
मार्पापावर्यस्य नूतननियुक्त्यनुसारं वनितानां पादप्रक्षालनाचरणमपि विविधदेवालयेषु सम्पन्नम् । अद्य येशुदेवस्य क्रूशितमृत्युं स्मरन् देवालयेषु प्रार्थनाभरितकार्यक्रमाः प्रचलन्ति ।

योहान् क्रैफ् निर्यातः ।

बार्सलोण >होलण्ट राष्ट्रस्य पादकन्दुकक्रीडेतिहासः योहान् क्रैफ् (68) निर्यातः । अर्बुदरोगबाधिते तस्मिन्  चिकित्सिते स्पेयिन्   राष्ट्रे बार्सलोणायामेव तस्यान्त्यः।
महान् क्रीडकः श्रेष्ठः परिशीलकः च क्रैफ्वर्यः सम्पूर्णपादकन्दुकक्रीडा (total football) इति विप्लवात्मकक्रीडायाः उपज्ञाता भवति ।
क्रीडाङ्कणे प्रतिभासम्पन्नः घोरपादताटकः (striker)  अप्रतिरोध्यः मध्यक्षेत्रीयः(midfielder) इति क्रीडाङ्कणे विराजितः सः त्रिवारं लोकपादकन्दुकक्रीडकः इति किरीटं लब्धवान् ।

Thursday, March 24, 2016

प्राणिनं जीवरक्षायै जयपुरे 'मार्गदाबा' च


जयपुरम् > वीथी शालायां अधुना आरभ्य आपत् कालचिकित्सा। राजस्थान सर्वकारस्य नूतना पद्धतिरियम्। मार्गेषु यानदुर्घटनायां पतितेभ्यः प्रथमशुश्रूषां औषधं च जवेन दत्वा जीवरक्षां कर्तुम्  अनया पद्धत्या उद्दिश्यते । तदर्थं वीथीप्रान्तभक्ष्यशालाभ्यः कर्मकरेभ्यः  प्रथमं परिशीलनं दास्यते। राष्ट्रियवीथिषु राज्यस्तरीय वीथिषु च योजना आयोजयिष्ते इति स्वास्थ्य मन्त्रिणा राजेन्द्र रात्तोडेन विधानसभायां उक्तम्।

एस् एस् एल् सी परीक्षा समाप्ता; छात्राणां मुक्तिः।

कोच्ची>केरले एस् एस् एल् सि इति दशमीकक्ष्याछात्राणां सार्वजनिकी परीक्षा समाप्ता । न केवलं केरले आभारतं वैज्ञानिकमण्डलस्य बहूनां कर्ममण्डलानां च मूलभूत-योग्यतारूपेण SSLC प्रमाणपत्रस्य प्राधान्यमस्ति । अतः दशमीकक्ष्याछात्राणां विषये रक्षाकर्तृषु अध्यापकेषु अभ्युदयकांक्षिषु च अध्ययनवर्षादारभ्य नितान्तजाग्रता आसीत्। ४.५ सार्थ चत्वारि (४.५) लक्षाधिकाः छात्राः परीक्षां लिखितवन्तः । राज्ये विविधस्थानेषु केन्द्रीकृतमूल्यनिर्णयः एप्रिल् प्रथमदिनाङ्कादारभ्य द्वादश (१२) दिनाङ्कपर्यन्तं भविष्यति । पञ्चविंशति (२५ ) तमदिनाङ्काभ्यन्तरे फलं प्रसिद्धीकर्तुं शक्नुयादिति अधिकारिभिः उक्तम् ।

इन्टिगो विमानेभ्यः विस्फोटकात् भीतिःI

नव दिल्ली > इन्टिगो एयर् लैन्सस्य दशसंख्येभ्यः विमानेभ्यः विस्फोटकात्‌ भीतिः। इदानीं विमानेषु समीक्षणं चलन्नस्ति।
विमान संस्थायाः चेन्नै आह्वान-केन्द्रेषु भीतिदं सन्देशं लब्धम्। सन्देशस्य उत्पत्तिस्थानं भारतात् बहिरासीत् इति सूचना।
ब्रसल्देशस्य आक्रमणात्‌ पूर्वमपि एतादृशं सन्देशां आसीत् ।

कनय्याकुमारः हैदराबाद् विश्वविद्यालयं प्राप्तः।

हैदराबाद् > जे एन् यू विश्वविद्यालयस्य छात्रनेता कनय्यकुमारः हैदराबाद् विश्वविद्यालयं प्राप्य तत्रस्थं विद्यार्थिप्रक्षोभाय ऐक्यदार्ढ्यं प्रख्यापितवान् । रोहित् वेमुलः नामकस्य छात्रस्य आत्माहूत्यानन्तरं तात्कालिकविरामं स्वीकृतवतः उपकुलपतेः अप्पारावुवर्यस्य प्रत्यागमनं पुरस्कृत्य कलालये संघर्षः उद्भूतः आसीत् ।
स्वमात्रा सहैव सः कलालयं प्राप्तः। तस्य सन्दर्शनं पुरस्कृत्य महान् सुरक्षासन्नाहः स्वीकृतः आसीत्।

Wednesday, March 23, 2016

भारतस्य राष्ट्रिय-गानालापन-समये त्रुटिः।
महानटः अमिताभ बच्चः अपराधी इति।

कोल्कत्त > भारतस्य राष्ट्रिय-गानस्य दोषयुक्तालपनेन विश्वप्रसिद्धं महानटम् अमिताभ् बच्चं विरुध्य आरक्षकाणं पुरतः अक्षेपः। विंशति - विंशति विश्व चषकस्य भारत-पाकिस्थानस्य स्पर्धायाः पूर्वं भारतस्य राष्ट्रियगानालपनं कृतवानासीत्‌ अयम्। दिल्यां अशोकनगरस्य आरक्षकालये एव बच्चं विरुध्य आक्षेपः लब्धः।
उल्हास् पि. आर्. इति नामकेन आक्षेपः दत्तः। संविधानानुसारं द्विपञ्चाशत् (५२) निमेषाः एव एतस्य गानस्य आलपनकालः। किन्तु द्वाशीतिः (८२)निमेषानुपयुज्य आलपितः इत्यनेन अपराधः कृतः इत्येव आक्षेपः।



हरितन्यायाधिकरणः केरळे परिभ्रमणपीठम् आरभते।

कोच्ची > चिरकालप्रतिक्षायाः अन्ते केरळे देशीयहरितन्यायाधिकरणस्य परिभ्रमणपीठः आरभते । कोच्च्यां उच्चन्यायालयभवने सप्तमन्यायालये पीठस्य प्रवर्तनं प्रचलिष्यति। देशीयहरितन्यायाधिकरणस्य चतुर्थः परिभ्रमणपीठः भवति एषः।

ब्रस्सल्स् नगरे भीकराक्रमणं - ३५ मारिताः।

ब्रस्सल्स् >यूरोप् भूखण्डे बल्जियं राष्ट्रस्य राजधान्यां ब्रस्सल्स् नगरे ह्यः त्रिषु स्थानेषु संजातेषु स्फोटनेषु ३५ जनाः मारिताः । २०० परं व्रणिताः अभवन् । ऐ एस् इति भीकरसंस्थायाः मृत्युसन्नद्धयोद्धारः स्फोटनं कृतवन्त इति बल्जियं सर्वकारेण व्यक्तीकृतम् ।
प्रादेशिकसमयानुसारं प्रभाते सार्धाष्टवादने एव नगरस्थे विमाननिलये तथा मल्बिक् मेट्रो स्थाने च स्फोटनानि संवृत्तानि। यूरोप् भूखण्डः अपि आतङ्कवादभीषणे अन्तर्भूतः । गतनवंबरमासे पारीस् नगरे संवृत्ते आक्रमणे १३० पौराः हताः आसन्। तस्य आक्रमणस्य सूत्रधारः अब्दे सलामः चतुर्दिनेभ्यः पूर्वं ब्रस्सल् नगरादेव बन्धितः अभवत् ।

Tuesday, March 22, 2016

अम्बद्करः सर्वेषां विमोचकः - मोदी।

नवदिल्ली > डो. बि आर् अम्बद्करः न केवलं दलितविभागीयनां किन्तु सर्वेषां पार्श्ववत्कृतानां च विमोचकः आसीदिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् ।नवदिल्यां अम्बद्कर् देशीयस्मारकस्य शिलास्थापनसमारोहे भाषमाणः आसीदयम् । अमेरिक्कायां श्यामवर्णीयानाम् अधिकारेभ्यः प्रवर्तनं कृतवतः मार्टिन् लूथर् किङ् वर्यस्य समशीर्षः अम्बद्करः विश्वमानवः आसीत् इति प्रधानमन्त्रिणा अनुस्मृतम्। भारते सामाजिकोद्ग्रथनाय सः नेतृत्वं कृतवान् । राष्ट्रशासनानुसारं सामाजिकसमत्वाय ऐक्याय च तस्य जीवनं समर्पितमिति मोदिवर्यः अवदत्।

नूतनानां स्मृत्यर्थं प्राचीनानां विस्मृतिः।

लण्डन् > मनुष्यमस्तिष्कः अत्भुतानां निगूढ-दुर्गमेवI स्मृतेःविस्मृतेः भावनायः च म्ध्ये किमिति अन्विष्यमानाः  वैज्ञानिकाः रहस्यमिदम् उद्‌घाटितम्। मस्तिष्कस्य केचन भागाः विस्मृत्यर्थं शीघ्रं शीघ्रं प्रयत्नं कुर्वन्ति इति। द्विचक्रिका चालनं पठित्वा तत्‌ कदापि न विस्म्रियते चेदपि विस्मृतिं विना नूतनज्ञानसञ्चयः न भविष्यति इति। नूतनानि पुरातनकार्येण सह बध्वा एव स्मृतिपद्धतिः प्रवर्तननिरताः भविष्यति। भवतु नूतना वैज्ञानिक-दर्शनानि।

Monday, March 21, 2016

रष्यायां विमानदुर्घटना - ६२ हताः।

मोस्को > दुबाय् देशात् रष्याराष्ट्रं प्रति सञ्चरितं विमानं रष्यानगरस्थे रस्तोफ् ने डणु इति  विमाननिलये भग्नीभूय ६२ यात्रिकाः हताः ।  झंझावातः हिमानि च दुर्घटनायाः कारणत्वेन ऊह्येते।
३३ महिलाः ४ बालकाः च सहिताः ५५ यात्रिकाः ७ विमानकर्मकराः च आसन्। सर्वे अपि तत्क्षणे एव मृताः ।



ओबाम क्यूबाभूमौ ;  इदं चरितसन्दर्शनम् ।

Image for the news resultकोच्ची > ८८संवत्सरानन्तरं कम्म्यूणिस्ट् राष्ट्रमिति विख्याते क्यूबादेशे अमेरिक्काराष्ट्रपतेः सन्दर्शनम् । ओबामावर्यः अद्य त्रिदिवसीयसन्दर्शनार्थं क्यूबां प्राप्नोति । १९२८तमे वर्षे काल्विन् कूलिज् असीत् इतः पूर्वं क्यूबां कृतसन्दर्शकः अमेरिकाराष्ट्रपतिः । इदम् अपूर्वं आकस्मिकं सन्दर्शनम्।
  २०१३ तमे वर्षे दक्षिणाफ्रिक्कायां संवृत्तं  क्यूबाराष्ट्रपत्या रौल् कास्ट्रो वर्येण सह ओबामवर्यस्य  अभिमुखं भवति अस्य राष्ट्रसन्दर्शनस्य आधारः ।

Sunday, March 20, 2016

विवाहमण्डपे वरः मद्यं पीत्वा आगतवान्
वधू विवाहात् प्रतिनिवर्तितवती।

मेट्टुपाळयम् (तमिल्नाट्) > मद्यं पीत्वा आगतं वरं दृष्ट्वा वधू मूर्चिता पतिता च। समीपस्थम् अतुरालयं प्रापयित्वा प्राथमिक शुश्रूषाम् अदात्I अनन्तरं विवाहवेदिकायां प्रत्यागत्य विवाहे विप्रतिपत्तिः प्रकाशिता वध्वा।  वरः (२७ वयस्क:) बंग्ळामेट् देशीयः, वधू (२३ वयस्का) एल्.एस्‌.पुरम् देशीया च।
मित्रैः सह सुरां पीत्वा वेदिकायां 'समागतः' वरः नष्टप्रज्ञः आसीत्। वधोः समीपमुपविश्य चापलभाषणं कुर्वतस्य तस्य मुखात् आगतेन मद्यस्य रूक्षगन्धेन वधू मूर्चिता आसीत् च।
अस्मिन् विवाहे वध्वा विप्रतिपत्तिप्रख्यापनं श्रुत्वा लोकाः प्रथमं स्तब्धाः अभवन् । चेदपि इदानीं तस्यै विविधेभ्यः देशेभ्यः अभिनन्दनानां प्रवाहः एव।


पलास्तिक व्यापाराय शुल्कः,
मेलनानन्तरं स्थलमार्जनं करणीयं नो चेत् धनार्पणरूप-दण्डनम्‌।

नव दिल्ली> केन्द्रसर्वकारेण नूतना पलास्तिक-मालिन्य नियमः प्रख्यापितः षण्मासाभ्यन्तरेण आभारतं नियमः प्रबलः भविष्यति।
निशितव्यवस्थया निर्मिते शासने पञ्चाशत् (५०) अतिलघुमितः (Micron) अधः पलास्तिक-स्यूतानां निर्माणं शासन -विरुद्धं भवेत्। आभारतं प्रतिदिनं १५,००० टण्‌ मितं पलास्तिक मालिन्यानि जायन्ते। तस्मात् ९००० टण् मितं सञ्चित्य नाशयितुं शक्यते चेदपि ६००० टण् मितानि मालिन्यानि सञ्चयनं विना यत्र कुत्रापि वितीर्य स्थास्यन्ति।

Saturday, March 19, 2016

संस्कृतवार्ता वाचने छात्रेभ्यः परिशीलनम्। 

कोच्ची > केरलेषु एरणाकुळं जिल्लायाः सर्वशिक्षा अभियानः सम्प्रति वार्तायाः सहकारितया विद्यालय-छात्रेभ्यः वार्ता वाचने परिशीलनं दास्यति। अष्टमकक्षा पर्यन्तेभ्यः छात्रेभ्यः एव प्रवेशः। एप्रिल् मासस्य २०, २१, २२ दिनाङ्केषु वाचन परिशीलन सत्रम् आयोजियिष्यते। कर्यक्रमे भागभाजिनः नाम मार्च् मासस्य ३० तः पूर्वं विद्यालयस्य प्रथमाध्यापकेन E Mail द्वारा प्रेषणीयाः।  छात्रस्य नाम, पितुः दूरवाणीसंख्या च सूचनीया।
परिशीलनेषु विजयिभ्यः सम्प्रति वार्तां वार्ताः अवतारयितुम् अवकाशः दास्यते।

Friday, March 18, 2016

 आकाशवाण्याः "संस्कृत-सौरभम्"

आचार्येण हरिदत्त-शर्मणा साकं डो.बलदेवानन्द-सागरः 
नवदिल्ली > "भारतस्य महामहिमशालिना राष्ट्रपतिना प्रमाण-पत्रप्रदानेन  सभाजितेषु संस्कृत-विद्वत्सु अन्यतमेन आचार्येण हरिदत्त-शर्मणा साकं "संस्कृत-सौरभम्"-इति आकाशवाण्याः कार्यक्रमार्थं साक्षात्सम्भाषणं ध्वन्यङ्कितम्| अवसरेsस्मिन् कार्यक्रम-सञ्चालकेन डो.बलदेवानन्द-सागरेण पृष्टः आचार्य-शर्मा स्वीयान् नाना अध्यापनानुभवान् विवर्णयन् स्वीय-वैदेशिक-यात्राविषयेsपि विस्तरेण सूचितवान्| तेनोक्तं यत् संस्कृत-शिक्षणार्थं तेन नैकवारं अनेकेषां देशानां यात्रा विहिता| तदवसरे तेन अनुभूतं यत् अनेकेषु देशेषु प्रतिष्ठापितैः संस्कृत-पीठैः संस्कृत-विषयकं बहुविधं शोधकार्यम् अनुष्ठीयते| प्रो.शेल्डोन-पोलोक-विषये पृष्टः डो.शर्मा न्यगादीत् यत् अमुना वैदेशिक-विदुषा नैकत्र संस्कृत-ज्ञानस्य वैदिक-मनीषायाश्च विद्रूपीकरणं विहितम्| तच्च नैवास्ति समीचीनम्| भारतीयैः विद्वद्भिः स्वीय-रचनात्मक-प्रतिभया तत् सर्वं सम्यक्तया सम्पादनीयमवशिष्यते | साक्षात्कार-सम्भाषणावसरे आचार्य-शर्मणा स्वीय-काव्यपाठेन सहृदयानां परितोषार्थं काव्यरस-परिवेषणम् अनुष्ठितम्| प्रतिमासं द्विवारं [ प्रथमे तृतीये च शनिवासरे ] रात्रौ सार्धनववादने आकाशवाण्याः इन्द्रप्रस्थ-वाहिनीतः  [ 666 KHz-तः ] प्रसार्यमाणोऽयं कार्यक्रमः एप्रिल-मासे द्वितीय-दिनाङ्के [ शनिवासरे ] श्रोतुं शक्यते|

अरबी अध्यापने २९ संवत्सराणि; गोपालिका अन्तर्जनं निवर्तते।

मलप्पुरं - २९ संवत्सराणि बालकानां कृते अरबिभाषायाः माधुर्यं प्रसारितवती गोपालिका अन्तर्जनं तस्याः कर्ममण्डलात् विरमति। केरलेभ्यः ब्राह्मणसमुदायगता प्रथमा अरबी अध्यापिका इति ख्यातिर्भवति गोपालिकावर्यायाः।
१९८२तमे वर्षे मलप्पुरं जिल्लायां पाण्टिक्काट् प्रदेशे कस्मिंश्चित् वैयक्तिकविद्यालये आसीत् प्रथमनियुक्तिः । किन्तु ब्राह्मणवनितायाः अरबि अध्यापनमसहमानानां धर्मान्धानां प्रतिषेधात्  तत्रत्या केवलं षड्दिवसीया अध्यापकवृत्तिः समाप्ता । किन्तु पराजेतुमसन्नद्धा सा न्यायालये परिदेवनं दत्वा अनुकूलविधिं सम्पाद्य पि एस् सि द्वारा १९८९ तमे वर्षे तिरुवालि सर्वकारीयनीचविद्यालये नियुक्तिं प्राप्तवती । तत्र १० संवत्सराणां सेवनानन्तरं मेलाट्टूर् उपजिल्लायां चेम्माणियोट् सर्वकारीयविद्यालयं प्राप्य १७ संवत्सराणि अतीतानि। ततः एव इदानीं सेवानिवृत्तिः।
 बाल्ये समीपस्थं  समान्तरविद्यालयं गत्वा अरब्भाषां पठितुं तात्पर्यं प्रकटितवत्यै गोपालिकायै पितरौ  अनुमतिं दत्तवन्तौ ।तदेव तस्याः जीवने मार्गपरिवर्तनमभवत् । १९९३ तमे वर्षे प्रकाशितं नारायम् इति चलच्चित्रं गोपालिका अन्तर्जनस्य अध्यापनजीवनं पुरस्कृत्य आसीत् ।

ऐ.एस्.बन्धम्, एन् .ऐ.ऐ.द्वारा २५ जनाः वन्धिताः

नवदिल्ली > ऐ.एस् आदङ्गवादिभिः साकं सम्पर्कः वर्तते इति संशयत्वात् २५ जनान् देशीय अन्वेषण उद्योगस्थैः वन्धिताः इति केन्द्रसर्वकारैः सूचिताः। भारतराष्ट्रात् ऐ.एस्.प्रति बहुन्यूनाः एव आकृष्टन्ते इत्यपि सर्वकारैर्सूचितम्। ऎ.एस्.संस्थायाः केषाञ्चन सजीवप्रवर्तकान् आरक्षकैः बन्धिताः इत्यपि केन्द्र आभ्यन्तरसहमन्त्रिणा हरिभाय् चौदर्या सूचितम्।

मस्तिष्कभोजी अमीबा - एकः बालः मृतः।

कोच्ची - मस्तिष्के अमीबा इति एककोशजीविनः प्रवेशेन गुरुतरावस्थां प्राप्तः बालः मरणम् उपगतः । आलप्पुष़ा जिल्लायां तिरुमला उम्माप्परम्प् गृहे नवासस्य पुत्रः अक्बरः (१६) एव मृतः । 
मित्रैः सह तटाके स्नानं कुर्वति एव अक्बरस्य मस्तिष्कं प्रति अमीबाप्रवेशनं जातम् । असह्यमानया शिरोवेदनया आलप्पुष़ा मेडिक्कल् कोलज् आतुरालये अनन्तरम् आस्टर् मेडिसिटी इति वैयक्तिकातुरालये च प्रविष्टः चेदपि मृत्युरभवत् ।
नग्लेरिया फौलेरी इत्याख्या अमीबा नासाद्वारेणैव मस्तिष्कं प्रविष्टा। शरीरे प्रविष्टे रोगाणुनाशनं दुस्साध्यमिति अभिज्ञाः वदन्ति ।

मल्यावर्यस्य किङ्फिषर् हौस् मन्दिरस्य सघोषविक्रयः पराजितः।

मुम्बई >  प्रवर्तनरहितायाः किङ्फिषर् एयर् लैन्स् संस्थायाः आस्थानमन्दिरं सघोषविक्रयेण विक्रेतुं बाङ्कसंघस्य प्रयत्नः पराजितः । गतदिने सम्पन्ने इलक्ट्रोणिक् सघोषविक्रये  यस्य कस्यापि भागभागित्वं नाभवत् । राष्ट्रात् पलायितेन मदिराव्यापारिणा विजयमल्ल्येन विविधवित्तकोशेभ्यः प्रतिदीयमानानि ऋणानि प्रत्याहर्तुमेव तस्य स्थावरद्रव्यानि सघोषविक्रयणाय एवं उद्यमः आरब्धः।

Thursday, March 17, 2016

क्वथिता वैतरणी इव ' पिके ' नदी
 पेरु >पुराणप्रतिपादिता वैतरणीनदी दृष्टा। पेरू राज्ये विद्यमाना पिके नामिका नदी ता दृशा भवति । क्वथिता अस्याः तापमानः नवति (९०) डिग्री सेल्ष्यस् पर्यन्तं भविष्यति। कर्ण-कर्णिकया श्रुतपरिचिता इयं नदी आन्ट्रो रुसो नामकेन पेरू देशीयेन एवI आमसोण् विपिनस्य समीपे एव प्रवहति एषा पिके। पुकल्पा नगरतः १७२ (द्विसप्तत्यधिकशतम्) किलोमीट्टर् दूरे एव अस्याः स्थानम् । नद्याः पञ्चाशत्‌ किलोमीट्टर् परिधौ जनावासः नास्ति। अत्युष्णजलम् इत्यनेन जलजीविनः अत्र न सन्ति। केवलं नव (९)किलोमीट्टर् दीर्घा इयं भौमोर्जेन एव एतादृशरीत्या तपति इति वैज्ञानिकानां मतम् । आमसोणस्य हस्तरेखा इव वर्तमाना पाषिट्ट् नद्याः सङ्गमेन इयं शन्ता भविष्यति।
आधारपत्रिका लोकसभायां पुनरपि अङ्गीकृता।

नव दिल्ली > विपक्षदलीयानां कोलाहलानां मध्ये आधारपत्रिका लोकसभायां शासकीयदलेन पुनरपि अङ्गीकृता। राज्यसभया निर्दिष्ठाः भेदनिर्देशाः निर्वाचनेन निवार्य एव आसीत् नूतनपत्रिकायाः अङ्गीकारः । विपक्षिदलानां प्रतिषेधान् विगणयन्नेव आसीदियं  प्रक्रिया । आधारः निर्बन्धितरूपेण मा भवतु इति सर्वोच्चन्यायालयेन पूर्वम् अनुशासितः आसीत् ।

पञ्चशत औषधानपि केन्द्रसर्वकारैः निरोधितः।

नवदिल्ली> सुरक्षाभावात् गुणाभावात् च पञ्चशताधिकानि औषधानि आपणेषु निरोधितानि। केषाञ्चन प्रतिरोधौषधानि मधुमेहस्यौषधानि च तेषु अन्तर्भवन्ति। विपणिषु सुरक्षितौषधानां प्राप्त्यर्थं केन्द्रसर्वकारैः क्रियमाणस्य प्रयत्नस्य फलादेव औषधनिरोधनमिति आरोग्यमन्द्रालयेन सूच्यते। ६००० औषधानां परिशोधना अधुना प्रचलन्नस्ति । तेषु सहस्राणां औषधानां मिश्रणे अशास्त्रीयवस्तूनां प्रयोगः दृष्टः इत्यस्मादेव परीशोधना सर्वकारैः दृढीकृता।

पेट्रोल् डीसल् मूल्यवर्धनम्। 

नवदिल्ली - पेट्रोल् डीसल् इन्धनयोः मूल्यं तैलसंस्थाभिः क्रमातीतया वर्धितम् । पेट्रोल् तैलस्य ३.०७ रूप्यकाणि डीसल् तैलस्य १.९० रूप्यकाणि च संवर्धितानि । अन्ताराष्ट्रियतैलमूल्यं इदानीं नितरां न्यूनमपि भारतीयतैलसंस्थानां अयं क्रियाविधिः प्रतिषेधाय कारणमभवत्।

 मैसूरु वायुमलिनीकरणं न्यूनीकृतं चतुर्थं नगरम् ।

मैसूरु - वायुमलिनीकरणं न्यूनातिन्यूनतमेषु आगोलनगरेषु मैसूरुनगरस्य चतुर्थं स्थानमस्ति। इन्ड्याटैम्स् . कोम् इत्यनया अन्तर्जालिकया कृते पठने एव इयं सूचना। ८४.०९ % भवति अत्रत्यः शुद्धवायोः मानम्। प्रथमदशनगरेषां पट्टिकायां केरलस्य कोल्लं नगरमपि अन्तर्भवति। ७९.१७ %अस्ति अत्र शुद्धवायोः मानम्। पट्टिकायां प्रथमस्थानमावहति कानडा राष्ट्रस्य वैट् होर्स् नगरम्। अत्र  १००% शुद्धवायुरस्ति ।

Wednesday, March 16, 2016

सिरियातः रप्यायाः सेना प्रत्यागच्छाति

 मोस्को> सिरियातः भागिकतया रष्यायाः सैनिकान् प्रतिनिवर्तयितुं राष्ट्रपतिः व्लाडिमिर् पुटिन् महाभागः निरदिशत्। सिरियायां शान्तिं संस्थापयितुं कृतेषु प्रयत्नेषु सहायकः अयं निदेशः इति पुटिन् महाभागेन उक्तम्।
किन्तु कति सैनिकाः इदानीं सिरियायां सन्तीति अनेन महोदयेन नोद्घाटितः ।

सेप्तंबर् ४ - माता तेरेसा विशुद्धा भविष्यति ।

वत्तिक्कान् सिटि>निरालंबानाम् अम्बा इति विख्याता मदर् तेरेसा सेप्तंबर् ४ दिनाङ्के फ्रान्सिस् मार्पापा वर्यात् विशुद्धपदं प्राप्स्यते। जीवनकाल एव परिशुद्धा इति विशेषणं प्राप्तवत्याः तस्याः परिशुद्धस्थानाय पाप्पावर्यस्य अनुमतिः लब्धा। रोमानगरे प्रख्यापनकार्यक्रमं प्रतीक्षते । कोल्कत्तायां कृतज्ञताप्रकाशनकार्याणि च अनुवर्तन्ते।


लोकेषु भीतिं प्रसार्य वित्तकोश चौर्यम्।

धाक्क> अन्तर्जाल-वित्तकोश सौकर्यमुपयुज्य बङ्ग्लादेश राष्ट्रस्य केन्द्र-वित्तकोशात्‌ ६८० कोटि रुप्यकाणि अमुष्णत् ।  अन्तर्जालमोषणेन खिन्नः वित्तकोशाध्यक्षः अतीउ रह्मान् त्यागपत्रं दत्तवान्। वित्तकोश चौर्येषु बृहत्तमम् आसीदिदम्। कश्चन राज्यस्य केन्द्रकोशः इदं प्रथमतया एव एतादृश मार्गेण चोरितः इति धनमन्त्रिणा ए.एम्.ए मुहित् वर्येण उक्तः। 

Tuesday, March 15, 2016

आरक्षणे पुनरीक्षणम् नास्ति। अनुवर्तमाना स्थिति: अनुवर्तिष्यते- जेट्ली।

नवदिल्ली > श्रमिक-शैक्षिक मण्डलेषु इदानीं अनुवर्तमाना आरक्षणस्थितिः अनुवर्तिष्यते इति केन्द्र वित्तमन्त्रिणा अरुण् जेट्ली महाभागेन उक्तम्। राज्यसभायां बि.एस्.पि सामाजिकानां प्रश्नानाम्  उत्तरं दत्वा सः प्रतिस्पन्दीकृतवान्। आरक्षणविषये परिवर्तनं रोधनं वा अधिकृत्य इत.पर्यन्तं कापि चर्चा न कृता सर्वकारेण इति केन्द्रमन्त्रिणा मुक्त्तार् अब्बास् नख्वी वर्येण च उक्तम्।

लोलातिलोलः काचः 

मेल्बण् > विश्वस्य लोलातिलोलः काचः (Lens) ओस्ट्रेलियायाः वैज्ञानिकैः अन्विष्य दृष्टः। केशात्‌ द्विसहस्रलघुतमः इति अस्य का चस्य वैशिष्ट्यः। 'नानो' विद्यायां नूतनान्दोलनंकर्तुं पर्याप्ता इयं विद्या।
ओस्ट्रेलियायाः राष्ट्रिय-विश्वविद्यालयस्य वैज्ञानिकस्य युरूयु लारि लु वर्यस्य नेतृत्वे कृतश्रमे एव नूतनं दर्शनम् । ६.३नानोमीट्टर् मितः अस्य वैशिष्ट्यः वृत्ताकारे परिवर्तयितुं शक्यते इत्येव। भाविनिकाले सङ्गणकयन्त्राणां दूरदर्शनानां च फलकम् निश्चयेन वक्री कर्तुं गोलीकर्तुं च शक्यते अस्माकं सैकर्याय इति आश्वासदायकः विषयः।

Monday, March 14, 2016

अखिल-केरळवेदप्रघोषण सम्मेलनं सम्पूर्णम् ।

कालटी > प्रञ्चम्या अखिल -केरळ-वेदप्रघोषण-सम्मेलनम् ह्यः सम्पूर्णताम् प्राप। अशीति (८० ) संख्यकाः वेदपण्डिताः पञ्चसप्तति (७५) संख्यकाः वेदविद्यार्थिनः च अस्मिन् मेलने भागभाजः अभवन्। केरलेषु विद्यमानेषु वेदविद्यापीठेषु पठन्तः छात्राः ऐते। केरलशैल्यां द्राविडशैल्यां च वेदाध्ययनं कृतवन्तः छात्राः वेदचतुष्टयात्‌ संहितां पठित्वा देवताप्रीत्यर्थं समर्पितवन्तः।
प्रभाते दशवादने श्रृङ्गेरिमठस्य शासकेन डा. वि.आर्.  गौरीशङ्कर् महोदयेन सम्मेलनम् उद्घाटनं कृतम्। सायं चतुर्वादने सम्पन्ने समादरणसभायां तैक्काट् वैदिकः केशवन् नम्पूतिरि महोदयः प्रशस्तिपत्रेण २५००० रुप्यकाणां लघुभाण्डेन च सम्मानितः। केरलस्य ऋग्वेदपण्डितेषु प्रथमगणनीयः भवति एषः। केरळे आयोज्यमानेषु यज्ञेषु एषः बहुवारम् आचर्यत्वेन स्वीकृतः आसीत्।

 पाक् अधीनेषु काश्मीरेषु चीनासैनिकानां सान्निध्यम्।

श्रीनगरम् > पाकिस्थानेन अधिनिवेशितकाश्मीरेषु चीना राष्ट्रस्य पीप्पिल् लिबरेषन् आर्मि सैनिकान् अपश्यन् इति विज्ञप्तिः। अतः सीम्नि सुरक्षा वर्धिता। नौगां सेक्टर् परिसरे चीनायाः उन्नतसैनिकोद्योगिनः दृष्टः इति च भारतीय-सैनिकैः विज्ञापितः। किन्तु नियन्त्रित रेखायां स्थानीय सौकर्यान् वर्धियितुमेव ते अगताः इति पाकिस्थानेन कृतम् 'भाष्यम्'' | गतदिने जम्मू-कश्मीरस्य पान् गोङ्‌ तटाक पर्यन्तं निलीयागतः चीनासैनिकाः इन्दो-टिबट्टन् सेनया पालायिताः आसन्।

Sunday, March 13, 2016

विश्वसांस्कृतिकोत्सवस्य शुभारंभः।

नवदिल्ली > जीवनकलायाः पञ्चत्रिंशत् (३५) तम वर्षस्य वैशिष्ट्यप्रकाशनमिव विश्वसांस्कृतिकोत्सवः नवदिल्यां यमुनानद्यास्तीरे भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोडीवर्येण समुद्घाटितः। विश्वसंस्कृतेः विपुलतायां सहस्राधिकैः नर्तकैः सङ्गीतज्ञैः सम्पूर्णयां वेदिकायां दीपप्रज्वालनं कृत्वा भाषमाणः मोडिवर्यः कलाकाराणां कुम्भमेलेयं इति अवदत्। भारतस्य सांस्कृतिकपरम्परां विश्वं अत्यत्भुतेन पश्यन्ति। जीवनकला द्वारा भारतं कीदृशम् इति लोकः ज्ञातवन्तः इति च अवदत्I श्री श्री रविशङ्करमहोदयस्य अनुग्रहभाषणं हर्षारवेण सह जनैः स्वीकृतम्। राष्ट्रान्तरसमस्यायाः परिहारः भवति जीवनकला इति जीवन कलायाः आचार्यः अवदत्। यू.ए. ई. सांस्कृतिकमन्त्री षैख् नह्यान् बिन् मुबारक् अल् नह्यान् वेदिकायां विशिष्टतया विराजमानः आसीत्। सहस्राधिकानां पण्डितानां वेद मन्त्रघोषेण मुखरितायां वेदिकायां वैदेशिकाः कलाकाराः अपि नाट्यादिकं प्रदर्शितवन्तः।

केरळ संस्कृताध्यापक फेडरेषन् - संस्कृताध्यापन-दीक्षायाम्।
कोट्टयम् > केरळसंस्कृताध्यापक फेडरेषन् नामिकायाः संस्थायाः जिल्लास्तरीय मेलनमासीत् ह्यः। मेळने प्रमुखः कार्यक्रमः अध्यापनोपकरणानां वितरणमेव आसीत्। लोकनीत्यनुसारं वेतनमधिकृत्या चर्चा एव प्रचलन्ति अन्येषाम् श्रमिकदलानां मेलने। किन्तु संस्कृताध्यापकाः अध्यापन-कौशलं वर्धयितुमुद्दिश्य बहूनि पाठनोपकराणि निर्मितानि। तानि एव अध्यापकमेलने वितरति च। आदर्शभूतानि प्रवर्तनानि कृतानि ते। कोट्टयम् कुमरनल्लूर् देवीविलासं विद्यालये आयोजिते मेलने राज्यस्तरीय आयोजकसचिवेन सनल् चन्द्रन् पुन्नाट् महाभागेन  ग्रीः01.16 Sanskrit On live नामिका चित्रमुद्रिका (DVD) युव साहितीपुरस्कारजेत्रिणे आर्याम्बिकायै दत्वा उद्घाटिता।

तेषां पाठनोपकरणानि
💿गीः .01.16 Sanskrit on live (DVD)
⭕Academic videos for UP classes. ⭕Sanskrit albums.⭕Amarakosam PDF and audio.
⭕Sanskrit Dictionaries.
⭕E-Books.
⭕Sanskrit related news & videos.
⭕Sanskrit posters.
⭕160 ayurveda related slides.
⭕Sanskrit related power  presentations. (Academic).
⭕Advertisement videos (Sanskrit).
⭕Sanskrit songs.


पदोन्नत्यै आरक्षणं नार्हताभवेत्- सर्वोच्चन्यायालयः।

नवदिल्ली > सर्वकारवृत्तिषु उन्नतस्थानं प्राप्तुम्  पट्टिकापरिगणितजाति - पट्टिकापरिगणितवर्गाणाम् विद्यमानारक्षणम् नानुवर्तनीयमिति सर्वोच्चन्यायालयः। विविधसर्वकारवृत्तिषु पट्टिकजातिवर्ग-विभागेभ्यः आनुपातिकं प्रातिनिध्यं न लभत इति परिदेवनं परिगणयन्नासीत्  न्यायालयः।

सूर्याघातेन पीड्यन्ते कर्मकराः

पालक्काट् (केरळम्) >भारतस्य विविधेषु राज्येषु सूर्यातपेन तापः वर्धितःI गतदिने  केरलस्य पालक्काट् जिल्लायां त्रयः सूर्याघातेन  दाहिताः। अतः कर्मकाराः मध्याह्ने  घण्डात्रयम् आतपात् दूरे भवितव्यम् इति स्वास्थ्यमन्त्रालयेन उद्बोधितम्।

Saturday, March 12, 2016


 उत्तरप्रदेशे वाहनदुर्घटना - सामाजिकः मृतः। 

लख्नौ> उत्तरप्रदेशराज्ये संपन्ने कार् यानदुर्घटनायां समाजवादी दलीयः नियमसभासामाजिकः द्वौ सुहृदौ च मृताः ।मन्त्रिवर्यस्य शिवपालयादवस्य पुत्रस्य विवाहानन्तरं प्रतिनिवृत्ते सति मोरादाबाद् जिल्लायां बिल्लारी मण्डलस्य प्रतिनिधिः मुहम्मद इर्फानः तस्य यानचालकः मित्रं च कालपुरीं गताः।

विजय् मल्या १८ तमे दिनाङ्के उपस्थातव्यः। 

नवदिल्ली - राष्ट्रात् पलायितः मदिराराजः विजय् मल्यः मार्च् १८ तमे दिनाङ्के  एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः पुरतः उपस्थातव्यः इति निर्दिष्टम्। किन्तु मया अवगूहनं न कृतम्, अन्ताराष्ट्रवणिक् इत्यतः राष्ट्रान्तरगमनं स्वाभाविकमिति मल्येन ट्विटर् माध्यमे लिखितम् ।

ए के आन्टणि , वीरेन्द्रकुमारः , सोमप्रसादः च राज्यसभासामाजिकाः भविष्यन्ति । 

अनन्तपुरी > ए के आन्टणिः एम् पि वीरेन्द्रकुमारः के सोमप्रसादः च केरलात् राज्यसभासदस्याः भविष्यन्ति। ह्यः नामनिर्देशपत्रिकासमर्पणे पूर्तीकृते पत्रिकान्तराणि न समर्पितानि। अतः मतदानविनियोगं विनैव ते त्रयः विजयिनः इति प्रख्यापयिष्यन्ते ।केरलात् त्रीणि रिक्तस्थानानि सन्ति ।
पञ्चदिनवयस्काय शिशवे 'पान्कार्ड् 'अलभत ।

पटना - बीहारराज्ये केवलं पञ्चदिनवयस्का बालिका पान् कार्डपत्रस्य स्वामिनी । पटना स्वदेशीयस्य कुमार् सजलस्य पुत्री आषी फेब्रुवरी २१ तमदिनाङ्के जनिमलभत । २६तम दिनाङ्के एव पान् कार्ड् पत्रमपि अलभत । राष्ट्रे न्यूनातिन्यूनतमे वयसि पान्कार्ड् लाभेन वैशिष्ट्यं प्राप्नोत्ययं शिशुः । जननात् परं सप्तमे दिने लब्धपत्रकः जय्पूर् स्वदेशीयः आर्यन् चौधरी आसीत् अद्यावधि इदं स्थानमलंकरोति स्म ।

Thursday, March 10, 2016

संस्कृतं विना मलयाळभाषायाः उन्नतिः न भविष्यति-संस्कृतछात्राः।


भाषापितुः जन्मगृहे सादरं संस्कृतछात्राः
मलप्पुरं (केरलम्) > मलयाळ भाषायाः पितुः तुञ्चत्त् रामानुजाचार्यस्य जन्मगृहं दृष्ट्वा  छात्राः विस्मिताः। वेङ्ङरा उपजिल्लायाः संस्कृत कौण्सिल् द्वारा आयोजिता  अध्ययनयात्रा भाषापितुः गृहदर्शनाय आसीत्। तत्र विद्यमानायां प्रदर्शिन्यां मलयाल भाषायाः कृते योगदानं कृतवतां महात्मनां चित्राणि लघु-जीवन-चरितानि च प्रदर्शितानि। प्रदर्शितानां सर्वानां महात्मनां सुचरिते ते संस्कृतपण्डिताः इति प्रमाणः दृश्यते। संस्कृतज्ञा: एव मलयालभाषाप्रवीणाः अभवन् इति प्रदर्शिनीतः ज्ञात्वा  छात्राः विस्मिताः।
भारतस्य गतिनिर्णयोपग्रहं भ्रमणपथं प्राप्तम् ।

चेन्नै > भारतस्य षष्ठं गतिनिर्णयोपग्रहं ऐ आर् एन् एस् एस् - १ एफ् भ्रमणपथं प्राप्य प्रवर्तनम् आरब्धम् । पि एस् एल् वि - सि ३२ इति विक्षेपणवाहनेन उपग्रहं लक्ष्यस्थानं नीतम् ।
विक्षेपणदौत्यस्य विजये प्रधानमन्त्री नरेन्द्रमोदी शास्त्रज्ञान् अभिनन्दितवान् ।
तमिल् नाडुराज्ये श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशगवेषणकेन्द्रात् ह्यः अपराह्ने उपग्रहं विक्षिप्तम्। स्थलजलाकाशमार्गेभ्यः सञ्चारेभ्यः साहाय्यं प्रददाति इति गतिनिर्णयोपग्रहाणां प्रधानदौत्यम् ।

सौद्यां जंगमदूरवाणीमण्डले अपि 'निताखत् ' नियमः।

कोच्ची > सौदीराष्ट्रे जंगमदूरवाणीवाणिज्यरंगे 'निताखत्' इति स्वदेशीवत्करणानुशासनं प्रवृत्तिपथमागच्छति जंगमदूरवाणीनां विक्रयः ,  सम्यगीकरणम् इत्यादिषु मण्डलेषु पूर्णतया स्वदेशिवत्करणमेव लक्ष्यम् । षण्मासाभ्यन्तरे एतन्मण्डलस्थान् विदेशीयान् अपाकर्तुं सौदी कर्ममन्त्रालयस्य निर्देशः अस्ति । यदि अनुशासनं प्राबल्यं भविष्यति तर्हि दशसहस्रशानां विशिष्य केरलीयानां  वृत्तयः नष्टाः भविष्यन्ति । यतः जंगमदूरवाणीवाणिज्यमण्डले ९०% भारतीयाः वृत्तिं कुर्वन्तः सन्ति। तेषु अर्धसंख्याधिकाः केरलीयाः च ।
यु.ए.इ राष्ट्रे अतिवृष्टिः

दुबाय् > वर्षाकालस्य जलसमृद्धिमुत्पादयन् यू.ए.इ राष्ट्रेषु सर्वत्र वृष्टिः। अबुदाबि, दुबाय्,षार्ज नगरेषु विद्युल्लतया सह पतितः वृष्टिः महान् क्लेशः उत्पद्यत। प्रवाहः स्तगितः इत्यनेन यानानां गमनागमनः स्तंभितः। प्रातः पञ्चवादनात् पूर्वं वृष्टिरारब्धा। अत एव कार्यालयेषु विद्यालयेषु च गन्तुं जनाः क्लेशिताः



अपराधिनाम् अवगूहनं निरोद्धुं बीहार् सर्वकारः ।


पट्ना - राज्ये संसद्सामाजिकसहिताः प्रजाः अपराधं कृत्वा अवगूहनप्रवणतां निरोद्धुं तादृशानां द्रव्याणि स्वायत्तीकर्तुं नितीष् मार्  सर्वकारस्य निश्चयः फलप्राप्तिमधिगच्छति । सप्ताहद्वयाभ्यन्तरे १२ अधिकानां निष्ठुरापराधिनां कोटिशः रूप्यकाणां सम्पदः सर्वकाराधीनतां प्राप्ताः ।
नवाड् मण्डलात् सामाजिकः राबरीदेवीमन्त्रिसभायां भूतपूर्वमन्त्री च राजवल्लभः यादवः एव अन्तिमत्वेन क्रियाविधिविधेयः जातः । अपराधिनः कियन्तः प्रमुखाः भवन्तु परिरक्षा न भवन्ति इति सन्देशं दातुं नितीष् वर्यस्य सर्वकारः प्राप्तः अभवत् ।अतः संघटितापराधाश्च न्यूनीकृता इति सर्वकारवृत्तैः उक्तम् ।

भारतं विरुद्ध्य पाक् स्थानीय भीकरदलानाम् आक्रमणः वर्धितः।

नवदिल्ली> भारतं विरुद्‌ध्य पाकिस्थाने विद्यमानानां भीकर-दलानाम् आक्रमणः वर्धितः इति भारत सर्वकारः। एता दृशान् सङ्घान् निरोद्धुं  यू.एन् प्रति न्य वेदयिष्यते इति विदेशकार्य सहमन्त्रि: विके सिंहः लोकसभायाम् अवदत्‌। पाक् भीकरप्रमुखाः हाफिस् सय्यिद्, सक्कियूर् रह्मान् लख्वी प्रभृतीनां नाम उद्‌धृत्य विशदतयाआसीत् भाषणम् ।

मेत्रान् तटाक-कटमक्कुटि विवादादेशौ प्रतिनिवर्तितौ।

अनन्तपुरी>कोट्टयं जिल्लायां मेत्रान् तटाकं एरणाकुलं जिल्लायां कटमक्कुटी व्रीहीकेदारं च मृत्तिकया पूरयितुम् अनुमतिं दीयमानौ केरलसर्वकारस्य आदेशौ प्रतिनिवर्तितौ। निर्वाचने समीपमागते आदेशौ विवादाय कारणीभूतौ इत्यतः एव निराकरणस्य आधार इति मुख्यमन्त्रिणा उक्तम् ।

केरले नूतनं राजनैतिकदलं रूपवत्कृतम्।

कोच्ची > केरले जनाधिपत्यकेरलाकोण्ग्रस् इति नाम्नि नूतनं राष्ट्रियदलं रूपवत्कृतम् ।के एम् माणि वर्यस्य केरलकोण्ग्रस् --एम् दलात् बहिरागतवन्तः विमतनेतारः अस्य दलस्य रूपवत्करणे भागभागित्वं कृतवन्तः । फ्रान्सिस् जोर्ज् वर्यः अध्यक्षः भविष्यति । दलस्य रूपवत्करणसम्मेलने डो. के सि जोसफः, अड्व. आन्टणि राजुः, पि सि जोसफः इत्यादयः नेतार अपि सन्निहिताः आसन् ।

Wednesday, March 9, 2016

लघु संस्कृत-चलन-चित्राणि जायान्ते।
नीतिष् गोपिवर्यस्य द्वितीयं चलनचित्रम् अन्नदाता प्रकाश्यते अद्य सामोदम्।



अद्य सूर्यग्रहणम् । भारते भागिकतया।


नव दिल्ली> अद्य भागिकतया भारते सूर्यग्रहणं द्रष्टुं शक्यते। बुधवासरे प्रभाते भारतस्य उत्तरपूर्वभागेषु ग्रहणं द्रष्टुं शक्यते। चन्द्रग्रहणमपि भविष्यति। इन्तोनेष्यायां पसफिक्समुद्रस्य विविध भागेषु च पूर्णतया सूर्यग्रहणम् द्रष्टुं शक्यते। ४.४९ वादनतः ग्रहणस्य आरम्भः। दिल्ल्यां६.४० वादने ४ मिनिट्ट् काल दैर्घ्ये सूर्य ग्रहणं द्रष्टुं शक्यते। २०१९ तमे दिसंबर् मासे २६ दिनाङ्के एव समीपस्थं सूर्यग्रहणम्।




भविष्यनिधेः करः प्रतिनिवर्तितः।

नवदिल्ली > कर्मकराणां भविष्यनिधेःधनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण प्रतिनिवर्तितः। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः आसीत्। अतः धनमन्त्रिणा अरुण् जेट्ली महाभागेन निर्देशः प्रतिनिवर्तितः I  समयेfस्मिन् राष्ट्रिय-विरमितकालधनार्जनयोजनायां (NPS) करः न भवेत् इति च तेन महाभोगन उक्तम्।

Tuesday, March 8, 2016

ऐ.एस्. विरुद्ध्य बि.५२ यु५२ युद्धविमानम्

वाषिङ्‌टण् > ऎ.एस् विरुद्‌ध्य युद्धं शक्तीकर्तुम् आणवशेषियुक्तः बि-५२ युद्धविमानानि उपयुज्य महता विस्फोटकेनआक्रमणं कर्तुं यू.एस् राष्ट्रेण निश्चितम्। एप्रिल् मासात्‌ आरभ्य आक्रमणम् आरप्स्यते। कति विमानानि आक्रमणे भागभाजः भविष्यन्ति इति तैः नोक्तम्।

उच्चन्यायालयानां न्यायाधिपानां नियुक्तेः मानदण्डः कौशलं, सत्यनिष्ठता च भवितव्यम्।

नवदिल्ली > राष्ट्रेषु उच्चन्यायालयानां नियुक्तेः मानदण्डः कौशलं सत्यनिष्ठता च परिगण्य भवितव्यम् इति केन्द्रसर्वकारः। सेवनकालप्रौढतां परिगण्य एव नियुक्तिः  मा भवतु इति केन्द्रविदेशकार्यमन्त्रिणी सुषमा स्वराजस्य नेतृत्वे आयोज्यमाना केन्द्रीयमन्त्रिसभा-समित्या समर्पितायां लघुनिदेशपत्रिकायां व्यक्तीक्रियते। न्यायाधिप-नियुक्तिमधिकृत्य अभिमतानि प्रकाशयितुम् उच्चतर न्यायालयस्य न्यायाधिपेन केन्द्रसर्वकारः आदिष्टः आसीत्।

Monday, March 7, 2016

१० भीकराः भारते । महती जाग्रता ।

नवदिल्ली>पाकिस्तानात् १० भीकराः भारतं प्राप्ताः इति गुप्तान्वेषणसूचनामनुसृत्य गुजरात् राज्ये दिल्यां च महान् जाग्रतानिर्देशः कृतः ।
  लष्कर् ई तोय्बा , जय्षे मुहम्मद् भीकराः कच् प्रविश्याद्वारा गुजरात् राज्यं ततः दिल्लीं च प्रविष्टाः इति सूचनां पाकिस्तानस्य सुरक्षोपदेष्टा निवृत्तः लफ्. जनरल्  नसीर् खान् जनूजावर्य एव भारतस्य देशीयसुरक्षोपदेष्टारं अजित् डोवलं प्रति विज्ञापितवान् । कच्च् प्रदेशे कोटेश्वरसमुद्रतीरे उपेक्षिता कापि नौका तीर सुरक्षासैन्यस्य दृष्टिमागता आसीत्। भारते शिवरात्र्याघोषस्य कालः इत्यतः प्राक्सूचना अतीव गौरवं सम्पद्यते ।

कलाभवन् मणिः दिवंगतः।

कोच्ची> केरळस्य सुप्रसिद्धः चलच्चित्रनटः कलाभवन् मणिः ( ४५) कोच्चीनगरस्थे आतुरालये दिवंगतः। यकृत्संबन्धरोगस्य चिकित्सायामासीत्।
हास्यनटरूपेण आरभ्य स्वभावनटः नायकः इत्यादिवेषैः अभिवृद्धिं प्राप्य प्रतिनायकवेषपर्यन्तं ह्रस्वकालेन मलयालं विना तमिल् तेलुगू भाषाचित्रेषु अपि सः स्वनटनकौशलं प्रादर्शयत् । ग्रामीणगीतकानि स्वकीयशैल्या अवतार्य सार्वजनीनं कर्तुं तस्य अनन्यसाधारणं पाटवमासीत्।
कलाभवन् मणिवर्यस्य आकस्मिकमरणं कैरळीचलच्चित्रलोकस्य महान् नष्टः भवति।

Sunday, March 6, 2016

अद्य एकं क्षुद्रग्रहं भूमेः समीपतः गमिष्यति। 

वाषिङ्टण् > २०१३ टि. एक्स् ६८ इति क्षुद्रग्रहः एव भूदर्शनं कृत्वा गम्यमानं ग्रहं । २४००० कि.मी मितपर्यन्तेन दूरेन गम्यमानं ग्रहं भीतिः कदापि न उद्पाद्यते इति नासायाः गवेषकैः उक्तम्।

सर्वशिक्षा अभियानस्य केरलराज्यस्तरीय श्रेष्ठोत्सव चित्राणि
ऐन्द्रजालस्य साहाय्येन वेज्ञानिक-गणितशास्त्राध्ययनाय नूतना पद्धतिः।

अनन्तपुरी > केरळेषु सर्वशिक्षा अभियानेन वैज्ञानिक-गणितशास्त्रयोः अध्ययनाय ऐन्द्रजालस्य साह्येन नूतना पद्धतिः आविष्कृता। केरळ माजिक् अक्काडमि संस्थायाः सहकारितया एव इयं योजनायाः आविष्कारः। ऐन्द्रजालिकेन गोपिनाथ मुतुकाट् महाभागेन सर्वशिक्षा अभियानस्य श्रेष्ठोत्सवस्य सायन्तन कार्यक्रमेषु प्रख्यापिता। ह्यः रात्रौ अध्यापक-छत्रानां पुरतः ऐद्रजालप्रदर्शनम् कुर्वन्नासीत्‌ अयं महाभागः। सर्वशिक्षा अभियानस्य राज्यस्तरीय-योजनायाः निदेशकः डा. ई.पि.मोहन् दासः, राज्यस्तरीय-कार्याक्रम-निदेशकाः जिल्लास्तरीय निदेशकाः च अस्मिन् कार्यक्रमे भागभाजः आसन्।


भविष्यनिधिकरनिर्देशं निराकुर्यात्।

नवदिल्ली - कर्मकराणां भविष्यनिधेः प्रत्याहरणार्थं  करः दातव्यः इति आयकरनिर्देशं निराकर्तुं प्रधानमन्त्री नरेन्द्रमोदी वित्तमन्त्रिणं अरुण् जय्ट् लि वर्यं प्रति आदिशत् । राष्ट्रे सर्वत्र विविधकर्मकरसंघटनेभ्यः उन्नीतेन महता प्रतिषेधेनैव मोदीवर्यस्य निर्देशः जातः।


विंशतिवर्षाभ्यन्तरे बृहत्तर उपरोधेन ऐक्यराष्ट्रसभा।

न्यूयोर्क् >उत्तरकोरियायाः उपरि ऐक्यराष्ट्रसभया सुशक्तः उपरोधःप्रख्यापितः।विंशतिवर्षाभ्यन्तरे प्रथमतया एव ईदृशः एकः उपरोधः।आणवपरीक्षणे ऐक्यराष्ट्रसभयाः निर्देशाः न पालिताः इत्यस्मातेव उपरोधः कल्पितः। सभायाः अनुमतिं विना चतुर्थ अग्निबाणः विक्षेपितः उत्तरकोरिया इत्येतत् सभां प्रकोपितः।
अनेन निरोधनेन कोरियायाः विभिन्न मेखलासु अनेकाः समस्या भविष्यन्ति।  क्रयविक्रये कोरियायाः अवसराः न्यूनीभवति।
उत्तरकोरियायः वस्तूनि सुशक्तपरिशोधनया एव विक्रयणाय आपणेषु प्राप्य्सति।

Saturday, March 5, 2016

सर्वशिक्षा अभियानस्यश्रेष्ठोत्सवस्य समारम्भः

अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।



निर्वाचनकाहलम् अध्वनत्।

दिल्ली > भारते चतुर्षु राज्येषु एकस्मिन् केन्द्रशासनप्रदेशेषु च जनविधेः दिनाङ्काः प्रख्यापिताः । केरलं तमिल् नाट् पश्चिमबंगाल् आसाम् इत्येतेषु राज्येषु पोण्टिच्चेरि केन्द्रशासनप्रदेशे च ८२५ मण्डलेषु निर्वाचनं भविष्यति । असमराज्ये एप्रिल् ४, ११ दिनाङ्कयोः सोपानद्वयेन निर्वाचनं भविष्यति ।बंगालराज्ये एप्रिल् ४ आरभ्य मेय् ५ पर्यन्तं सोपानषट्केन ,केरले मेय् १६ दिनाङ्के एकेनैव सोपानेन च निर्वाचनं भविष्यति ।

  विद्यालयेषु २२० अध्ययनदिनानि निश्चयेन भावितव्यानि उच्चन्यायालयः।

कोच्ची > केरले विद्यालयेषु आगामि अध्ययनवर्षादारभ्य २२०  साध्यायदिनानि लभ्यमानानि भवितव्यानि इति केरल उच्चन्यायालयेन आदिष्टम्।
केरलस्य शैक्षिकव्यवस्थायां तथा केन्द्रीय विद्याभ्यासाधिकारनियमे च निष्कर्षा अस्ति। तदनुसृत्य आगामी वर्षादारभ्य  मेला - मूल्यनिर्णयादिषु क्रमीकरणम् आवश्यकमिति  न्यायाधीशेन विनोदचन्द्रेण आदिष्टम्।

संस्कृतकृतीनां संरक्षणाय श्रीशङ्कराचार्य विश्वविद्यालये नूतनपद्धतिः। 


कालटी >शैक्षणिकश्रेष्ठतायै अग्रिमस्थानं दत्वा संस्कृतभाषाविकासाय विविधाः पद्धत्यः आसूत्रणं क्रियन्ते कालटी श्री शङ्कराचार्य संस्कृतविश्वविद्यालयेन । प्रचाल्यमानवर्षस्य आयव्ययपत्रके भाषापोषणाय बह्व्यः पद्धत्यः सन्ति। 
केरलेषु विद्यमानानां संस्कृतकृतीनां संरक्षणाय * ई डाटा बेङ्क् * रूपवत्करिष्यति । एतदर्थम् आयव्ययपत्रके धनव्यवस्था अस्ति । 
    संस्कृतपोषणाय निर्दिष्टमानाः इतराः पद्धत्यः । प्राचीनसंस्कृतग्रन्थान्  छात्राणां  सामान्यजनानां च उपयोगार्थं  व्ववस्थां  करिष्यति । श्रेष्ठकृतीनां प्रलेखनं कृत्वा संरक्षिष्यति । विद्योचितकर्ममण्डलस्य कार्यक्षमतां दृढीकर्तुं तथा उत्कर्षयितुं च निरीक्षणसमितिं रूपवत्करिष्यति । विश्वविद्यालयस्य प्रादेशिककेन्द्राणि श्रेष्ठत्वप्राप्तिम् अवाप्स्यन्ति। तिरुवनन्तपुरं , तिरूर् , पय्यन्नूर् प्रादेशिककेन्द्राणि गवेषणकेन्द्ररूपेण उद्धरिष्यति । 
  संस्कृतभाषाव्यापनाय प्रादेशिकशासनसमितीनां सहकरणेन संस्कृतपठनपद्धतिः आयव्यपत्रके निर्दिष्टा अस्ति । पन्मना, एट्टुमानूर् केन्द्रयोः संस्कृतं जनरल्  संस्कृतं साहित्यं बिरुदपाठ्यपद्धतीसहिताः नूतनाः पाठ्यपद्धत्यः निर्दिष्टाः । इदानीं प्रचाल्यमानानि निर्माणप्रवर्तनानि पूर्तीकरिष्यन्ति। 
  १८३.५८ कोटिरूप्यकाणाम् आयः १९६.५० कोटिरूप्यकाणां व्ययः १२.९२ कोटिरूप्यकाणां न्यूनतां च प्रदर्शकं पत्रकं आर्थिकसमित्यध्यक्षः डो एड्वेर्ड् एडेष़त् वर्येण अवतारितम् । विश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः अध्यक्षः अभवत्।

 मार्टिन् क्रो दिवंगतः

वेल्लिङ्टण् - लोकोत्तरक्रिकट्  क्रीडकेषु अन्यतमः न्यूसिलान्ट् राष्ट्रस्य भूतपूर्वः क्रिकट्नायकः मार्टिन् क्रो वर्यः ( ५३ ) अर्बुदरोगबाधया निर्यातः। दृक्साक्षिविवरणकर्ता  क्रीडालेखकः उपदेशकः इत्यादिरूपेण स्वस्य प्रागत्भ्यं प्रदर्शितवान्। क्रिकट्क्रीडा समयहन्त्री इत्याक्षेपं परिहर्तुं २० - २० इत्याशयः अनेनैव आविष्कृतः। स्वराष्ट्राय क्रीडितासु ७७
निकषस्पर्धासु १७ शतकानि १८ अर्धशतकानि, तथा १४३ एकदिनेषु ४ शतकानि ३४ अर्धशतकानि च तस्य क्रिकेट जीवने भूषणानि अभवन् ।


 प्रवहद्विश्वविद्यालयः कोच्चीतः निर्गतः। 

कोच्ची >छात्रैः अध्यापकैश्च सहितं १००० परं जनैः अमेरिक्कातः शनिवासरे कोच्चीं प्राप्ता एम् वि वेल्ड् ओडीसी इति आडम्बरमहानौका प्रतिनिवृत्ता।
जनवरी ७ तमे दिने अमेरिक्कायां सान्डियागो नौकानिलयात् प्रस्थिता ओडीसी जप्पान् चैना  वियट्नाम् सिङ्कपूर् बर्मा इत्येषां राष्ट्राणां सन्दर्शनानन्तपमेव भारते कोच्चीं प्राप्ता। यात्रिकाः अत्र  विविधराज्येषु सन्दर्शनं कृत्वा  तत्रस्थेषु सामाजिकाचारादिषु अवबोधं लब्धवन्तः।

Friday, March 4, 2016

 भारतस्य रेल्यानविभागस्य अन्तर्जालः नाशितः।

नवदेहली> भारतस्य  अतिशक्तस्य ऱेल्यानविभागस्य रेयिल्नेट्  मैक्रोसायिट् इति विख्यतस्य अन्तर्जालस्यैव भग्नः आदङ्गवादिभिः कृतः।जिगाद्मध्यॆ भागभागित्वं ऊढुं तैः सन्देशमपि तत्र स्थापितमासीत्।
अमेररि्कायाः तथा  सख्यकक्षीणां  च पराजयाय  साहाय्यमपि ते प्रार्थिताः।सर्वकारस्याधीने विद्यमानस्यैकस्य अन्तर्जालस्य नाशः अल्खायिदादलैः प्रथमतया  क्रीयते।

बङ्गुलूरु नगरे कर्षित्रत्वेन ( tractor)कर्षकानां भिन्नान्दोलनम्।

बाङ्गलूरु>बाङ्गलूरु नगरे नूतनान्तोलनशैल्या कृषकाः। कर्षित्वेन बाङ्गुलूरु नगरे केचन कृषकाः ह्यः मार्गान् स्तम्बिधाः। जलक्षामस्य स्वागत परिहारः आवश्यकः इत्युक्त्वा कोलार्,चिक्बल्लापूर् मण्डलेभ्यः आगताः शताधिकाः कृषकाः स्व यानेन कर्षित्रत्वेन प्रधानमार्गान् निश्चलिताः। यानानि नगरात् बहिर्स्थापयितुं आरक्षकैः कृते परिश्रमे कोलाहलः जातः। कृषकाणां नूतनान्तोलनम् अद्य बहुचर्चमाणः विषयः। कोलार् चिक्बेल्लापूर् इत्यनयोः मण्डलयोः जलक्षामस्य उचित परिहारः शीघ्रमेव भवेत् इति कथ्यमानाः शताधिकाः कृषकाः कार्यक्रमे अस्मिन् भागम् ऊढवन्तः।

जे एन् यू तथा छात्रसमाजं प्रति उच्चन्यायालयस्य विमर्शः।

नवदिल्ली - जेएन् यू छात्रनेतुः कनय्यकुमारस्य प्रतिभूत्यनुमति आदेशपत्रे सर्वकलाशालां तथा छात्रसमूहं प्रति उच्चन्यायालयस्य विमर्शः। जे एन् यू अङ्कणे श्रुतानां देशविरुद्धघोषणानाम् आधारभूतानां चिन्तां कार्यक्रमे भागभाक्तृृणां मनोभावं च मौलिकाधिकारस्याधारे संरक्षितुं  न शक्यते इति न्यायालयेन व्यक्तीकृतम्। कलालयाङ्कणेषु संवर्धमाने देशविरुद्धमनोभावे  न्याय.प्रतिभाराणी वर्यायाः अध्यक्षत्वेन न्यायासनेन आशङ्का प्रकाशिता ।

Thursday, March 3, 2016


 कार्षिक - ग्रामीण आधारमण्डलेभ्यः आयव्ययपत्रकम्

 नवदिल्ली> कार्षिक ग्रामीणमण्डलेषु आधारविकासाय प्राधान्यं दीयमानं भारतस्य आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जय्ट् ली वर्येण लोकसभायाम् अवतारितम्। कार्षिकमण्डलस्य प्रगत्यर्थं कर्षकक्षेमाय च गतवर्षमपेक्ष्य द्विगुणितभागः विहितः। पञ्चसंवत्सरैः कृषकानाम् आयं द्विगुणीकर्तुम् आयव्ययपत्रके विभावनमस्ति। किन्तु सामान्यानां करदायकानाम् आश्वासः न लभते । आयकरस्य अनुपाते अपहारे च परिष्करणं प्रतीक्षितं चेदपि नाभवत्।

केरले कण्णूर् विमाननिलये परीक्षण उड्डयनं संवृत्तम्।

कण्णूर् > केरले कण्णूर् अन्ताराष्ट्र विमाननिलये  प्रथमं परीक्षण उड्डयनं सम्पन्नम्। व्योमसेनायाः डोणियर् द्वे द्वे अष्ट इति विमानं उड्डयन परीक्षणमकरोत् । यात्राविमानं सप्तंबर् मासे कण्णूर् निलये अवतरिष्यति इति सम्मेलनम् उद्घाटनं कुर्वन् मुख्यमन्त्री उम्मन् चाण्टी अवदत्।

तेलङ्कानसीमायां ८ मावोवादिनः हताः।

हैदराबाद् - तेलङ्कान- छत्तीस्गड् सीमायां वनप्रदेशे ८ मावोवादिनः सविशेषदौत्यसेनया गोलिकाशस्त्रेण हताः । निहतेषु ५ महिला अन्तर्भवन्ति। तेलङ्कानायां खम्मं जिल्लासमीपं चिन्तवाड कानने एव इयं घटना ।
कानने मावोवादिनः सम्मिलन्तीति गुप्तसूचनामनुसृत्य आरक्षकविभागस्य ग्रेहण्ट् नामिका मावोविरुद्धसेना काननं प्राप्य संघट्टनम् अकरोत्।

 कनय्याकुमारस्य प्रतिभूतिः लब्धा।

नवदिल्ली - देशद्रोहारोपणविधेयः जे एम् यू छात्रनेता कनय्यकुमारः दिल्ली उच्चन्यायालयात् षण्मासानां प्रतिभूतिं लब्धवान्।फेब्रुवरि १२ तमदिनाङ्के गृहीतस्य तस्य १९ दिनानन्तरमेव प्रतिभूतिः लब्धः । अन्वेषणसमाप्तिं यावत् देशविरुद्धसदृशप्रवृत्तिषु प्रत्यक्षतया परोक्षतया वा भागभागित्वं न कर्तव्यमिति न्यायालयेन आदिष्टम्।

अफ्गानिस्थाने भारतीय स्थानपति कार्यालयं प्रति आक्रमणं- ६ हताः।

काबूल् - अफ्गानिस्तान् देशस्य जलालाबाद् प्रविश्यायां  भारतस्य स्थानपतिकार्यालयं प्रति संवृत्ते भीकराक्रमणे षट् जनाः निहताः । तेषु चत्वारः भीकराः, ये सुरक्षासेनया हताः ।
स्फोटकवस्तुसंपन्नं कार् यानं स्थानपतिकार्यालयाङ्कणं प्रवेशयितुमुद्यमे स्फोटनं प्रवृत्तमासीत्। कार्यालयस्य वातायनानि द्वाराणि च स्फोटने विशीर्णानि।
मृतेषु एकः रक्षिपुरुषः अपरा तद्देशवासिनी महिला च  भवति ।आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम् ।

 सुमात्रद्वीपे महद्भूचलनं - सूनामी विज्ञप्तिः निराकृता। 

जकार्ता - इन्डोनेष्या राष्ट्रे सुमात्रा द्वीपे रिक्टर् मापिन्यां ७.८ अङ्कितं भूचलनं ह्यः सञ्जातम् । सुनामीजाग्रतानिर्देशः दत्तः अपि परं निराकृतः।
पडाङ् नगरात् ८०८ कि मी दक्षिणपश्चिमपार्श्वे २४ कि मी अगाधे एव भूकम्पनस्य प्रभवकेन्द्रम्। नाशनष्टानि अधिकृत्य सूचनाः व्यक्ततया न लब्धाः ।

Wednesday, March 2, 2016

विश्वस्य बृहदाकारकं व्यापारनगरं दुबाय् नगरे।

दुबाय् > दुबाय् नगरस्य कृते नूतना बृहत्तरा पद्वतिः आविष्कृता अस्ति। बृहदाकारकं निखिल-व्यापार-नगरम्। यू.ए.ई उपराष्ट्रपतिः, प्रधानमन्त्री तथा शासकः चअयं षेक् मुहम्मद् बिन् राषिद् अल्मक्त्तुं वर्येण पद्धतिः प्रख्यापिता।

पञ्चाशदधिक - पञ्चशत- लक्षं चतुरश्रपदे निर्मीयमानस्य नगरस्य त्रिंशत् ३० बिल्यन् दिर्हं व्ययः प्रतीक्ष्यते । दशवर्षाभ्यन्तरेण नगरनिर्मितिः भविष्यति। चतुर्भ्यः बृहत् भूखण्डेभ्यः पञ्चदशसहस्रं वणिज: अत्र भवेयुः। भारतीयानामपि अत्र अवसरः अस्ति। न केवलं मृत्तैलेन राष्ट्रपुरोगतिः शाक्यते। अतः आयः वर्धयितुं एतादृशः नूतनाविष्कारः अनिवार्यः इति हेल्सैल् सिट्टिं अवतार्य षैक्‌ मुहम्मदेन उक्तम्।

भविष्यनिधि आहरणे करः।, आदेशः पुनः परिशुध्यते। 

नवदिल्ली > कर्मकराणां भविष्यनिधेः धनाहरणवेलायां  निक्षेपस्य ६०% करविधेयं कर्तुं आयव्ययपत्रकनिर्देशः केन्द्रसर्वकारेण पुनःपरिशुध्यते। निर्देशं विरुध्य कार्मिकसंघानां प्रतिषेधः अजायत।इदानीँ भविष्यनिध्याहरणे कोपि करः न क्रियते। आयव्ययपत्रकनिर्देशं विरुध्य भारते सर्वत्र प्रक्षोभासूत्रणानि सम्पद्यन्ते।

कनय्यां विरुध्य दृश्यानि व्याजानि।

 नवदिल्ली > देशद्रोहापराधेन गृहीतं जे एन् यू छात्रनेतारं कनय्याकुमारं विरुध्य समर्पितेषु चलनदृश्येषु दृश्यद्वयं कृत्रिमेण निर्मितमिति  फोरन्सिक् आवेदनपत्रं बहिरागतम्। कनय्याकुमारस्य प्रतिभूति वि मुक्ति याचिकाश्रवणम् अद्य संपद्यते।
देशद्रोहापराधेन गृहीतौ उमर् खालिद् अनिर्बन् भट्टाचार्यौ १४ दिवसीयकारागारवासाय विहितौ ।