OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 31, 2018

जलपतितानां रक्षायै सहसा जलावगाहनं मा कुरु। 
 सहनिमज्जनेन मृत्युः स्यात्। तन्निवारयितुं मार्गाः।
मुरली तुम्मारुकुटि
(संभाव्यमानदुर्घटापन्न्यूनीकरणसंस्थायाः मुख्यः मुरली तुमारुकुडी संयुक्तराष्ट्रसमित्यां वातावरणसंरक्षणविभागे कार्यं करोति।) विशेषावेदनम्।     
             प्रतिसंवत्सरं विरामकाले बहवः बालकाः जले निमज्जनं कृत्वा मृताः भवन्ति। ग्रीष्मकालीनमध्यविरामवेलायां  साधारणतया बहवः निमज्जनेन मृताः इति आवेदनं प्रकाशितम् आसीत्I अतः प्रति ग्रीरीष्मष्विरामकालः मम भीतिकालः च। मुरली तुम्मारुकुटि स्वस्य मुखपुस्तिका द्वाार प्राकाशयत् । आगामि दिनानि एतादृशेन आवेदनेन सह आगमिष्यन्ति। वीथिदुर्घटनानन्तरं मरणसंख्यायां द्वितीयं स्थानं जलनिमज्जितदुर्घटनायाः एव।  जले निमज्जनेन मृतेषु  अधिकाः केरलेषु एव। प्रतिसंवत्सरं द्विशतोत्तरैकसहस्रं (१२००) जनाः मृताः भवन्ति। मार्गापघातनिधनम् अधिकृत्य गणना आरक्षकाणाम् अन्तर्जालपुटे अस्ति।  किन्तु निमज्जनेन मृतानां विषये प्रमाणीकृता रेखा नास्ति। सुरक्षा-निर्वहणमण्डलस्य कर्मकुशलताभावस्य प्रमाणमेतत् इति तेन संसूचितम्। एतदधिकृत्य संक्षिप्तविवरणमपि नास्ति। जनानां मार्गसुरक्षाबोधनं इव अस्मिन् विषये बोधयितुं कापि योजना नास्ति।  निवारणनिधिःइव नास्ति धनम्। 
            अतः बालकबालिकेभ्यः तेषां रक्षाकर्तृणां च जलसुरक्षाम् अधिकृत्य यथाकालम् उपदेशः  दातव्यः इत्यपि सः महोदयः वदति। १.अन्येषां जीवरक्षायै जलं प्रति कुर्दनं मास्तु। २. वस्त्राञ्जल द्वारा, दीर्धकाष्ठद्वारा रज्जु द्वारा वा रक्षाप्रवर्तनं करणीयम् । ३ रक्षाकर्तृभिः सह जलावतारणं भवतु ४.अपरिचिते जले कदापि मा गच्छतु ।
५ जलतरणं  पाठयतु बालकान्। विराम कालः एतदर्थं उपयुज्यताम् । (आवेदनं - मुख पुस्तिकात)

Friday, March 30, 2018

वित्तकोशान् विरुद्ध्य सामूहिकमाध्यमद्वारा प्रतिषेधः ।
कोच्ची> एप्रिल्मासस्य षष्टे दिनाङ्के वित्तकोशाद्वारा धनविनिमयः मा भवतु इति जनानां पुरतः निवेदनं सामूहिक माध्यमेषु प्रचलति। सेवनस्य कृते  शुल्करूपेण धनं दातव्यम् इति  न्यायः एव। किन्तु किमपि सेवनं विना  शुल्कं  वित्तलेखात् बलात् स्वीक्रियते इत्येव जनानां प्रतिषेधस्य कारणम्।  धनग्रहणाय धनप्रदानयन्त्रे (ए टि एम्) कार्ड् उपयुज्य धनस्वीकरणाय प्रयत्ने कृते सति यन्त्रे धनं नास्ति इति लिखित्वा प्रदर्शयति। तदर्थं त्रयोविंशति रुप्यकाणि वित्तलेखात् स्वीकरोति तत्र न्यायः कः इति पृच्छति सामूहिक-सन्देशे। अस्माकं धनं वित्तलेखे अस्ति, किन्तु धनप्रदानयन्त्रे विनिमयाय रुप्यकपत्राणि नास्ति चेत् जनाः किमर्थं शुल्कं दातव्यम्  इत्यपि सन्देशे पृच्छति। शतंजनाः तं यन्त्रम् उपयुज्यते चेत् वित्तकोशाय त्रिशतोत्तर द्विसहस्रं रुप्यकाणि यत्नं विना लभन्ते। इतोप्यधिकं श्रेष्ठत्वं रथ्यायाः तस्करस्य एव इति सन्देशो उपहासं कुर्विन्ति। यन्त्रे विविधसंख्याकानां रुप्यकपत्राणि नास्ति चेत्  आदेशानुसारं धनविनिमयाय यन्त्रः न प्रभवति।  तादृशनिष्फल-विनिमय-प्रयत्नाय  शुल्कं वित्तलेखात् बलात् स्वीकरोति। त्रिवारादधिकं धनग्रहणाय शुल्कं, वित्तलेखे निर्दिष्टधनाभावे धनदण्डः । धनग्रहणं  मास्तु इतिचिन्तयति चेत् विनिमयाभावस्य कृते अपि दण्डः।  एवं पुरतः गच्छति सति डिजिट्टल् इन्ट्या कथं शोभनं भविष्यति।
           उपर्युक्तान् अन्यायप्रकमान् विरुद्ध्य एव जनानां प्रतिषेधः।  जनानुकूलप्रक्रमः वित्तकोशाधिकारिभ्यः नास्ति चेत्  २५, २६, २७ दिनाङ्केषु अपि वित्तकोशद्वारा  आर्थिकविनिमयः मास्तु इति  सन्देशे निर्दिशतिI  इदानीं सन्देशस्य प्रसारः सामूहिक माध्यमेषु अति विपुलया रीत्या प्रचलति।
जिसाट्ट् - ६ ए विक्षिप्तःI 
              चेन्नै> उपग्रहाधिष्ठित जङ्गम-वार्ताविनिमय-मण्डलाय शक्ति स्रोतोरूपेण वर्तमानाय भारतस्य नूतनवार्ता विनिमयोपग्रहः जिसाट्ट् ६ ए इति नामाङ्कितः विक्षिप्तः। श्रीहरिकोट्टातः सतीष् धवान् बाह्याकाश-निलयस्य द्वितीये  विक्षेपण-प्राकार-धरणीतः आसीत् विक्षेपणम्। जङ्गम-वार्ताविनिमय-रङ्गेषु इदानीं   भारतेन २०१५ तमे  विक्षिप्तं जि साट्ट् ६ अश्रित्य गम्यते। नूतनः  जि साट्ट् ६ ए इत्यस्य विक्षेपणेन अतिनूतना प्रौद्योगिकी विद्या एव लक्षीक्रियते। पञ्चम वंशश्रेणिका ततः श्रेष्ठा वा विद्या एव राष्ट्रेण उद्दिश्यते। सैन्यस्य कृते साहाय्यकं 'हाँ रेडियो' सुविधायै साहाय्यकं प्रौद्योगिकी विद्यालाभः य अनेन विक्षेपणेन लक्षीक्रियते।
प्रश्नपत्ररहस्यताभङ्गः-परिशीलनकेन्द्राधिकारी परिपृष्टः।
      नवदिल्ली > सि बि एस् ई संस्थायाः दशम द्वादशीयकक्ष्ययोः प्रश्नपत्रावपतनस्य पृष्टभूमिकायां दिल्लीस्थस्य परिशीलनकेन्द्रस्य अधिकारीति सन्देहः। रजीन्दर् नगरे प्रवर्तमानस्य परिशीलनकेन्द्रस्य स्वामी विक्कीनामकः आरक्षकैः परिग्रहीतः परिपृष्टश्च। परिशीलनकेन्द्रस्य समीपस्थौ विद्यालयौ अपि अस्मिन् विषये सन्देहितौ जातौ।

Wednesday, March 28, 2018

अग्निसायकविद्यायां स्वयं पर्याप्तं भविष्यति भारतम्।
          नवदिल्ली> संवत्सरद्वयाभ्यन्तरेण अग्निसायक साङ्केतिक-विद्यायां भारतं पर्याप्तताम् अवाप्स्यते। डिफन्स् आन्ट् डवलप्मेन्ट् दलस्य  क्षमतापूर्व प्रयत्नेन सायक निमाणाय धनव्ययः प्रतिशतं पञ्चित्रिंशत् (३५) तः चत्वारिंशत् (४०) पर्यन्तं न्यूनं भविष्यति। NDA सर्वकारस्य शासनप्राप्तिकाले प्रतिरोधानुसन्धान संस्थां प्रति अवदत् यत् २०२२ वर्षेभ्यः पूर्वं अग्निसायक निर्माणविद्यायां स्वाश्रयत्वं   भवतु इत्यासीत्। किन्तु वर्षद्वयात् पूर्वं लक्ष्यप्राप्तिः भविष्यति। 
         ब्रह्मोस् इति शब्दातिवेग योधन-सायकस्य विक्षेपणेन विजय प्राप्तिः इति भारतस्य महान् लाभय, एव। स्वदेशीया रीत्या निर्मिता 'सीक्कर्' नाम सायकनियन्त्रण-संविधानमेव ब्रह्मोस् सायके उपयुक्तम्l अतः रष्याराष्ट्रस्य सीक्कर् संविधानम् इतः आरभ्य न आवश्यकम्। अत एव पञ्चाशत् कोटि आरभ्य विंशतिकोटि पर्यन्तं रुप्यकाणां व्ययः न्यूनः भविष्यति।
जीवनसहभोगिनः चयनं नैसर्गिकाधिकारः - सर्वोच्चन्यायालयः। 
        नवदिल्ली > स्वेच्छानुसारं जीवनधर्मसहभोगिनं निर्णेतुं परिणतवयस्कस्य व्यक्तेः नैसर्गिकाधिकारः अस्तीति भारतस्य सर्वोच्चन्यायालयेन विहितम्। पाकवयस्कयोः द्वयोः परस्परपरिणयाय परिवारस्य समाजस्य वा अनुमतिः नावश्यकीति  मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन स्पष्टीकृतम्। दुरभिमानहत्यायाः संरक्षणं याचितया 'शक्तिवाहिनी' नामिकया सन्नद्धसंस्थया समर्पिताम् अभियाचिकामनुसृत्य एवायं विधिः।  परिणतवयस्कस्य मिथुनस्य विवाहे 'खाप् ग्रामसभायाः वा इतरजनसमुदायस्य वा व्यवहारः नीतिविरुद्धः इति न्यायालयेन विहितम्।

Tuesday, March 27, 2018

कर्णाटके निर्वाचनं मेय् १२दिनाङ्के। 
        नवदिल्ली > कर्णाटकराज्ये विधानसभानिर्वाचनं मेय् मासस्य द्वादशतमदिनाङ्के भविष्यति। पञ्चदशतमदिनाङ्के मतगणना भविष्यति। कर्णाटके आहत्य विद्यमानेषु २२५ विधानसभामण्डलेषु एकेनैव सोपानेन निर्वाचनं विधास्यति । निर्वाचनाय विज्ञापनं एप्रिल् १७ तमे दिनाङ्के उद्घोषयिष्यते। सर्वेषु मतदानकेन्द्रेषु 'विविपाट्' यन्त्रस्य साहाय्येन मतदानं विधास्यति।

Monday, March 26, 2018

"डोक्लाम् - यत्किमपि सम्मुखीकर्तुं भारतं सिद्धते"- रक्षामन्त्रिणी। 
           डराडूण् >  चीनाराष्ट्रेण सह अस्वारस्यकारणभूते डोक्लाम् सीमाप्रदेशे यां कामपि अवस्थां सम्मुखीकर्तुं भारतेन सिद्धमिति रक्षामन्त्रिणी निर्मलासीतारामन् महाभागा उक्तवती। जागरूकमस्मद्बलं सीमारक्षणं करिष्यतीति दृढनिश्चयः तया प्रकाशितः। 
       राष्ट्रस्य सैन्यम् आधुनिकीकर्तुं प्रयत्नः प्रचलति। विदेशकार्यमन्त्रिण्यः सुषमास्वराजः आगामिमासे प्रधानमन्त्री नरेन्द्रमोदी जून् मासे च चीनासन्दर्शनं करिष्यति ।
वाहनानि आधारपत्रेण सह बन्धितुम्  ओलोच्यते।
       कोच्ची > सर्वाण्यपि वाहनानि स्वामिनाम् आधारपत्रेण सह बन्धितुम् आलोच्यते केन्द्र आभ्यन्तरमन्त्रालयेन। एतत् अधिकृत्य अध्ययनाय नियुक्तया समित्या कृतनिर्देशमनुसृत्य भवति अयम् उद्यमः। राष्ट्रस्य सकलानां वाहनानां विवरणानि सञ्चयितुं केन्द्रीकृतसंविधानानि आवश्यकानि इति समितेः निर्देशेषु मुख्यः। अस्य सम्पूर्णफलप्राप्तये आधारपत्रेण सह बन्धनम् आवश्यकम्। अधुना वाहनानां विवरणानि राज्यस्तरेषु एव सन्ति। यन्त्रयाननियमस्य एकीकरणेन आराष्ट्रे वाहनानां पञ्चीकरणे अप्रत्यक्ष-यानानां प्रत्यभिज्ञाने च त्वरितफलप्राप्तिः भविष्यति इति समितिना निरीक्षितम्।
पाकिस्थानाय चीनस्य नवीना अग्निसायक-पथक्रमीकरणसुविधा ।
          नवदिल्ली> नूतना अग्निसायक-पथनिर्णयविद्या चीनेन पाकिस्थानाय प्रदत्ता इति आवेदनम्। पाक् सैन्यस्य शक्तीकरणं लक्षीकृत्य एव चीनः आयुध साहाय्यं करोति इति सौत् चैना मोर्णिङ् पोस्ट् पत्रिकया आवेदितम्। चैनीस् अक्कादमि ओफ् सयन्स् संस्थायाः वक्तारं उद्धृत्य एव आसीत् आवेदनम्। नूतनसाङ्केतिकविद्यायै पाकिस्थानेन कति व्ययीकृतम् इति स्पष्टं न। इमां सुविधां उपयोक्तुम् आरब्धं पाकिस्थानेन इति आवेदने अस्ति।
          विश्वस्य प्रप्रथम शब्दातिवेग सायकस्य 'ब्रह्मोस्' नामकस्य परीक्षित विजयस्य ज्ञापनदिने एव नूतनस्य चैनापाक् बान्धवस्य वार्ता बहिरागता। भारतेन निर्मितस्य भूखण्डान्तर अग्निसायकस्य पञ्चमस्य परीक्षण-विक्षेपणानन्तरं मासद्वयम् अतीत्य आसीत् चीनस्य उपर्युक्त संविधानस्य प्रदानम्।

Sunday, March 25, 2018

'केम्ब्रिज् अनलटिक्का' कार्यालयेषु आवेक्षणं संवृत्तम्। 
   लण्टन् > पञ्चकोटि 'फेस् बुक्' उपयोक्तृतॄणां वैयक्तिकसूचनाः अपहृताः इत्यस्मिन् विषये दत्तांशशोधनसंस्थायाः केम्ब्रिज् अनलटिक्का नामिकायाः लण्टनस्थेषु कार्यालयेषु 'ब्रिटीष् एन्फोर्स्मेन्ट्' अधिकरिभिः आवेक्षणं कृतम्। आवेक्षणाय ब्रिटनस्य उच्चन्यायालयेन अनुज्ञा दत्ता आसीत्। 
   सप्तहोराः यावत् अन्वीक्षणम् अनुवर्तितम्। फेस्बुक् उपयोक्तॄतॄणां वैयक्तिकवृत्तान्तान् अपहृत्य अमेरिक्कन् राष्ट्रपतिनिर्वाचनम् अभिव्याप्य विश्वे सर्वेषु प्रमुखनिर्वाचनेषु मतदातॄन् वशीकर्तुम् उपयुक्तवन्तः इति प्रस्तावः एव केम्ब्रिज् अनलटिक्कां विवादास्पदाम् अकरोत्।
केरलीययुवकान् ऐ एस् प्रति नीतवती इत्यस्मिन् विषये यास्मिन् मुहम्मद् इत्यस्यै सप्तवर्षाणां तीक्ष्णकारागारवासः।
        कोच्ची > केरलस्य कासर्गोड् स्वदेशीयान् १५ युवकान् इस्लामिक् स्टेट् [ऐ एस्] नामिकया भीकरसंस्थया  संयोज्य अफ्गानिस्थानं प्रति नीतवती इत्यस्मिन् व्यवहारे यास्मिन् मुहम्मद् नामिका सप्तवर्षाणां तीक्ष्णाय कारागारवासदण्डाय ऐ एन् ए सविशेषन्यायालयेन विहिता। केरलस्य ऐ एन् ए न्यायालयस्य प्रथमः विधिः भवत्येषः। कारागारवासेन सह २५,००० रूप्यकाणां धनदण्डनमपि विहितम्। 
        यास्मिन् अपराधिनीति राष्ट्रिय अन्वेषण विभागेन [ऐ एन् ए] निर्णीतमासीत्। यास्मिन् मुहम्मदस्य पतिः कासर्गोड् स्वदेशीयः अब्दुल् राषिदः अस्ति अस्मिन् व्यवहारे प्रथमा अपराधी। सः अफ्गानिस्थानं प्रति पलायनं कृतवान् स्यात् इति अनुमन्यते।  अफ्गानिस्थाने वर्तमानः एषः इतःपर्यन्तम् अग्रहीतः वर्तते। एतावत्पर्यन्तं अपराधिनं तं गृह्णातुं अधिकारिणः न प्रभवन्ति च।

Saturday, March 24, 2018

गो-खाद्य-विषये  लालु प्रसादाय सप्तवर्षस्य कारागृहदण्डः।
         नवदिल्ली > गो-खाद्य-विषये चतुर्थे न्याय व्यवहारे भूतपूर्वमन्त्रिणे लालु प्रसादाय सप्तवर्षस्य कारागृह दण्डः तथा त्रिंशत् लक्षं धनदण्डः च । राञ्चीस्थ विशेष सि बि ऐ न्यायालयेन एव एषः दण्डितः। १९९५ डिसंबर् १९९६ जनुवरि मासयोः मध्ये दुंक सर्वकारीय वित्तकोशात् ३.१३ कोटि रुप्यकाणि अनुज्ञारहितकार्ये व्ययीकृतानि इति एव व्यवहारास्पदं कारणम्।
           गो-खाद्यविषय-संबन्धतया आहत्य ६ व्यवहाराः सन्ति। अस्मिन् व्यवहारेषु चतुर्थतमस्य न्यायव्यवहारस्य विधिप्रस्तावः भवति अयम्। IPC अनुसृत्य सप्तवर्षाणां अलीकनिवारण नियमानुसृत्य सप्तसंवत्सराणां कारागृहबन्धः च न्यालयेन दण्डितः। दण्डः युगपदेव अनुभवितुं शक्यते।
फ्रान्स् राष्ट्रे भीकराक्रमणं -  बन्धितेषु त्रयः मारिताः। 
              फेब् > फ्रान्स् राष्ट्रस्य दक्षिणपश्चिमप्रविश्यायां फेब् नगरस्थे कस्मिंश्चित् बृहदापणे संवृत्ते भीकराक्रमणे त्रयः जनाः मारिताः। जनान् प्रबन्ध्य कश्चन भीकरः भुषुण्डिप्रयोगं कृतवान्  आसीत्। ऐ एस् भीकरः इति  मन्यमानः एषः पश्चात् आरक्षकैः व्यापादितः।

Friday, March 23, 2018

अस्ति दक्षिणस्यां दिशि नूतना 'वाट्ससाप्' संस्कृतिः।
ट्रैन् टैं इन्फोर्मर् अवार्ड् के के राधाकृष्णाय
एबि डेविड् चुङ्कत्त् महोदयः राधाकृष्णाय पुरस्कारम् प्रयच्छति।  अय्यम्पुष़ हरिकुमारः समीपे।
       कोच्ची > वाड्स् आप् माध्यमे गणनियमविरुद्धतया विज्ञापनानि लघुसंदेशाः वा सदा आगच्छन्ति इत्येतदेव गणपालकानां (goup Admin) शिरोवेदनायाः सामान्यं कारणम्, किन्तु गणनीतिनिर्देशान् पालयित्वा केरलेषु रयिल्वे पासञ्चर् इन्फर्मेषन् सर्वीसस् इति सुज्ञाताः गणाः वर्तन्ते। वाट्सप् गणानां वृन्दः भवति अयम्।

      अधुना अस्मिन् उपशतमिताः गणाः अन्तर्भवन्ति। अतिप्रभाते पञ्चवादनात् आरभ्य गणाङ्गाः प्रवर्तननिरताः भवन्ति। विलम्बेन धावतां रेल् यानानां तत्समया स्थितिः एव अस्मिन् प्रकाश्यते इति एव अस्याः  सुविधायाः विशेषता। रेल् यानस्य निस्थान प्राप्तिः ततः गमनं च तत् समये एव प्राप्यते। रेल् मन्त्रालयस्य अन्तर्जालात् पूर्वं गणेषु रेल् यानस्य स्थितिः लभते इत्येव अस्याः सुविधायाः विशेषता। इतोप्यधिकतया रयिल् वे सम्बन्धवार्ताः च ।
           प्रभाते गृहकर्माणि कृत्वा  यथाकालं रेल्यानं प्रवेष्टुं धावतां स्त्रीणां कृते बह्वी उपकारिणी भवति इयं सुविधा। SMS तथा WhatsApp द्वारा कृतप्रयत्नाय केरलस्य प्रमुखः आभरणव्यवसायी एबि डेविङ् चुङ्कत्त् च साह्यं क्रियते।

       रेल्याने यात्रावेलायां गोविन्द्रचामी नामकस्य  क्रूर भिक्क्षुकस्य आक्रमणेन हतायाः सौम्या नामिकायाः घटनानुबन्धतया आरब्धमिदं वाट्साप् सख्यम्।

       उत्तम-रेल्-समय-प्रदायकाय गणाङ्गाय इदानीम् आरभ्य पुरस्कारः दीयते। अस्मिन् वर्षस्य ट्रयिन् टैं इन्फोर्मर् अवार्ड्  श्री के के राधाकृष्णाय लभते। तृश्शूर् देशीयः एषः अङ्गमालि देशे एव उद्योगं करोति। उपशतसंख्यकानां वाड्सप् वृन्दानां मध्यतः राधाकृष्णः चितः आसीत्। 
कर्ममण्डलपरिवर्तनप्रयत्नः - राष्ट्रे महान् प्रतिषेधः। 
        नवदिल्ली > भारतस्य कर्ममण्डले महत्परिवर्तनाय उद्दिश्यमानं केन्द्रसर्वकारेण विज्ञापितं Industrial Employment (standing orders) Central abutment rule 2018 नामकं कर्मशीलतानियमं विरुध्य राष्ट्रे सर्वत्र कर्मकरसंघटनानां नेतृत्वे महान् प्रतिषेधः जायमानः अस्ति। नूतनीं व्यवस्थामनुसृत्य सर्वेषु उद्योगमण्डलेषु परं चिरस्थायिकर्मणां स्थाने निश्चितकालीनानि  आकुञ्चितकर्माणि एव स्युः। 
            नूतनं नियममनुसृत्य संघटितमण्डलेषु स्थिरस्वभावयुक्तं कर्ममण्डलं समापयिष्यति। प्रतिषेधं दृढीकर्तुं एप्रिल् मासस्य द्वितीयदिनाङ्के राष्ट्रियकर्मविरामः प्रख्यापितः अस्ति।
केन्द्रसर्वकारस्य स्खाल्त्यनिवारणम्। मृतानां भटानां पुत्राणां अध्ययनं मुक्तरूपेण प्रचलति। 
     नवदेहली->वीरमृत्यु वृतानां सैनिकानां दीयमानस्य छात्रवृत्तेः परिधिः सर्वकारेण निष्कासितः। गतवर्षे छात्रवृत्तेः परिधिः १०००० रूप्यकत्वेन सर्वकारेण निश्चितः। सेनाविभागेभ्यः बहु प्रतिषेधे आगते सति पूर्वनिश्चितं सर्वकारेण पुनर्निरीक्ष्य शिक्षाव्ययः पूर्णतया निर्वोढुं सन्नद्धः इति निर्णीतम्। बंग्लादेश युद्धानन्तरं १९७१ तमे वर्षे पद्धतिरियं प्रारब्धा। गतवर्षपर्यन्तं २६८९ छात्रेभ्यः अस्य सौविध्यं अलभत।किन्तु २०१७ जुलाई मासे छात्रवृत्तिः दशसहस्ररुप्यकमेव अधिकाधिकं स्यादिति सर्वकारेण उद्घोषितम्।तेन सर्वकारस्य ३.२ कोटि रूप्यकाणां गुणः जातः।नाविकसेनायाः नेता अड्मिरल् सुनिल् लांबा तदर्थं प्रतिरोधमन्त्रिणे निर्मला सीतारामाय पत्रं अलिखत्।बहु प्रतिषेधानां अन्ते सर्वकारेण निर्णयमिदं पुनर्निश्चितम्।

Thursday, March 22, 2018

सौदीराष्ट्रे शिरोवस्त्रस्य निर्बन्ध: नास्तीति सलमानराजकुमार:।
रम्या पि यु       
        रियाद् >स्त्रीपुरुषयोः मध्ये समाजे समानता एव, तथा स्त्रिय: आच्छादकवस्त्रं शिरोवस्त्रं च धरेदिति निर्बन्धोपि नास्ति इति सौदीराष्ट्रस्य राजकुमार: मुहम्मद् बिन् सलमान् अभिप्रैति। चत्वारिंशत् वर्षेभ्य: पूर्वं सौदी अरेब्या साधारणमेकं गल्फ् राष्ट्रमासीत्।तदानीं कार्यनिर्वाहकत्वं स्त्रीणां नासीत्। चलच्चित्रशालासु चलनचित्रस्य प्रदर्शनार्थं अनुमतिः नासीत्। कार्यालयादिस्थानेषु स्त्रीकर्मकराः न अनुमन्यन्ते स्म। 
       प्रवृत्ता: काश्चनघटना: अस्य राष्ट्रस्य नूतनमुखमयच्छन्। तत: प्रभृति याथास्थितिकचिन्ता: प्रचारम् प्राप्ता:। स्वपरम्परापि तस्या: चिन्ताधाराया: अनुवर्तका: जाता: इति सत्यम् अभिमुखभाषणे स: असूचयत्।।

Wednesday, March 21, 2018

प्रतीक्षा वृथा जाता - ऐ एस् भीकरैः बन्धिताः ३९ भारतीयाः व्यापादिताः इति सुषमास्वराजः। 
      नवदिल्ली > एकोनचत्वारिंशत् परिवाराणां संवत्सरचतुष्टयं यावत् प्रार्थनानिरतायाः  प्रतीक्षायाः दुःखाश्रुपूर्णः विरामः।  २०१४ तमे वर्षे इराखस्थे मोसूल् प्रदेशात् एे एस् भीकरैः बन्धीभूय कारागारस्थाः ३९ भारतीयाः कर्मकराः व्यापादिताः इति विदेशकार्य मन्त्रिणी सुषमास्वराजः राज्यसभायां स्थिरीकृतवती। एतेषां मृतदेहावशिष्टानि लब्धानि। नितरां दुष्करान्वेषणस्य अन्ते एव शरीरावशिष्टानि लब्धानि। 

   बाग्दाद् मध्ये कृतायां 'डि एन् ए' परिशोधनायाम् एव ते प्रत्यभिज्ञाताः। रक्षाकर्तृजनानां बन्धुजनानां च रक्तसूचकमुपयुज्य आसीत् परिशोधना।
सेनात्रयं एकीभविष्यति। सेनायां पुनः क्रमीकरणं च भविष्यति।
        नवदेहली> सेनाविभागत्रयान् एकस्य छत्रस्य अधोभागमानेतुं केन्द्रप्रतिरोधमन्त्रालयस्य कर्मं प्रारब्धम्। तदर्थं सैनिककमाण्ड् नियमे भेदं करिष्यति।  
       अधुना सेनात्रयस्य प्रववर्तनं व्यत्यस्तं भवति। एकीकरोति चेत् मिलित्वा प्रवर्तनं कर्तुं प्रभवन्ति।इण्डग्रेट्टट् तीयेट्टर कमाण्ड् इति अस्ति अस्य नाम।एतादृशसंविधानं इदानीं आण्डमान् निक्कोबार द्वीपे प्रवर्तते। आण्डमाने २००१ तमे एतत् प्रारब्धम्। 
      चीफ् आफ् टिफन्स् इत्यस्ति नेतुः नाम। एतेन बहु बृहत् परिवर्तनं सैनिकक्षेत्रे आगमिष्यति। पञ्चदशलक्षाधिकसैनिकानां प्रशिक्षणं, सेनाकेन्द्राणां नियन्त्रणं, सेनाप्रवर्तनानां आसूत्रणं इत्यादयः नेतुः अधः आगच्छति।
पूर्वभागे पश्चिमभागे वामभागे च इण्टग्रेट्टर तियेट्टर त्रयं स्थापितं केन्द्रं चिन्तयति।सेनात्रयस्य  सप्तदश कमाण्ट् सन्ति। एतान् तियेट्टरत्रये अानयति। सप्तति राष्ट्रेषु एतादृशं सेनासंविधानं वर्तते। समीपराष्ट्रे चीनाराष्ट्रे पञ्च इण्टग्र्टर तियेट्टर कमाण्ट् सन्ति।

Tuesday, March 20, 2018

'लिङ्गायत्' परं धर्मविशेषः - कर्णाटकसर्वकारस्य अङ्गीकारः। 
      बेङ्गलुरु > कर्णाटकराज्ये प्रबलसमुदायत्वेन वर्तमानाय 'लिङ्गायत्'नामकविभागाय सविशेषं धर्मपदवीं दातुं मुख्यमन्त्रिणा एस् सिद्धरामय्यस्य नेतृत्वे विद्यमानेन सर्वकारेण निश्चितम्। अन्तिमानुमत्यर्थं निर्णयं केन्द्रसर्वकारं प्रति प्रेषितम्। 
     लिङ्गायत् समुदायान्तर्भूताः जनाः पारम्पर्येण महेश्वरभक्ताः खलु।  कर्णाटकस्य  राजनैतिकमण्डले अपि ते प्रबलाः वर्तन्ते। १२ तमशतके जीवनं कृतवतः आत्मीयाचार्यस्य तथा सामाजिकपरिष्कर्तुः बसवण्णा नामकस्य सिद्धान्तानुगामिनः भवन्ति ते। वेदानां प्राधान्यं धार्मिकाचारानुसृताः कार्यक्रमाः च बसवण्णावर्येण  निषिद्धाः।  किन्तु अस्य समुदायस्य अवान्तरविभागः वीरशैवनामकः च शिवभक्तः तथा हैन्दवाचारान् अनुगच्छति च। सर्वकारस्य अस्मिन्  निर्णये वीरशैवविभागः अतृप्तिं प्रतिषेधं च प्रकाशयति स्म।
छत्तीसगढे माओवादिनामात्मसमर्पणम् 
          छत्‍तीसगढ़े कोंडागांवजनपदे १० माओवादिभि: सोमवासरे ईरक्षिणां समक्षम् आत्‍मसमर्पणं कृतम् । एते माओवादिन: बयानेर: बाडेडोंगर: धनोरा क्षेत्रेषु सक्रिया: आसन्। आरक्षिसूत्रानुसारेण एतै: नाओवादिभि: नैका: घटना: समाचरिता: सन्ति। 
         अपरत्र प्रवर्तननिदेशालयेन सूचितं यत् बिहारे वित्‍तीयानियमितताया: अन्वेषणावधौ माओवादिनां वरिष्‍ठनेतृद्वयस्य प्रद्युम्‍नशर्मण: प्रमोदशर्मणश्च अष्टषष्टिलक्षरूप्यकाणां सम्‍पत्ति: स्वायत्तीकृता। यस्मिव्  भूखण्‍डं भवनं कोशागारे सुरक्षितधनराशि: सम्मिलिता:।
         विगतमासे अपि निदेशालयेन झारखण्डस्य माओवादी चमूपते: सन्दीपयादवस्य षडाशीति लक्षरूप्यकाणां सम्पत्ति: स्वायत्ती कृतासीत् ।
क्षुद्रग्रहान् भग्नं कर्तुं बाह्याकाशयानं निर्मातुं 'नासा'
        क्षुद्रग्रहाणां भीषां विरुद्य नासासंस्था सज्जा भविष्यति।  भूरक्षाम् उद्दिश्य बाह्याकाश पाषाणखण्डान् दूरीकर्तुं  तथा भग्नीकर्तुं बृहदाकारकम् आणवबाह्याकाश-यानं निर्मातुमेव नासा संस्थया उद्दिश्यते। हामर् (HAMMER- Hypervelocity Asteroid Mitigation Mission for Emergency Response) इति नामाङ्कितस्य एतत् यानस्य अष्ट टण् मितः भारः अस्ति। घट्टनाय भूमि प्रति आगतान् भीमाकारान् पाषाणघण्डान्  मार्गभ्रंशं कृत्वा अन्यत्र प्रेषयितुं शक्यते अनेन बाह्याकाश यानेन। इदानीं १६०० पादविस्तृतं बेन्नु (Bennu) नाम क्षुद्रग्रहं त्रिषष्टिसहस्रं मैल् वेगेन सूर्यं प्रदक्षिणीक्रियते। भूमीतः ५.४ कोटि दूरे वर्तमानस्य बेन्नु नाम ग्रहस्य भीषा विचिन्त्य एवभवति एतादृशी नूतना योजना ।

Monday, March 19, 2018

उदग्र-छायाग्राहीं उपयुज्य राजभवनस्य छायाग्रहणम् - एकः गृहीतः।
       तिरुवनन्तपुरम् > केरलस्य राजभवनं परिसराणि च उदग्र छायाग्राहीम् उपयुज्य चित्रीकरणं कृतवान् इत्यनेन छायाग्राहकः गृहीतः। रविवासरे प्रातः सप्तवादने एव  इयं घटना अभवत्। समीपस्थे विवाहगृहे सम्पन्ने विवाहोत्सवस्य छायाग्रहणवेलायां नियन्त्रणं विनष्टम् उदग्रयानं राजभवनस्य समीपं प्राप्तम्। अस्मिन् समये राज्यपालः न्याय. पि सदाशिवं राजभवने आसीत् । Z विभागे सुरक्षायां वर्तामानः  भवति राजभवनस्य विशषाथिति प्रकोष्टः, तत्रत्याः छायाग्रहणं दण्डार्हं भवति। नगर आरक्षक-मुख्येन अन्वेषणं आरब्धम्। 
*New word - उदग्रछायाग्राही- Helicam
निर्वाचनसज्जीकरणाय आह्वानं कारयत् कोण्ग्रस् प्लीनरि सम्मेलनं समाप्तम्। 
       नवदिल्ली > आगामिसंवत्सरे प्रचाल्यमाणं लोकसभानिर्वाचनं 'कुरुक्षेत्रम्' उपमीय सामाजिकनिर्वाचनाय सन्नद्धाः भवितुं प्रवर्तकान् नेतृजनान् च आह्वयतः राहुलगान्धिनः समापनप्रभाषणेन कोण्ग्रस् दलस्य  सम्पूर्णसम्मेलनं नवदिल्ल्यां समाप्तम्। प्रधानमन्त्रिणं नरेन्द्रमोदिनं तथा भा ज पा दलं च विरुध्य राजनैतिकसङ्ग्रामं महाभारतयुद्धम् उपमीय आसीत् राहुलस्य प्रभाषणम्।
     "कुरुक्षेत्रयुद्धे कौरवाः संघटिताः आर्थिक-सैनिकबलयुक्ताः चासन्। ते तु अधिकारमदोन्मत्ताश्चासन्। तादृशाः भवन्ति नरेन्द्रमोदी बिजेपी नेतारश्च। किन्तु बले स्तोकाः पाण्डवाः सत्यधर्मनीतिपक्षपातिनः आसन्। तथास्ति कोण्ग्रस् दलम्। अस्य धर्मयुद्धः सत्याय भवेत्" राहुलगान्धी अवदत्।
अस्ति पूर्वस्यांदिशि देशभक्तानां ग्रामः।
          अभयनगरम् > वङ्ग-राज्यस्य नादिया जनपदे अभयनगरं नाम ग्रामः अस्ति। अत्रत्याः जनाः एव विश्वे देशभक्तानां गणनायां प्रप्रथमाः। प्रतिदिनं प्रभाते १०.५० वादने सर्वे जनाः भारतस्य राष्ट्रगीतं साभिमानम् आलपति। गृहे विद्यमानाः याने गम्यमानाः पादचारिणाः कर्मकराः एवं सर्वे ग्रामीणाः अवधानतया तिष्ठन्ति। ग्रामस्य प्राथमिक विद्यालयात् राष्ट्रगीतं तस्मिन्नेव  समये प्रवहति। कालान्तरादेव आरब्धा इयं रीतिः इदानीमेव अनुवर्त्यते। ग्रामजनानां शारीरमासकलं विलीना भवति इयं रीतिः। राष्ट्रगीतस्य ५२ क्षणकालं निश्चलं तिष्ठन्ति ते। अभयनगरग्रामस्य प्राथमिक-विद्यालयस्य अध्यापकस्य साफि कुल् इस्लामस्य निर्देशमनुसृत्य एव ग्रामीणाः प्रतिदिनम् एवं कुर्वन्ति। जनानां हृदयेषु राष्ट्रस्नेहं पूरयतुं शक्यते अनेन इति प्रधानाध्यापकः अवदत्I विद्यालयतः उच-भाषिणिद्वारा राष्ट्रगीतश्रवणं यदा भवति तदा एव स्व कर्मात्  प्रतिनिवर्त्य   सर्वे ग्रामीणाः ५२ क्षणं सादरं तिष्ठन्ति। तस्मिन् क्षणे किमपि भवतु तत्र राष्ट्रगीतं विनास्तगनं अनुवर्तते।

Sunday, March 18, 2018

निर्वाचने मतदानपत्रं प्रत्यानेतव्यम्  - कोण्ग्रस्। 
         नवदिल्ली > निर्वाचनप्रक्रियायाः विश्वास्यतां सुतार्यतां च दृढीकर्तुं पूर्वकाले वर्तिता मतदानपत्ररीतिः प्रत्यानेतव्या इति कोण्ग्रस् दलेन अपेक्ष्यते। पारमार्थिकं जनविधिं पराङ्मुखीकर्तुं 'इलक्ट्रोणिक् निर्वाचनयन्त्रे' कृत्रिमप्रवर्तनानि चालयन्तीति बहूनि राजनैतिकदलानि सामान्यजनाश्च आशङ्कन्ते इति कारणतः एव ईदृशम् अपेक्षितमिति कोण्ग्रस् दलस्य 'प्लीनरि' सम्मेलने अङ्गीकृते राजनैतिकोपक्षेपे स्पष्टीक्रियते। 
        केषुचित् राज्येषु विधानसभानिर्वाचने बीजेपी दलेन उज्वलविजये प्राप्ते निर्वाचनयन्त्रे क्रमराहित्यं जातमिति कैश्चित् विपक्षदलैः आक्षिप्तमासीत्। निर्वाचनसंस्थां प्रति आवेदनमपि समर्पितम्। अधुना राष्ट्रस्य प्रमुखेन विपक्षदलत्वेन वर्तमानेन कोण्ग्रस् दलेनापि निर्वाचनयन्त्रं संशयग्रस्तं जातमित्यतः आगामिदिनेषु एतद्विषयमधिकृत्य महती चर्चा प्रतीक्ष्यमाणा अस्ति।
'ऐ एस् एल्' किरीटं चेन्नैन् दलाय। 
         बेङ्गलुरु > "इन्डियन् सूपर्लीग्" पादकन्दुककिरीटं चेन्नैन् एफ् सि दलाय प्राप्तम्। बङ्गुलुरु मध्ये प्रचलितायां ऐ एस् एल् परम्परायाः अन्तिमस्पर्धायां बेङ्गलुरु एफ् सि दलं द्वयं विरुध्य लक्ष्यकन्दुकत्रयेण चेन्नैन् दलं पराजयत्।  चेन्नै दलस्य कृते ब्रसीलियक्रीडकेन मेयिल्सण् आल्व्स् नामकेन लक्ष्यकन्दुकयुगलं प्राप्तम्। राफेल् अगुस्तो नामकेन इतरेणैव ब्रसीलियक्रीडकेन  लक्ष्यकन्दुकान्तरं च प्राप्तम्। द्वितीयवारमस्ति चेन्नैन् दलस्य किरीटप्राप्तिः।
मुंबैय्यां सैनिकशिबिरे आलये अग्निबाधा।
       मुंबै> दक्षिणमुंबै नगरस्थे कोलाब सैनिकप्रदेशे वर्तमानस्य असाये इति मन्दिरस्य तृतीये अट्टे एव अग्निबाधा अभवत्। अफ्गान् महम्मदीय देवालयस्य समीपे एव सैन्यस्य अयम् आलयः वर्तते। शनिवासरे सायंकाले एव अपघातः जातः। चत्वारि अग्निशमन यानानि, चत्वारि अग्नि शमन 'टाङ्रकर्' च मिलित्वा युगपदेव प्रयत्नं कृत्वा अग्निं नियन्त्रितं अकरोत्।
पिहिताः  मद्यशालाः पुनरुद्घाटयितुं मार्गान्तरं दत्वा केरलसर्वकारः। 
     अनन्तपुरी > राष्ट्रिय- राज्यवीथिभ्यः निश्चितदूरानपेक्षितत्वेन पिहिताः सर्वाः 'त्रीस्टार्' मदिराशालाः बियर् वैन् शालाश्च पुनःस्थापयितुं केरले सुपथमायाति। दशसहस्राधिकाः जनसंख्यापरिमिताः सर्वे ग्रामाः दूरपरिधिनियमात् बहिरागमिष्यन्ति। एतादृशान् ग्रामान् नगरप्रदेशान् परिकल्पयितुं स्पष्टीकृत्य सर्वकारस्य आदेशः प्रकाशितः। राज्ये भूरि ग्रामाः अयुतपरिमितजनसंख्यातिरिक्ताः वर्तन्ते। 
       नगरस्वभावीयेषु ग्रामेषु अपि राष्ट्रिय - राज्य्यीयवीथिभ्यः दूरपरिधिम् अपालयन् मद्यविक्रयणशालाः सम्प्रवृत्तनीयाः इति सर्वोच्चन्यायालयस्य आदेशमाधारीकृत्यैव केरलसर्वकारस्य नूतनादेशः।

Saturday, March 17, 2018

विंशति वर्षाणि यावत् मार्गेण धावयिष्यन्ति यानानि। नूतनया  योजनया केन्द्रसर्वकारः।
        नवदिल्ली> अपघातानि न्यूनीकर्तुं यात्रां सुगमां कर्तुं  अन्तरिक्ष-मलिनीकरणानि नियन्त्रण-विधेयानि कर्तुं नूतनया पद्धत्या केन्द्रसर्वकारः। पद्धतिरनुसृत्य बस् ट्रक् लारि टाक्सि वाहनानां आयुः निश्चितम् । विंशति वर्षेभ्यः   उपरि प्रचीनानि वाणिज्य-वाहनानि २०२० तम  संवत्सरानन्तरं धावयितुम्  अनुज्ञा न स्यात्। किन्तु स्वीययानस्य क्षमतापत्रम् अस्ति चेत् पुनरपि उपयोक्तुं शक्यते। प्रधानमन्त्री, गतागत-परिस्थिति-धनमन्त्रिणः नीति आयोगस्य अङ्गाः च मिलित्वा एव निश्चयः स्वीकृतः। नियमस्य प्रबलतायां जायमानायां सत्यां सप्तलक्षं वाणिज्यवाहनानि मार्गतः निष्क्रमिष्यन्ते। विंशति वर्षानन्तरं  यानानां पञ्जीकरणं स्वयमेव निर्गमिष्यति। क्षमतारहित वाहनानि परित्यज्य नूतनानां क्रयणाय काचन न्यूनीकरणप्रक्रिया केन्द्रसर्वकारेण विज्ञापयिष्यते। नूतनानां प्रतिशतं दश इति क्रमेण न्यूनीकरणम् इत्येव भवति निर्देशः।
एन् डि ए सख्यं त्यक्तवता टि डि पि दलेन अविश्वासवादोपक्षेपः समर्पितः। 
    नवदिल्ली > देशीयजनाधिपत्यसख्यं [एन् डि ए] त्यजतीति  प्रख्यापितवत् तेलुगु देशं पार्टीदलं [टि डि पी] केन्द्रसर्वकारं विरुध्य अविश्वासवादोपक्षेपाय निवेदनं समार्पयत्। आन्ध्रप्रदेशराज्याय सविशेषस्थानमावश्यकमिति आवेदने निरस्ते तेलुगुदेशमन्त्रिणः केन्द्रमन्त्रिसभायाः गतसप्ताहे  निराकृताः आसन्। ततः गतदिने आन्ध्रराजधान्याम् अमरावत्यां सख्यत्यागं प्रख्याप्य अविश्वासप्रख्यापनमपि कृतम्। किन्तु अयमुपक्षेपात् केन्द्रसर्वकारस्य भीषा न वर्तते, निश्चितसंख्याबलत्वात्।

Friday, March 16, 2018

कुप्याः जले अधिकतया पलास्तिकवस्तूनि लीयन्ते।
         मियामि> विश्वस्य प्रसिद्धः कूपीजल निर्माण संस्थाभिः मिर्मीयमानेषु  कूपी जलेषु स्वस्थ्यहानिकराणि पलास्तिकमालिन्यानां सन्निधिः अस्ति इति आवेदितः। नवराष्ट्रेषु कृतानां अनुसन्धानानां भीतिदः फलसारः भवति इयम् । न्यूयोर्क् स्टेट् विशवविद्यालयस्य 'मैक्रो प्लास्टिक् रिसर्चर् षेरिमासणस्य नेतृत्वे एव अध्ययनं सम्पन्नम्। प्रमुख कूपीजलम् इति नामै विज्ञाते जले अधिकतया पलास्तिकांशाः वर्तन्ते इति अध्ययनं स्पष्टीक्रियते। 
        ब्रसीलः, चीनः , भारतम्, इन्टोनेष्य, केनिय, लेबनन्, मेक्सिको,  ताय् लान्ट्, यू एस्, एतेभ्यः राष्ट्रेभ्यः स्वीकृतेभ्यः २५० कूपीजल-प्रतिरूपेषु एव अध्ययनं प्रवृत्तम्। अस्मिन् ९३% प्रतिरूपेषु अपि पलास्तिकांशाः सन्ति इति दृष्टम्। अक्वा, अक्वाफिना, डसानि, एवियान्, नेस्ले प्यूर् लैफ्, बिस्लेरि, एपुऱ, जेरोल्टैनर्, मिनल्ब, वहाह इति नामाङ्किताः अस्मिन् पट्टिकायां अन्तर्भूतेषु प्रमुखाः।
‍‍
        एतादृशमालिन्ययुक्तस्य जलस्य उपयोगः 'ओट्टिसं, अर्बुदः, पुरुषेषु वन्ध्यता च जनयितुं मूलकारणं भविष्यति।
प्रतियोगितां विना पञ्चविंशति स्थानाशिनः राज्यसभायै चिताः। 
     नवदिल्ली > नामनिर्देशिकापत्राणां प्रत्यर्पणकाले समाप्ते राष्ट्रस्य षट्भ्यः राज्येभ्यः पञ्चविंशति जनाः राज्यसभां प्रतियोगिरहिताः सन्तः चिताः। केरलस्य भाजपानेता वी. मुरलीधरः, केन्द्रमन्त्रिणौ प्रकाश् जावदेक्करः, रविशङ्करप्रसादः च,  महाराष्टस्य भूतपूर्वः मुख्यमन्त्री नारायण राणे इत्यादयः तेषु अन्तर्भवन्ति।  अस्मिन् मासे २३तमे दिनाङ्के आसीत् ५८ स्थानेषु  निर्वाचनं निश्चितम्। अवशिष्टेषु ३३ स्थनेषां कृते २३तमदिनाङ्के निर्वाचनं भविष्यति।
आर्थिकान्यायः एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारः। 
      नवदेहली> आर्थिक अन्यायेन नियमात् शिक्षणात् च रक्षां प्राप्तुं एकत्रिंशत् जनाः राष्ट्रान्तरं गतवन्तः इति सर्वकारस्य प्रतिवेदनम्। विदेशकार्य सहमन्त्रिणा एम्. जे अक्बर् महोदयेन लोकसभायां दत्ता इयं वार्ता।
राष्ट्रान्तरं गतवतां सूच्यां नीरव् मोदी तस्य बन्धुः मेहुल् चोक्सी च अन्तर्भवतः। नीरव् मोद्याः पत्नी अमी नीरव् मोदी, पुत्रः निषाल् मोदी, विजय् मल्या, ललित् मोदी, शस्त्रव्यापारी सञ्जय् भण्डारी इत्येतेषां नामानि अपि सूच्यां सन्ति।
  एते कदा राष्टान्तरं अगच्छन्निति सर्वकारस्य प्रतिवेदने न व्यक्तीकृतम्। विजय् मल्यया सह अन्यान् विदेशादानेतुं निवेदनं सी बी ऐ तः सर्वकारः प्राप्तः।एतानि एतेषां राष्ट्राणां गणनाय प्रेषितानि च। एतेषां अन्यायानां रोधनाय नियमनिर्माणं परिगणयति इति केन्द्रमन्त्रिणा व्यक्तीकृतम्।

Thursday, March 15, 2018

सामूहिक-नवमाध्यमाः शान्तिपालनस्य बाधारूपेण वर्तन्ते - राजनाथ सिंहः।
        नवदिल्ली> सामूहिक-नवमाध्यमाः  शान्तिपालनस्य बाधारूपेण वर्तन्ते इति भारतस्य गृहमन्त्रिणा राजनाथसिंहेन उक्तम्। आतङ्कवादः साम्पदिक दोषकर्मः, उन्मादकवस्तुनाम् उपयेगः,  स्त्रीभ्यः  शिशुभ्यः च विरुद्ध्य  अतिक्रमणानि च रोद्धुं  नवमाध्यमाः बाधारूपेण तिष्ठति इति सः अवदत् । आरक्षकाध्यक्षानां राष्ट्रान्तरदलस्य एष्यापसफिक् रीजणल् कोण्फरन्स् उद्घाटनं कृत्वा भाषमाणः आसीत् राजनाथ सिंहः। २०१३ तमे संवत्सरे मुसाफर् नगर संग्रामस्य सन्दर्भे स्कलित विवरणानि जनानां पुरतः प्रापयन्तुं केचन उद्युतः। एतदर्थं  ते सामूहिक नवमाध्यमाः उपयुक्तवन्तः आसन् इति राजनाथ सिंहः  अवदत् -इति पि टि ऐ वार्ता संस्थया आवेदितम्।

Wednesday, March 14, 2018


स्टीफन् होक्किङ् दिवंगतः। 
      कोच्चि > विश्वप्रसिद्धः भौतिकशास्त्रज्ञः स्टीफन्होक्किङ् केम्ब्रिड्जस्थे स्वभवने दिवंगतः। षट्सप्ततिवयस्कः सः 'मोटोर् न्यूरोण्' नामकरोगबाधितः सन् यौवनारम्भादारभ्य चक्रासन्दमाश्रित्य एव जीवनं यापयन्नासीत्। होक्किङ् वर्यस्य तमोगर्तानि अधिकृत्य स्वाध्यायः गवेषणं च इतःपर्यन्तं वर्तमानं शास्त्रसङ्कल्पं परावर्तयत। 'ब्रीफ् हिस्टरि आफ् टैम्' [कालचरितसंक्षेपः] नामकः ग्रन्थः तेन विरचितेषु ग्रन्थेषु लोकप्रशस्तः अभवत्।
छत्तीसगढ़े मावोवाद्याक्रमणं - नव सि आर् पि एफ् सैनिकानां वीरमृत्युः। 
     राय्पुरम् > छत्तीसगढ राज्ये सुक्मा जनपदे गतदिने मध्याह्ने प्रवृत्तेन मावोवादिनाम् आक्रमणेन नव सि आर् पि एफ् भटाः मृताः। द्वौ व्रणितौ। खनितबोम्बशस्त्राणि अधिगम्य निर्वीर्यतां क्रियमाणं सैनिकवाहनं लक्ष्यीकृत्य मावोवादिनः बोम्बाक्रमणं कृतवन्तः आसन्। 
     'किस्ताराम्-पलोडि' मार्गे आसीत् आक्रमणं प्रवृत्तम्। तत्र परिक्रमणं कृतवतः रक्षाबलस्य २१२तम व्यूहस्य वाहनमेव आक्रमणविधेयमभवत्। ऐ इ डि नामकम् अत्युग्रस्फोटकशेषयुक्तं शस्त्रमुपयुज्य अासीदाक्रमणम्।

Tuesday, March 13, 2018

महाराष्ट्रे कृषकविजयः।
     मुम्बई > महाराष्ट्रं संतप्तं कृत्वा कृषकैः आयोजितस्य प्रक्षोभस्य विजयपूर्णः परिसमाप्तिः। कृषकाणां निवेदनानि सर्वाणि परिहरिष्यतीति राज्यसर्वकारस्य  प्रमाणीकृतविश्वासस्य आधारे १८० कि मी दूरपरिमितं पथसञ्चलनं मुम्बय्यां परिसमाप्तम्। 
      मुम्बई केन्द्रीकृतानां राजनैतिक-सांस्कृतिक-सन्नद्धसंघटनानां सामाजिकजनानां च अत्यपूर्वः अभियोगः अभिनन्दनं च प्रक्षोभकाः कृषकाः संप्राप्ताः इति विज्ञाय मुख्यमन्त्री देवेन्द्रफट्नविस् वर्यः आन्दोलनप्रशमनाय निर्बन्धितः अभवत्। विधानसभासम्मेलनकाले विधानसभोपरोधः आसीत् प्रक्षोभकाणां लक्ष्यम्।
चन्द्रयानम् २ आगामि मासे विक्षिप्यते- ऐ एस् आर् ओ।
         चेन्नै> भारतबाह्याकाशानुसन्धान केन्द्रेण निर्मितः क्रित्रिमोपग्रहः चन्द्रयानं द्वितीयम् इति नामकः एप्रिल् मासे विक्षिप्यते इति अध्यक्षेण डा. शिवेन उक्तम्। चन्द्रस्य उपरितलं सूक्ष्मतया निरीक्षितुं शक्यते अनेन। येनकेनापि कारणेन विक्षेपणं स्थगितं चेदपि अक्टोबर् मासे विक्षेपणं भविष्यति इति डा शिवेन उक्तम्। 
       भ्रमणपथे चन्द्रं परितः भ्रमणाय पेटिका, दक्षिण ध्रुवे अवतारयितुम् उद्दिश्य अवतारिणिका, चन्द्रोपरितलपर्यवेषणाय षट्चक्रिकं विशेषयानम् इति भागत्रयं  वर्तते चन्द्रयाने द्वितीये। चन्द्रोपरितलस्थाः मृदः गुणविशेषान् अपि उपग्रहः ततः प्रेषयिष्यते। चन्द्रयानेन सह वार्ताविनिमयाय जि साट् ६ (GSLV F.08)अपि विक्षेपणाय सज्जीकरिष्यति इति च अध्यक्षेण उक्तम्।

Monday, March 12, 2018

संस्कृतपठनेन मनःसंस्करणं शक्यते- चित्रन् नम्पूतिरिप्पाट्।
            त्रिश्शिवपेरूर्> मनसः शुद्धिधिः शान्त्रिपूर्णजीवने अवश्यं भवति।  संस्कृतपठनेन मनसः सांस्कृतिकभावः वर्धते इति  सांस्कृतिक-शिक्षामण्डलेविचक्षणः चित्रन् नम्पूतिरिप्पापााट् वर्यः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य तृशूर तालूक् वार्षिकमेलनम् उद्‌‌घााटनं कृत्वा भाषमाणः आसीत् सः। २१ ०.०३.२०१८ शनिवासरे सायं ४.०० वादने तृशूर नगरे लक्ष्मीमण्डपे आसीत् मेलनम् । आयुर्वेदकलाशालाद्ध्यापकः डा. गौरीशङ्करः छात्राणां प्रमाणपत्रवितरणं कृतवान् । जिल्लाशिक्षकप्रमुखः डा. डी प्रकाश् महोदयः मुख्यभाषणं कृतवान् । योगस्य आरम्भात्पूर्वं  प्रकाश् महोदयस्य संस्कृतपाठनमपि आसीत् । रमेष् केचेरी , अजितन् वारियर् च आशंसां समर्पितवन्तौ ।
तेनिदेशे दावाग्न्याम् अन्तर्गतानां  २५ विद्यार्थिनां कृते अन्वेषणम् अनुवर्तते १५ छात्राः रक्षिताः।
          चेन्नै> तमिल्नाट् राज्यस्य तेनी नाम वनप्रदेशे पर्वतारोहणाय गताः छात्राः दावाग्न्न्याम् अन्तर्गताः। एका हता इति आवेदनम् अपि आगच्छति। पञ्चविंशति (२५) छात्राः वने अस्तीति आवेद्यते। वनविभागेन तथा अग्निशमनविभागेन च रक्षा-प्रवर्तनानि कुर्वन्ति।  कुरङ्ङणि वनप्रदेशस्ते कुळुक्पर्वते पर्वतारोहणाय गताः एव अपघाते पतिताः।
 चवारिंशत् (४०) छात्राः संघे आसीत्। तेषु पञ्चदश रक्षिताः। एते अग्निना व्रणिताः। सप्तछात्राः बोडिनाय्क्कन्नूर् सर्वकारीय आतुरालये प्रविष्टाः।
          व्योमसेनायाः उदग्रयानानि राक्षाप्रवर्तनाय आगतानि चेदपि प्रकाशस्य अभावेन रक्षाप्रवर्तनानि स्तगितानि। वनान्तर्भागे अपगतेषु छात्रेषु एकः दूरवाणीद्वारा स्वस्य गृहं आहूय्य अपघातवार्ता न्यवेदिता । तदनन्तरम् इमां घटनां  ज्ञात्वा वनविभागस्य प्रवर्तकैः राक्षाप्रवर्तनानि आरब्धानिI यानगमनमार्गात् पञ्चविंशति किलोमीट्टर् दूरे एव अयम् अपघातदेशः इत्यनेन सुरक्षाप्रवर्तनेभ्यः वैक्लब्यम् अनुभूयन्ते|
 षि जिन् चीनायाः आजीवनान्तचक्रवर्ती। 
         बेय्जिङ् > चीनाराष्ट्रपतिः 'षी जिन् पिङ्' नामकः परं राष्ट्रस्य सर्वाधिपतिः भविष्यति। सः आजीवनान्तं राष्ट्रपतिपदे वर्तितुं राष्ट्रस्य अनुशासननियमः न विघातः भविष्यति। वारद्वयाधिकं एकः राष्ट्रपतिपदमलङ्कर्तुं नार्हतीति तस्य राष्ट्रस्य अनुशासनव्यवस्थां निराकृत्य चीनायाः सामाजिकसभायाः   [नेषणल् पीपिल्स् कोण्ग्रस्] सांवत्सरीयपरिषदा अनुशासनधर्मस्य संशोधनं कृतम्।
      २०१३ तमे अधिकारं प्राप्तस्य षि जिन् पिङ्ङस्य शासनावधिः २०२३ तमे वर्षे समाप्तिं प्राप्स्यति इत्यस्मिन् सन्दर्भे एव प्रमुखोऽयं निर्णयः। २०१२ तमे चैना कम्म्यूणिस्ट् दलस्य सचिवप्रमुखत्वेन अधिकारं प्राप्तः षि जिन् तस्मादारभ्य सर्वान् प्राक्तनाचारान् उल्लङ्घ्य  दलस्य तथा राष्ट्रस्य च एकाधिपतिः भवितुं प्रवर्तनानि तेन आरब्धानि। दलस्य शासनसंविधाने स्वस्य नाम राजनैतिकतत्त्वानि च अन्तर्भाव्य चीनाराष्ट्रपितुः मावो से तूङ् वर्यस्य समानः भवितुमुद्दिश्य तस्य प्रयत्नः सफलो जातः।
न्यूनमर्दः शक्तः संप्राप्यते, केरल-तमिल् नाट् लक्षद्वीप् प्रदेशेषु अतिवर्षस्य वातस्य च साध्यता। 
       अनन्तपुरी > कन्याकुमार्याः दक्षिणाशायां तथा श्रीलङ्कायायाः उत्तरे भागे भारतमहासमुद्रे सञ्जातः न्यूनमर्दः शक्तिं प्राप्नोति। आगामिदिनेषु अतिशक्तयोः वर्षवातयोः साध्यता वर्तते। अतः धीवराः समुद्रगमनात् प्रतिनिवर्तव्याः इति दुरन्तनिवारणसंस्थया तथा पर्यावरणनिरीक्षणकेन्द्रेण च पूर्वसूचना दीयते। 
        श्वः दक्षिणकेरले तथा तमिल्नाटु राज्यस्य दक्षिणप्रान्तेषु च पृथक्कृतः वर्षः भवेत्। आगामिदिनद्वये लक्षद्वीपमण्डले अतिवर्षस्य वातस्य च साध्यता अस्ति।

Sunday, March 11, 2018

मुम्बई लक्ष्यीकृत्य कृषकाणां बृहत्पथसञ्चलनम्। 
        मुम्बई > अखिल भारतीय किसान् सभायाः नेतृत्वे अयुतशः कृषीवलेः आयोज्यमानं पथसञ्चलनं श्वः मुम्बय्यां प्राप्नोति। महाराष्ट्रायां नासिक्तः आरभ्य १८० कि मी दूरमतिक्रम्य पथसञ्चलनं यदा मुम्बय्यां प्राप्स्यति तदा लक्षाधिकं कृषकाः भागं स्वीकुर्युः इति संघाटकैरुक्तम्। 
      कार्षिकनष्टेन आत्महत्यापरम्पराम् अनुवर्तमाने महाराष्ट्रे कृषकाणां दुरितपरिहारमालम्ब्य एव विधानसभां प्रति पथसञ्चलनम् आयोजितम्।
निशित विमर्शनेन भारतम्। स्वयं पराजितात् पाकिस्थानात् अध्येतुं किमपि नास्ति-इति भारतम्
         यु एन् > स्वयमेव पराजितात्‌ पाकिस्थानात् अध्येतुम् विश्वाय किमपि नास्ति इति भारतम् ऐक्य राष्ट्रसभायाम् अवदत्। भारतस्य यू एन् सचिवया मिनी देवी कुमं नामिकया एव पाकिस्थानः एवं आक्रमितः। ऐक्यराष्ट्र सभायां दिनद्वयं यावत् काश्मीरस्य समस्याम् अवतारयितुं पाकिस्थानेन उद्युक्तः आसीत्।
           काश्मीरीजनानां मानवाधिकारः संरक्षणीयः जनाभिलाषं माननीयः इति आसीत् तेषाम् आवश्यः। अतङ्कवादिनः निर्बाधं विहरन्तीं पाकिस्थानतः अध्येतुं विश्वस्य किमपि नास्तीति मिनीदेव्या पाकिस्थानः विमर्शितः।

Saturday, March 10, 2018

त्रिपुरे 'बिप्लब'सर्वकारः अधिकारं प्रापयत्। 
         अगर्तला > त्रिपुरराज्ये प्रथमः बि जे पी सर्वकारः बिप्लव् कुमारदेवस्य मुख्यमन्त्रित्वेन अधिकारं प्राप्तः। राज्यस्य २५ संवत्सराणि यावत् अनुवर्तमानस्य वामपक्षदलीयशासनस्य अन्त्यमभवत्।  बिजेपीदलीयः जिष्णु देव बर्मः उपमुख्यमन्त्रिरूपेण शपथं कृतवान्। आहत्य सप्त  मन्त्रिणः राज्यपालस्य तथागत रोयि वर्यस्य समक्षं शपथवाक्यं कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोद्यादयः प्रमुखाः बी जे पी नेतारः भूतपूर्वः मुख्यमन्त्री मणिक् सर्कारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
कारुण्यहत्यायै सर्वोच्चन्यायालयस्य अनुमतिः। 
            नवदिल्ली > कारुण्यहत्यायै सर्वोच्चन्यायालयेन सोपोधिकानुमतिः लब्धा। जीवनप्रतिनिवर्तनम् असाध्यमिति निर्णीताः रुग्णाः निष्क्रियं कारुण्यवधम् [Passive Euthanasia]अर्हन्तीति मुख्यन्यायाधीशस्य दीपक् मिश्रवर्यस्य अाध्यक्षे वर्तमानेन  पञ्चाङ्गशासनानुशासनपीठेन विहितम्। एतदर्थं सर्वकारेण अनुशासनं करणीयम्। किन्तु सक्रियं कारुण्यवधं [Active Euthanasia] नार्हन्तीति नीतिपीठेनोक्तम्। अभिमानपूर्णेन जीवनम् इत्यनेन सह अभिमानपूर्णं मरणमपि मानवस्य अधिकार इति नीतिपीठस्य निरीक्षणस्य आधारे एवायं निर्णय इति स्पष्टीकृतं नीतिपीठेन।
स्वस्य निष्कृतिवर्धनं विरुघ्य कानड देशे  वैद्यानां सविशेषसमरः।
         क्युबेक् सिट्टि> समरः अस्साकं परिचितः।  अधिकारस्यकृते अधिकनिष्कृतेः कृते कर्मसुरक्षायै तथा बस्यान शुल्कवर्धनाय च विविधरीत्या समराः अयोज्यमानाः राष्ट्रः भवति अस्माकं भारतम्। समरभटाः सामान्येन स्वस्य आवश्यकानि उन्नीयन्ते। किन्तु कानडा देशे समरः सविशेषरूपेण भवति। कानड देशस्य क्युबेक्भागे विद्यमानानां वैद्यानां समरः तेषां निष्कृतिः  अधिकतया वर्धापितस्य  सर्वकारप्रक्रमान् विरुद्ध्य भवति। अत्यधिक निष्कृतिः न आवश्यकम् इत्यु क्त्वा शतशतैः भिषग्वरैः हस्ताक्षरीकृतैः निवेदनं सर्वकाराय समर्पितम्। निष्कृतिवर्धन न उत्तम स्वास्थ्य-संविधानमेव आवश्यकम् इति वदन्ति वैद्याः। 
          वैद्यानां निष्कृतिवर्धनाय सर्वकारेण आकलितः सप्तति कोटि डोलर् धनानि अनुवैद्यानां स्वास्थ्य नुबन्धकर्मकराणां च निष्कृति -वर्धनाय उपयोक्तव्यानि इति न्यवेदनस्य मुख्यः  आवश्यः। सर्वकारस्य धनसाह्यः न्यूनीकृतः इत्यनेन रुग्णानां कृते अवश्यसेवां दातुं न शाक्यते इति वैद्याः वदन्ति।

Friday, March 9, 2018

कया स्त्रिया  प्रभावितः सः  इति वनितादिने नरेन्द्रमोदी।
         नवदिल्ली> 'कया अहं प्रभावितः'  इति विश्ववनितादिने प्रकाशयति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। स्वस्य सम्पदखिलं विक्रीय स्वच्छभारतदौत्यस्य भागभाक् अभवत् १०६ वयस्का वृद्धा। एतस्याः स्मृतिः एव प्रधानमन्त्रिणा ट्विट्टर् मध्ये प्रकाशितम्। छत्तीस् गढ् देशवासिनी कुण्वार् भायी नामिका वृद्धा एव मोदिनः मनसि प्रकाशरूपेण तिष्ठति। प्रधानमन्त्रिणः स्वच्छ भारतदौत्यस्य परिरक्षया स्वस्य ग्रामे शौचालयस्य निर्माणाय नेतृस्थानं स्वीकृता भवति इयं स्त्री।
एकाकी भूत्वा यात्रां कृतवत्भ्यः स्त्रीभ्यः पट्टिकायाने षट् शायिकारक्षणः लभन्ते|

         कोच्ची> पट्टिकायाने एकाकी वा स्त्रीणां वृन्दः वा यात्रां कारोति चेत् तेषां कृते षट् संख्या पर्यन्तं शायिकारक्षणानि लभन्ते इति दक्षिणरयिल् संस्थया निष्कर्षिताः। प्रति यानशालां षट् शायिका क्रमेण संक्षेपयिष्यते। वातानुकूलगृहे तृतीये द्वितीये च तिस्रः शायिका इति क्रमेण संक्षेपयिष्यते।
         आर् ए सि पट्टिकायं एकाकिनी भूत्वा स्त्रियः सन्ति चेन् प्रथगणा प्रथम स्थानीयान् विगणय्य स्त्री यात्रिकाय दातव्यं इति रयिल् मन्त्रालयेन निर्दिष्टम्I द्वितीयपरिदृष्टिः वृद्धजनानां कृते एव परिकल्पिता अस्ति। अस्मिन् काले स्त्रियः एकाकी भूत्वा अधिकतया विचरन्ति इति ज्ञात्वा एव रयिल् मन्त्रालयस्य अयम् आदेशः।

Thursday, March 8, 2018

प्रतिमाविध्वंस: गर्हणीयः  प्रधानमन्त्री। 
       नव दिल्ली > राष्ट्रे कतिपयस्थानेषु सामाजिकपरिष्कर्तृृणां नेतॄणां च प्रतिमाविध्वंसनम् अपलपन् प्रधानमन्त्री नरेन्द्रमोदी! एतादृशानां विध्वंसकप्रवर्तनानां विरुध्य तीक्ष्णः क्रियाविधिः आवश्यक इति प्रधानमन्त्री अब्रवीत्!  एतादृशानां घटनानाम् उत्तरदायिनः  जिल्लाधिकारिणः आरक्षकाधिकारिणश्च भवेयुरिति तेन प्रोक्तम्।
          गतदिनेषु त्रिपुरराज्ये लेनिनस्य , तमिल्नाटु मध्ये पेरियार् वर्यस्य , वंगदेशे श्यामप्रसाद् मुखर्जी वर्यस्य, उत्तरप्रदेशे अम्बद्कर् महोदयस्य च प्रतिमाः विध्वसिताः आसन्!
गुरुग्रामे संस्कृतकार्यशाला सम्पन्ना
         ह्यःचैत्र कृष्ण षष्ठ्यां संवत् २०१८ बुधवासरे (०८-०३-२०१८) सरलमानक संस्कृतम्-एकदिवसीया कार्यशालाया: आयोजनं गुरुग्रामस्थ द्रोणाचार्य महाविद्यालये अभवत । अस्याः कार्यशालायाः आयोजनं हरियाणा संस्कृत अकादमी पञ्चकूला ONGC-CSR-SPF परियोजनायाः संयुक्ततत्वाधाने कृतवती। अस्मिन् कार्यक्रमे मुख्यातिथिःडॉ श्रेयांश द्विवेदी उपाध्यक्ष,हरियाणा संस्कृत अकादमी ।

       कार्यशालायां चत्वारि सत्राणि  आसन्। प्रथमसत्रे किमर्थं सरलमानकसंस्कृतम् ? इति विषये मुख्यवक्ता आसीत् डा. श्रेयांश द्विवेदी । द्वितीयसत्रे सरलमानकसंस्कृतस्य स्वरूपम् इति विषये वक्ता डॉ जगदम्बे वर्मा आसीत् ।  तृतीयसत्रे प्रौढसंस्कृतस्य सरलमानकसंस्कृतेनपरिवर्तनाभ्यासः इति विषये वक्ता गौरीश:,परास्नातकश्छात्र,देहलीविश्वविद्यालय: आसीत्। चतुर्थसत्रे सर्वमान्य कसंस्कृतस्य क्रियान्वयनम् इति विषये वक्ता रूपेण डॉ मीनाक्षी पाण्डेयआसीत् ।
अस्मिन् अवसरे अनेका: संस्कृतानुरागिणःशोधकर्तारश्छात्राः च सोत्साहं भागं गृहीतवन्तः ।
आन्ध्रप्रदेशस्य सविशेषस्थानं नास्ति, टि डि पि मन्त्रिणः त्यागपत्रं समर्पितवन्तः। 
           नवदिल्ली > आन्धप्रदेशराज्यस्य सविशेषस्थितिः आर्थिकसञ्चयश्च आवश्यकः इत्यावेदनस्य अनङ्गीकारं प्रतिषिध्य केन्द्रसर्वकारात् तेलुगु देशं पार्टी [टि डि पि] दलीयाः मन्त्रिणः स्वस्थानानि त्यक्तुं निर्णयः। हैदराबादे आन्ध्रप्रदेशमुख्यमन्त्रिणः तथा दलाध्यक्षस्य च  चन्द्रबाबुनायिडोः नेतृत्वे सम्पन्ने डि पि दलस्य उन्नताधिकारोपवेशने एवायं निर्णयः। त्यागपत्रसमर्पणम् अद्य भविष्यति।
             आन्ध्रप्रदेशाय सविशेषपदवीं दातुं न शक्यते इति केन्द्रगृहमन्त्रिणा अरुण् जय्टिलिना पत्रकारसम्मेलने प्रख्यापनं कृत्वा होराणामाभ्यन्तरे एव टि डि पी नेतृत्वस्य निश्चयोऽयं जातः।
सागरमहातरङ्गं जित्वा एका कूपी, तस्यां १३२ वर्षपुरातनः सन्देशः च।
          पेर्त् > सङ्रणक यन्त्रस्य जी पि. एस् पथस्य पूर्वं सागरे जायमानान्‌ व्यत्ययान्‌ज्ञेतुम् उपयुक्तः मार्गः आसीत् । तदेव सन्देशान् काकदे विलिख्य कूप्यां संस्थाप्यः सागरे निक्षिप्य आसीत् । एतावत्  विश्वस्य पुरातनेषु पुरातनः सन्देशः गत दिने सागर तीराल्लब्धम्। अस्य कूप्याः सन्देशस्य च पुरातनत्वं द्वात्रिंशदधिकेकशतं (१३२) संवत्सराणि एव। ओस्ट्रेलिया भूखण्डस्य पश्चिमभागतीरदेशात् कूपी लब्धा। सागरस्य प्रवाहमधिकृत्य ज्ञातुं १८८६ तमे संवत्सरे निक्षिप्तः सन्देशः भवति अयम्।  सागरतेरे अटन्तः डोणिय इल्मान् इति महिलायै एव यदृछया सन्देशः लब्धः। कूप्याः विशेषतयाम् आकृष्टा सा कूपी ततः ग्रहीता। 
त्रिपुरायां व्यापकः अक्रमः अनुवर्तते।
अगर्तला > निर्वाचन फलप्रख्यापनानन्तरं त्रिपुराराज्यस्य विविधेषु स्थानेषु अक्रमप्रवर्तनानि अनुवर्तन्ते। कम्म्यूणिस्ट् नेतुः लेलिनस्य प्रतिमाः सि पि एम् दलस्य कार्यालयाश्च भग्नाः जाताः। निर्वाचनविजये मतिभ्रमग्रस्ताः भाजपादलानुयायिनः एव अक्रमस्य कर्तारः इति सिपिएम् दलीयैः आरोप्यन्ते।

Wednesday, March 7, 2018

EPISODE 78 Sanskrit News
एम् जी आर् महोदयस्य अनुपुरुषवत् आगच्छामि।
चेन्नै> अयम् आगच्छामि जयललिता महाभागया कृता शून्यता-निवारणाय इति तमिल् नटः रजनीकान्तः। तमिळ् नाट् राज्यस्य कृते कश्चन नेता आवश्यकः, सः नेता अयमेव भवामि इति तेन उक्तम्। डा. एम् जि आर् एट्यूकेषन् आन्ट् रिसर्च् संस्थायां एम् जि आर् महोदयस्य प्रतिमायाः अनाच्छादन सन्दर्भे भाषमाणः आसीत् सः। कोऽपि राजनैतिकदलीयाः  मम राजनैतिक-दलप्रवेशः न अभिलषन्ति। किमर्थं मत्तः बिभेति। एम् जि आर् महोदयमिव उत्तमं शासनं कर्तुं ममापि शक्यते।  रजनीकान्तः अवदत्। राजनैतिक प्रवर्तनानि न सुकराणि। इतः पर्यन्तं जयललिता महा भागा तथा एम् जि आर् महाभागः च आस्ताम्। द्वावपि शक्तौ वैय्यक्तिक सविशेषतायुक्तौ अस्ताम् I एतौ इदानीं न स्तौ। एतयोः स्थाने स्थित्वा जनसेवनमेव मम अभिलाषः इति रजनीकान्तः अवदत्। एम्. जि आर् महाभागमिव उत्तमं शासनं कर्तुं मम शक्यते इति मम विश्वासः इत्यपि सः अवदत्। 

Tuesday, March 6, 2018

प्रतिरोधक्षेत्रे चीनस्य विहितं भारतस्य विहितात् त्रिगुणम्।
              बैजिङ्- प्रतिरोधक्षेत्रे ८.१ प्रतिशतं  वृद्धिःकृत्वा चैनायाः आर्थिकपद्धतिः।अस्मिन् आर्थिकवर्षे १७५ बिल्यण् (१७,५०० कोटि रूप्यकाणि) अमेरिका टोलर् प्रतिरोधक्षेत्राय चैनया दत्ता। भारतस्य विहितस्य त्रिगुणमेतत्। गतवर्षे १५०.५ बिल्यण् (१५०५० कोटि रूप्यकाणि) डोलर् चैना प्रतिरोध क्षेत्रे व्ययीकृता।अमेरिक्का अनन्तरं विश्वे प्रतिरोधक्षेत्रे अधिकं धनं चैना एव व्ययीकरोति।अन्यराष्ट्रान् अनुबन्ध्य जी टी पि मध्ये देशीय आर्थिकोपभोगे च आगतस्य वृद्धेः प्रतिफलनमेव अस्यां आर्थिकपरियोजनायां वर्तते इति चैनायाः औद्योवक्ता साङ् येसूयि उक्तवान्।
दोक्ला प्रदेशे चीनेन उदग्रयानचत्वराः निर्मीयन्ते। - प्रतिरोधमन्त्रिणी।
         नवदिल्ली> दोक्ला प्रदेशेषु चीनया उदग्रयानचत्वराः तथा गर्ताः च निर्मीयन्ते इति भारतप्रतिरोधमन्त्रिणी निर्मलासीताराममहोदयया उक्तम्। निर्माणप्रवर्तनानि भारताय भीषा न इत्यपि तया विधानसभायां निवेदितः। शैत्यकाले सैन्यान् दोक्लायां संस्थापयितुमुद्दिश्य एव निर्माणप्रवर्तनानि। सार्धद्वयमासं यावत् दीर्घां  सङ्घर्षावस्थां २०१७ ओगस्ट मासे अवसिता। तदनन्तरम् उभौ राष्ट्रौ तयोः सौनिकबलं न्यूनीकृतम्। सम्मुखीकृताः सैनिकाः प्रतिनिवृत्ताः। तदनन्तरं दोक्लामस्य स्थिति विगतयः भारतेन ससूक्ष्मतया विक्ष्यते इत्यपि मिर्मलासीताराम महाभागया उक्तम्। ध्वजमेलनानि, वैयक्तिकसीमोपवेशनानि, नयतन्त्रबन्धानि च अनुवर्त्यन्ते इति च प्रतिरोध मन्त्रिण्या उक्तम्I
'दि षेप्ओफ् वाटर्' चलच्चित्रस्य चत्वारः ओस्कार् पुरस्काराः।
      लोस् आञ्चलस् > मेक्सिक्को देशीयेन गिल्लेर् मो डेल् नामकेन निदेशं कृतं 'दि षेप् ओफ् वाटर्' [जलाकृतिः] नामकं चलच्चित्रं नवतितमेन ओस्कार् पुरस्कारेण श्रेष्ठीकृतम्। मो डेल् वर्यः उत्तमनिदेशकरूपेण पुरस्कृतश्च।  
     महिला-जलमनुष्ययोः अगाधप्रणयमस्ति दि षेप् ओफ् वाटर्' चलच्चित्रस्य इतिवृत्तम्। 'डार्केस्ट् अवर्' नामके चित्रे विन्स्टण् चर्चिल् इति अमेरिक्कन् राष्ट्रपतिरूपेण अभिनयं कृतवान् 'गारी ओल्ड्मान्' नामकः  श्रेष्ठाभिनेता अभवत्। श्रेष्ठाभिनेत्री तु 'फ्रान्सस् मक्डोर्मन्ट्' नामिका ।

Monday, March 5, 2018

मेघालया नागालान्ट् राज्ययोरपि भाजपा भागभागित्वेन शासनम्।
नवदिल्ली > त्रिपुरायां प्राप्तम् उज्वलविजयमनुगम्य मेघालया नागालान्ट् राज्ययोरपि भाजपा सख्यदलानां सर्वकारयोः साध्यता वर्धते। मेघालयायां 'नाषणल् पीपिल्स् पार्टी' [एन् पि पि] दलस्य नेतुः कोण्राट् साङ्मा नामकस्य नेतृत्वे एन् पि पि-भा ज पा सख्यसर्वकारः श्वः सत्यप्रतिज्ञां करिष्यति। नाममात्रस्थानेषु विजयीभूतानि अनेकानि लघुदलानि वशीकृत्य एव केवलं स्थानद्वये विजयं प्राप्तं भाजपादलं  १९ स्थानभूतं एन् पि पि दलं च शासनाय आवश्यकी ३१ इति केवलभूयिष्ठसंख्यां प्रापतुः।
अनुरक्त्याम् अनुरक्ताः प्रेक्षकाः ।
प्रप्रथम 3D संस्कृतचलन चित्रस्य प्रेक्षकाणां अभिन्दनप्रवाहः|
    त्रिश्शिवपेरूर्> त्रिश्शिवपेरूर्> केरले सम्पन्ने विश्व चलनचित्रमेलायां भारत 'पनोरम' विभागे 'अनुरक्तिः' नाम त्रिमान (3D ) संस्कृतचलनचित्रमपि चितम् आसीत्। ह्यः (२०१८ मार्च् ४) प्रातः ९:३० वादने आसीत् प्रथम प्रदर्शनम्। त्रिश्शिवपेरूरस्थ 'श्री'  चलनचित्रगृहे एव प्रदर्शनम् आरब्धम् । बहवः जनाः, संस्कृतप्रेमिणः विद्यालयछात्राः, कलाशाला छात्राः च चलनचित्रं द्रष्टुम् आगताः। राज्यान्तरात् अपि चलचित्रं द्रष्टुम् जनाः आगाताः आसन्। प्रदर्शनानन्तरं चलनचित्र संरम्भकाः प्रेक्षकाः च मिलित्वा सङ्गोष्ठिरपि प्रचलिताः। संस्कृतचलनचित्रम् अनुरक्तिं द्रष्टुम् आगतान् जनान् दृष्ट्वा चलनचित्र प्रवर्तकाः अत्भुतस्तब्धाः अभवन्।
पाकिस्थानस्य सेनट् प्रति हिन्दु दलितयुवती।
    इस्लामबाद्> महम्मदीयानां राष्ट्रमिति सुज्ञातः पाकिस्थाने इदं प्रथमतया एका हिन्दु वनिता सेनट् इति शासनसभां प्रति चिता अस्ति। सिन्ध् प्रविश्यायाः कृष्णकुमारी कोल्हि (३९) एव शासन सभां प्रति एवं चिता वनिता। बिलावल् सर्दारि भुट्टो इत्याख्येन नेतृत्वं वोढमाणः पाकिस्थान् पीप्पिल्स् पार्टी अङ्गः भवति सा। सिन्धस्य न्यूनपक्ष स्थानतः एव कृष्णकुमारी चिता इति PTI संस्थया आवेदिता।

Saturday, March 3, 2018

भारतवंशवैज्ञानिकाय अमेरिकातः 7.5 कोटि रुप्यकाणां पुरस्कारः।
 टेक्सास्> भारतवंशवैज्ञानिकाय नवीन् वरदराजाय क्यान्सर् रोगानुबन्ध अध्ययनाय ११ लक्षं डोलर् धनस्य पुरस्कारः लब्धः। डेक्सास् कान्सर् प्रिवन्ट्षन्आन्ट्  रिसर्च् इन्स्टिट्यूट्ट् द्वारा पुरस्कारः प्रख्यापितः। अपि च गवेषकाय सङ्क्युक् च पुरस्काराय अर्हतां प्राप्ता।

नवीन् वरदराजाय 1,173,420 डोलर् धनं(  7.65 कोटि भारत रुप्यकाणि) पुरस्कारत्वेन लब्धे सति
 811,617 डोलर् धनं सङ्क्युक् चुङाय लब्धम् । ( 5.29 कोटि भारत रुप्यकाणि) हू स्टण् विश्वविद्यालयस्य केमिक्कल् आन्ट् बयोमोलिकुलार् एञ्चिनीयरिङ् विभागे असोसियेट्‌ प्रोफसर् एव भवति नवनीत् वरदराजः। बयो केमिस्ट्रि विभागे असोसियेट्‌ प्रोफसर् एव भवति सङ्क्युक् चुङ्। कान्सर् चिकित्सायां टि सेल् इम्यूणोतोरापि विद्यायाः उपयोगान् अधिकृत्य आसीत् नवीनस्य अध्ययनम्। गर्भाशयमुखस्य कान्सर् अधिकृत्य कृताध्ययनाय भवति सङ्क्युक् चुङस्य पुरस्कारः।
विधानसभानिर्वाचनफलानि - भाजपायै आह्लाददायकानि!
        नवदिल्ली > त्रिपुरा, नागालान्ट्, मेघालया राज्येषु सम्पन्नेषु  विधानसभा निर्वाचनेषु भाजपादलस्य श्रेष्ठविजयः। त्रिपुरा विधानसभानिर्वाचने  वामपक्षदलं निष्प्रभं कृत्वा इदंप्रथमतया भाजपादलं शासनाधिकारं सम्प्राप्तवत्। नागालान्ट् राज्ये 'नागा पीपिल्स् फ्रन्ट्' नामकं एन् पि एफ् दलं विजयसोपानं प्राप्तवत्। किन्तु मेघालयायां न केनापि दलेन शासनानुकूलभूरिपक्षं सम्प्राप्तम्। 
         त्रिपुरायां पञ्चविंशतिसंवत्सराणां सिपिएम् नेतृत्वे विद्यमानस्य वामपक्षदलस्य शासनपरम्परायाः अन्त्यं कृत्वा एव २/३ परिमितैः स्थानैः भाजपादलेन विजयपीठमायातम्! सि पि एम् दलन्तु १५ स्थानेषु सङ्कोचते स्म। शासनाय येनकेनापि दलेन केवलभूयिष्ठभागप्राप्तिमलभमाने मेघालयाराज्ये २१ स्थानैः कोण्ग्रस् दलं बृहद्दलम् अभवत्।
जयेन्द्रसरस्वतिस्वामिनां 'वृन्दावनप्रवेशकार्यक्रमः' सम्पन्नः। 
चेन्नै > शतशः भक्तानां शिष्याणां च सान्निध्ये  गतदिने समाधिस्थानां  काञ्चि मठाधिपतिनां स्वामिनां जयेन्द्रसरस्वति शङ्कराचार्याणां वृन्दावनप्रवेशनामकः समाध्युपावेशकार्यक्रमः सम्पन्नः।  काञ्चि कामकोटिमठस्य पृष्ठतः सम्पन्ने कार्यक्रमे नियुक्तमठाधिपतिः विजयेन्द्रसरस्वतिस्वामिनः मुख्यकार्मिकत्वम् अभजत। तमिळ्नाट् राज्यपालः बन्वारि लाल् पुरोहितादयः प्रमुखाः कार्यक्रमे$स्मिन् सन्निहिताः आसन्!   काञ्चिकामकोटिमठस्य आचार्यस्थाने विजयेन्द्रसरस्वतिस्वामिनः नियुक्ताः अभवन्!

Friday, March 2, 2018

आतपस्य मासाः आगमिष्यते। अत्युष्णेन केरलम् अपिI
           कोच्ची > केरलेषु फेब्रुवरि मासस्य अन्तिमभागे एव अत्युष्णम् आरब्धम्।  उष्णमापिन्यां तापः ४०° सेल्स्यस्  पारंगतः इत्यनेन अत्युष्णम् भविष्यति इति अभिज्ञानां मतम्। शनिवासरपर्यन्तं सामान्यतापमानात् चत्वारः आरभ्य दशडिग्री पर्यन्तं वर्धनं भविष्यति इति वातावरणनिरीक्षणकेन्द्रेण उच्यते। २७तः २९° पर्यन्तमासीत् केरलस्य सामान्यतापमानः। मार्च् मासतः मेय् मासपर्यन्तम् सामान्यतापमाने ०.५° वर्धनं भविष्यति इति वातावरणनिरीक्षणविभास्य आवेदने अस्ति। पालक्काट् जनपदे तापमानः ४०° इदानीमेव अभवत्। मार्च् मासस्य मध्यभागे  सूर्यः भूमध्यरेखायाः उपरि आगमिष्यति। तदा मेघशकालानि अपि न भविष्यन्ति इत्येनन सूर्यातपः भूमौ साक्षात् पतिष्यति। अतः सूर्याघातस्य सन्दर्भः भविष्यति इति कुसाट्‌ रडार्  नीरीक्षण केन्द्रस्य गवेषकेण डा. एम् जि मनोजेन उक्तम्।
भीकरवादान्  विरुद्ध्य एव युद्धम् माहम्मदीयान्  विरुद्ध्य न- जोर्दानस्य राजा।
             नवदिल्ली>  आतङ्कवादान्  विरुद्ध्य आगोलयुद्धम् किञ्चन धर्मं वा माहम्मदीयान् वा विरुद्ध्य न जोर्दान् राष्ट्रस्य  राजा अब्दुल्ला द्वितीयः अवदत्। नवदिल्याम् 'इस्लामिक् हेरिट्टेज् , प्रोमोट्टिङ् ऑटर स्टान्टिङ्‌ आन्ट् मोडरेषन् इति विषये आयोजिते चार्चाकार्यक्रमे भाषमाणः आसीत् सः। एतदेव मम विश्वासः । मया मम पुत्राः एतदेव पाठिताः I १८० कोटि जनैः स्वांशीकृतः विश्वासः अपि एषः एव । आतङ्कवादान् विरुद्ध्य आगोलयुद्धम् धर्मविरुद्धं न॥ धर्मानुष्ठानविरुद्धं न। इति जोर्दानस्यराज्ञा उक्तम्।

Thursday, March 1, 2018

अतिशैत्येन कम्पते ब्रिट्टन् देशः
          लण्टन्> सैबीरियस्य शैत्य वाते हिमपाते च भीत्या ब्रिट्टण् देशः। अतिशैत्यहिमः सुशक्तवातः च  युगपदेन अभवत् इत्यनेन  जनाः बहु श्रान्त्राः। रोड् ट्रयिन् व्योमगतागताः  वातावरणव्यतिलोमेन स्तगिताः। शताधिकानां पट्टिकाशकटानां यात्रा निवारिता। अपघाते त्रयः मृताः। कठिनहिमपातः अनुवर्तते इत्यनेन ग्रामाः प्रथक् पृथक् अभवन् । रूक्षहिमपात प्रदेशेषु विद्यमानविद्यालयानां विरामः प्रख्यापितः।
         केन्ट्, सरे, सफोक्स्, ससेक्स् प्रदेशेषु हिमपातः रूक्षतया अनुवर्तते। दशसेन्टीमीट्टर् अधिकं घनीभूतानि भवन्ति अत्र हिमावरणानि।