Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः

Monday, June 29, 2020

Bookmark and Share
 ‘मनोगत’प्रसारण-तिथि:-२८–जून-मासः, २०२०
‘मन की बात’

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
      मम प्रियाः देशवासिनः, नमस्कारः | ‘मनोगत’-प्रसारणं २०२०-वर्षे स्वीयाम् अर्ध-यात्राम् अधुना पूर्णताम् नयति | अस्मिन्नवधौ वयम् अनेकान् विषयान् चर्चितवन्तः I स्वाभाविकमिदं यत् या वैश्विकी महामारी समापतिता, मानवजातौ  सङ्कटम् आपतितम्, तदधिकृत्य, अस्माकं सम्भाषणं किञ्चित् अधिकतरमेवासीत् तथा चेदं स्वाभाविकमपि आसीत्, परञ्च, एतेषु दिनेष्वहं पश्यामि, सततं जनेषु, अन्यतम-विषयमाधृत्य चर्चा भवति, यत् अन्ततः वर्षमिदं कदा यापितं भविष्यति? कश्चन केनापि साकं दूरभाषेण सम्भाषते, तदा सम्भाषणं तु, अमुं विषयमाधृत्यैव आरभ्यते, यत् वर्षमिदं सत्वरं कथन्न यापितं भवति? कश्चन लिखति, मित्रैः सम्भाषते वा, तदा  कथयति, यत् वर्षमिदं समीचीनं नास्ति, कश्चन कथयति – २०२०-वर्षं शुभं नास्ति I केवलं, जनाः इदमेव इच्छन्ति यत् येन केनापि प्रकारेण
वर्षमिदं शीघ्रतरम् अपगच्छेत् I
सुहृदः, कदाचिदहं विचारयामि यत् एवं कथं भूयते, सम्भाव्यते यदेतादृक्-सम्भाषणस्य कानिचित् कारणानि अपि भवेयुः | षड्भ्यः सप्तभ्यो वा मासेभ्यः प्राक्, न वयम् अवगताः स्मः यत् कोरोना-सदृशं सङ्कटं समापत्स्यते, तथा च, एतद्-विरुध्य युद्धमिदं एतावद्-दीर्घं प्रचलिष्यति I सङ्कटमिदं तु प्रवर्तते एव, एतदुपरि, देशे प्रत्यहं नव-नवीनानि समाह्वानानि सततं सम्मुखं समायान्ति  | नातिचिरं, कतिपय-दिनेभ्यः प्राक्, देशस्य पूर्वीय-प्रान्ते Cyclone Amphan-इति सामुद्रिक-झञ्झावातः समापतितः, अपरत्र, पश्चिमीये प्रान्ते Cyclone Nisarg- सामुद्रिकः निसर्गः इति झञ्झावातः समापन्नः I कतिपयेषु तु राज्येषु अस्मदीयाः कृषक-भगिनी-भ्रातरः शलभ-समूहैः प्रतोदिताः सन्ति, एवं हि, नाधिकं परञ्च, देशस्य कतिपयेषु स्थानेषु लघु-लघु-भूकम्पाः न मनागपि अवरुद्धाः भवन्ति, तथा च, एतादृश्यां स्थितौ, अस्माकं कतिपयैः प्रतिवेशिभिः यत् किमपि आचर्यते, देशः एतानि समाह्वानानि अपि समाधातुं सर्वात्मना प्रयतते I सत्यमेव, युगपद् एतावत्यः आपदः, एतावत्-स्तरीयाः आपदः,  नाधिकतरं द्रष्टुं वा श्रोतुं लभ्यन्ते I स्थितिस्तु तादृशी सञ्जाता यत् काचिद् लघ्वी अपि घटना भवति चेत् जनाः तामपि एतैः समाह्वानैः संयोज्य अवलोकयन्ति I
सखायः, काठिन्यानि आगच्छन्ति, सङ्कटानि समापतन्ति, परञ्च, प्रश्नस्तु अयमेव, यत् किम् आसाम् आपदां कारणात् अस्माभिः किं २०२०-इति वर्षम् अशुभमिति स्वीकर्तव्यम्? किं वर्षस्य पूर्वार्धं - षण्मासाः यथा व्यतीताः, तत्कारणात्, एवम् आमन्तव्यं यत् पूर्णमपि वर्षम् एतादृशमेवास्ति, किमेतादृक् चिन्तनं समुचितं वा? न कदाचिदपि I
मम प्रियाः देशवासिनः - न कदाचिदपि I एकस्मिन् वर्षे एकमेव समाह्वानं समागच्छेत् वा पञ्चाशत् समाह्वानानि भवेयुः, संख्यायाः न्यूनाधिक्येन वा, तद्वर्षम् अशुभं नैव भवति I भारतस्य इतिहासः एव आपदः समाह्वानानि च विजित्य, समधिक-प्रभावि-निष्क्रमणस्य कथास्ति I शताधिक-वर्षाणि यावत् पृथक्-पृथक्-आक्रान्तारः भारतम् आक्रमन्त, एनत् सङ्कट-गर्ते पातितवन्तः, जनाः एवं विचारयन्ति स्म यत् भारतस्य संरचना एव विनङ्क्षति, भारतस्य संस्कृतिः एव समाप्तिमेष्यति, परञ्च, एतानि सङ्कटानि सम्मुखीकृत्य भारतं ततोsपि भव्यतरं भूत्वा समुपागतः I
सुहृदः, अस्माकं चिन्तनेषु निगद्यते – सर्जनं शाश्वतम्, सर्जनञ्च निरन्तरम् I
एकस्य गीतस्य काश्चन पङ्क्तीः स्मरामि –
यह कल-कल छल-छल बहती, क्या कहती गंगाधारा ?
यह कल-कल छल-छल बहती, क्या कहती गंगाधारा ?
युग-युग से बहता आता, यह पुण्य प्रवाह हमारा I
तस्मिन्नेव गीते, अग्रे प्रोक्तम् –
क्या उसको रोक सकेंगे, मिटनेवाले मिट जाएं,
कंकड़-पत्थर की हस्ती,  कंकड़-पत्थर की हस्ती,
क्या बाधा बनकर आए I
भारतेsपि, यत्र एकतः, बृहन्ति सङ्कटानि आगच्छन्ति स्मः, तत्रैव, सर्वाः बाधाः दूरीकुर्वन्ति असंख्यानि सर्जनानि अपि जातानि I नवीनानि साहित्यानि विरचितानि, नूतनानि अनुसन्धानानि अनुष्ठितानि, अभिनवाः सिद्धान्ताः विरचिताः, अर्थात्, सङ्कटावधौ अपि, प्रत्येकस्मिन् क्षेत्रे, सर्जनस्य प्रक्रिया सततं प्रवर्तमानासीत्, तथा चास्मदीया संस्कृतिः पुष्पिता पल्लविता सती विराजते, देशः सततम् अग्रेसरन् सुशोभते I भारतं सर्वदैव, सङ्कटानि, सफलतायाः सोपानेषु परिवर्तितवत् | अनया भावनया साकम्,  अद्यापि, अस्माभिः, एतेषु सर्वेषु सङ्कटेषु सत्स्वपि सततम् अग्रे सरणीयमेव I भवन्तोsपि अमुना विचारेण सार्धमेव अग्रेसरिष्यन्ति, त्रिंशदुत्तरैकशत-कोटि-मिताः देशवासिनः अग्रेसरिष्यन्ति चेत्, इदमेव वर्षं, देशस्य कृते नूतनानां कीर्तिमानानां सर्जकत्वेन सेत्स्यति  I अस्मिन्नेव वर्षे, देशः, नवीनानि लक्ष्याणि प्राप्स्यति, नूतनोड्डयनानि विधास्यति, अभिनवाञ्च उच्छ्रिततां स्प्रक्ष्यति I त्रिंशदुत्तरैकशत-कोटि-मितानां  देशवासिनां शक्तौ अहं पूर्णतया विश्वसिमि, भवत्सु सर्वेष्वपि, अस्य देशस्य महतीषु परम्परासु चापि दृढं विश्वसिमि I
मम प्रियाः देशवासिनः, सङ्कटानि यावन्ति नाम भवन्तु बृहन्ति, भारतस्य संस्काराः, निःस्वार्थ-भावेन सेवानुष्ठानं प्रेरयन्ति  I भारतं येन प्रकारेण दुष्कर-स्थितौ विश्वस्य साहाय्यम् अकरोत्, तेन हि साम्प्रतम्, शान्ति-विकासयोः भारतस्य भूमिका दृढतरा विहिता I  अस्मिन्नवधौ संसारः भारतस्य विश्व-बन्धुत्वस्य भावनामपि अन्वभवत्, युगपदेव, अशेष-विश्वं निज-सीम-सम्प्रभुतयोः रक्षणार्थं भारतस्य शक्तिं प्रतिबद्धताञ्चापि अवालोकयत् | लद्दाख-क्षेत्रे भारत-भूमौ, नयने विस्फार्य दर्शन-पराः, समुचितोत्तरं प्राप्तवन्तः | भारतम्, मित्रतां निभालयितुमपि जानाति, युगपदेव, अक्ष्णोः दृष्टिं निपात्य उचितोत्तरं प्रदातुमपि जानाति | अस्मदीयाः वीर-सैनिकाः दर्शितवन्तः यत्, ते, कदाचिदपि मातुः भारत्याः गौरवं प्रहर्तुं नैवानुज्ञास्यन्ति |
सुहृदः, लद्दाख-क्षेत्रे अस्मदीयाः ये वीर-भटाः हुतात्मनो जाताः, तेषां शौर्यं प्रति अशेष-देशः प्रणमति, श्रद्धाञ्जलिं चार्पयति | कृत्स्नोsपि देशः तेषां कृतज्ञोsस्ति, तेषां समक्षं नत-मस्तकोsस्ति | एतेषां वीराणां कुटुम्ब-जनान् इव, प्रत्येकमपि भारतीयः, एतेषां वियुक्ति-वेदनामपि अनुभवति | स्वीय-वीर-भटानां बलिदान-विषयिणी या गौरव-भावना निज-कुटुम्ब-जनेषु विद्यते, देशस्य कृते या निष्ठास्ति – एषैव अस्ति देशस्य शक्तिः | भवन्तः दृष्टवन्तः स्युः, येषां सुताः हुतात्मानो जाताः, तौ पितरौ, स्वीयान् अन्यान् आत्मजान् अपि, गृहस्य अपरान् अपि पुत्रान्, सेनासु प्रेषयितुं कथयतः | बिहार-वास्तव्यस्य हुतात्मनः कुन्दन्-कुमारस्य जनकस्य शब्दाः कर्ण-कुहरेषु गुञ्जायमानाः सन्ति | सः कथयन्नासीत् - स्वीय-पौत्रान् अपि, देशस्य रक्षार्थं, सेनासु प्रेषयिष्यामि | अयमेव समुत्साहः प्रत्येकमपि हुतात्मनः कुटुम्बस्य वर्तते | वस्तुतस्तु, एतेषां परिजनानां त्यागः पूजनीयोsस्ति | भारत-मातुः रक्षायाः यं सङ्कल्पम् अभिलक्ष्य अस्मदीयाः भटाः प्राणोत्सर्गं कृतवन्तः, सः एव सङ्कल्पः अस्माकमपि जीवनस्य ध्येयं स्यादिति प्रत्येकमपि देशवासी नूनं चिन्तयेत् | अस्माकं प्रत्येकमपि प्रयासः अस्यामेव दिशि स्यात्, येन हि, सीमानां रक्षायाः कृते देशस्य शक्तिः सम्वर्धेत, देशः इतःपरमपि अधिकतरं प्रक्षमेत, देशः आत्मनिर्भरः स्यात् – एषः एव, अस्मदीयानां हुतात्मनां पुण्यस्मृतौ यथार्थः श्रद्धाञ्जलिरपि भविता | असम-तः रजनी-महोदया माम् अलिखत्, सा, पूर्वीये लद्दाख-क्षेत्रे यत् किमपि घटितं तद्-दृष्ट्वा, निर्णयमेकं व्यदधात् – निर्णयोsयमस्ति यत् सा local-इति स्थानिकानि वस्तूनि एव क्रेष्यति, न केवलम् एतावदेव, local-इत्यस्य कृते vocal-इति अस्य प्रचारमपि करिष्यति | एतादृशाः सन्देशाः, अहं, देशस्य प्रत्येकमपि कोणात् सततं अवाप्नोमि | अनेके जनाः पत्राणि लिखित्वा मां सूचयन्ति यत्, ते अस्यां दिशि प्रस्थिताः एव | एवमेव, तमिलनाडोः मदुरैतः मोहन- राममूर्ति-महोदयः अलिखत् यत्, सः, भारतं प्रतिरक्षा-क्षेत्रे आत्मनिर्भरं द्रष्टुं वाञ्छति |
सुहृदः, स्वतन्त्रता-पूर्वम् अस्माकं राष्ट्रं प्रतिरक्षाक्षेत्रे जगत: विविधेभ्यो राष्ट्रेभ्यः श्रेष्ठम् आसीत्। अत्र भूरि आयुध-निर्माण्यः आसन्। तस्मिन् काले यानि राष्ट्राणि अस्मत् पश्चादासन् तानि सम्प्रति अस्मदग्रे तिष्ठन्ति । स्वतन्त्रतानन्तरं प्रतिरक्षाक्षेत्रे अस्माभिः ये प्रयासाः करणीया‌ आसन्, अस्माभिः पुरातनानुभवानां यल्लाभः स्वीकरणीय आसीत्, तन्न कृतम्। परमद्य प्रतिरक्षाक्षेत्रे प्रविधौ च भारतम् अनवरतं समेधितुं प्रयतते, भारतम् आत्मनिर्भरता-दिशि प्रवर्धते।
 
सखायः, किञ्चिदपि अभियानं जनसहभागितां विना पूर्णतां न याति। सफलं न भविष्यति, अत एव आत्मनिर्भर-भारतदिशि नागरिकत्वेन अस्माकं सङ्कल्पः समर्पणं सहयोगश्चावश्यका‌ अनिवार्याश्च सन्ति। भवन्तः यदि local-इति स्वदेशे निर्मितवस्तूनि क्रेष्यन्ति, एतदर्थञ्च vocal-इत्यस्य प्रचारं करिष्यन्ति, तदर्थं समर्पिताः भविष्यन्ति चेत्तदा नूनम् अवगच्छन्तु- देशस्य दृढतायां निजभूमिकां निवर्क्ष्यन्ति। इदमपि देशसेवायाः कर्म विद्यते। भवन्तः कामपि वृत्तिमनुपालयन्तो विद्यन्ते, तत्र देशसेवायाः स्थानं निश्चयेन वर्तते, देशस्यावश्यकतां निध्याय यत्कार्यं कुर्वन्ति, तद्देशसेवा एव। भवतामियमेव देशसेवा कथमपि राष्ट्रं समुन्नयति, अस्माभिरपि स्मर्तव्यं यत् - अस्माकं राष्ट्रं यावत् प्रबलं भविष्यति तावत् जगति शान्तिसम्भावनाः प्रबलतराः भविष्यन्ति। प्रोक्तं च यत्  -
विद्या विवादाय धनं मदाय, शक्ति: परेषां परिपीडनाय |
खलस्य साधो: विपरीतमेतत्, ज्ञानाय दानाय च रक्षणाय ||
अर्थात्, यदि कश्चन स्वभावेन दुष्टो वर्तते चेदसौ विद्यायाः प्रयोगं विवादे, धनस्य प्रयोगम् अहङ्कारे, शक्तिप्रयोगं चान्येभ्यः कष्टप्रदानाय करोति, परं सज्जनानां विद्या ज्ञानाय धनं सहायतायै, शक्तिः रक्षायै च प्रयुज्यते। भारतेन स्वीय-शक्तिः सर्वदैवानया भावनया प्रयुक्ता, भारतस्य सङ्कल्पः - भारतस्य स्वाभिमान-सम्प्रभुतयोः रक्षा वर्तते| भारतस्य लक्ष्यम् – आत्मनिर्भरभारतम् | भारतस्य परम्परास्ति – विश्वासः, मित्रता च| भारतस्य भावो विद्यते– बन्धुता,  वयमेतैः आदर्शैः साकमेव सततम् अग्रेसरिष्यामः ।
मम प्रियाः देशवासिनः, कोरोनासङ्कटकाले राष्ट्रं सञ्चार-रोधात् निर्गतम्, इदानीं वयं पुनरुद्घाटनदिशि स्मः | अस्मिन् समये वृत्त-द्वयं सम्यक्तया अवधेयम् – कोरोनापराजयः, अथ च, अर्थव्यवस्थायाः दृढीकरणम् – समुन्नयनञ्च ।
सखायः, सञ्चार-रोधापेक्षया पुनः सञ्चालनसमये अस्माभिः सावधानता परिपालनीया, अवधानमेव कोरोना-सङ्क्रमणं जेष्यति। सदैवावधेयं यत् मुखावरणं सन्धारणीयम्, सामाजिकदूरता च परिपालनीया। अथ च, अन्यानुपायान् नैव परिपालयामः चेत् आत्मनः परेषां च हानिः भविष्यति,  विशेषतया बालाः वृद्धाश्च सर्वत्र वारणीयाः। अतः देशवासिनो वारं वारं विनिवेद्यन्ते यत् भवन्तः अनवधानतां त्यजन्तु, आत्मनः परेषां च हितं चिन्तयन्तु ।
सुहृदः, unlock इति पुनःसञ्चालनसमये नैके तादृशविषयाः अपि पुनरारब्धाः येषु भारतं दशकेभ्यः प्रतिबन्धितमासीत्। वर्षेभ्यः अस्माकं खननक्षेत्रमपि पिनद्धमासीत्। व्यावसायिक-सघोषनिर्णयेन स्थितिः पूर्णतया परिवर्तिता।  कतिपयदिवसपूर्वमेव अन्तरिक्षक्षेत्रे ऐतिह्यपूर्णं समुन्नयनं विहितम्। येन वर्षेभ्यः बाधितं क्षेत्रं स्वतन्त्रतां गतम्। अनेनात्मनिर्भरभारताय न केवलं गतिर्भविष्यति। अपितु राष्ट्रं प्रविधावपि समेधिष्यते। नैजं कृषिक्षेत्रमवलोकयामश्चेत् अत्रापि बहूनि वस्तूनि वर्षेभ्यः पिहितानि आसन्, परमिदानीं तान्यपि पुनरारब्धानि, अनेन एकतो कृषकाय शस्यं, कुत्रापि कस्मैचिदपि अपि विक्रयानुमतिः विद्यते, अपरत्र तेभ्यः ऋणाधिक्यप्राप्तिरपि सुनिश्चिता। एवमनेकानि क्षेत्राणि सन्ति येषु राष्ट्रम् अस्मिन् सङ्कटकाले ऐतिहासिकनिर्णयान् स्वीकृत्य विकासाय नूतन-मार्गान् उद्घाटयति।            
   मम प्रियाः देशवासिनः, प्रत्येकस्मिन् मासे तादृश्यो वार्ताः सम्मुखीक्रियन्ते याः अस्मान् भावुकतां प्रति नयन्ति। अस्मान् स्मारयन्ति च यत् कथं भारतीयाः परस्परं साहाय्यं विधातुं तत्परास्सन्ति, यत्किमपि कर्तुं प्रभवन्ति, तत्कुर्वन्ति।    
   अरुणाचलप्रदेशस्य एका प्रेरककथा मया सामाजिकसञ्चारमाध्यमे पठिता। अरुणाचल- प्रदेशस्य सियांगजनपदे मिरेमग्रामेण तत्कार्यं कृतं यत् सम्पूर्णभारताय आदर्शस्वरूपं सञ्जातम्। ग्रामस्य नैके जनाः अन्यत्र कार्यं कुर्वन्ति, ग्रामवासिभिर्दृष्टं यत् कोरोना-महामारी काले समेsपि ग्रामं प्रत्यागताः, अतः सर्वैरपि पूर्वमेव ग्रामाद्बहिः सङ्ग-रोधिवासव्यवस्था निर्णीता, तैः सम्भूय ग्रामं निकषा चतुर्दशापत्गृहाणि निर्मितानि, सहैव निर्णीतं - यदि कश्चनागमिष्यति चेत् तत्रैव निवासं करिष्यति, तत्र शौचालयं जलं विद्युत्व्यवस्थां च समेत्य दैनन्दिनोपयोगिसामग्री सुलभायिता। मिरेम-ग्रामवासिनां सामूहिकप्रयासेन जागरूकतया च समेषां ध्यानमाकर्षितम्।
सखायः, प्रोक्तं हि यत् -
स्वभावं न जहात्येव, साधु: आपद्गतोsपि सन् |
कर्पूर: पावक-स्पृष्ट: सौरभं लभतेतराम्   ||
अर्थात्, यथा कर्पूरम् अग्नौ तप्ते सति सुगन्धिं न जहाति, तथैव सज्जनाः आपद्गताः सन्तोsपि गुणान् स्वभावञ्च नैव त्यजन्ति। अद्य अस्माकं या श्रमशक्तिरस्ति, श्रमिकमित्राणि विद्यन्ते, तेSपि अस्य वचनस्य प्रत्यक्षोदाहरणस्वरूपास्सन्ति। वयं पश्यामः - एतेषु दिनेषु श्रमिकाणां नैकाः कथास्सन्ति, ताः देशवासिभ्यः प्रेरणादायिन्यः सन्ति। उत्तरप्रदेशस्य बाराबंकी-जनपदे प्रत्यागतैः श्रमिकैः कल्याणकारिण्यै नद्यै प्राकृतिकस्वरूपं प्रदातुं कार्यमारब्धम्।  नद्याः पुनरुद्धारं दृष्ट्वा तत्रत्याः कृषकाः निवासिनश्चोत्साहिनो दृश्यन्ते। ग्राममुपेत्य सङ्गरोधं परिपालयन्तः अस्माकं श्रमिकबान्धवाः यथा स्वकीयं कौशलं प्रयुज्य परिवेशं परिवर्तयन्ति, तदद्भुतं वर्तते। एवमेव देशस्य लक्षशो जनाः सन्ति येषां कथा अस्माभिः नैव ज्ञायते। यथास्माकं देशस्य स्वभावो विद्यते, अहं विश्वासं प्रकटयामि यत् भवतां ग्रामे प्रतिवेशि-परिदृश्ये च एतादृश्यो घटनाः भवद्भिः दृष्टाः चेत् मां सूचयन्तु, सङ्कटकाले इमाः कथाः घटनाः च अन्येभ्यः प्रेरणां यच्छन्ति।
मम प्रियाः देशवासिनः, कोरोना-सङ्क्रमणेन निश्चितरूपेण अस्माकं जीवनपद्धतौ परिवर्तनम् आनीतम्। अहं लन्डन्-नगरात् प्रकाशितायाम् Financial Times इति पत्रिकायां रुचिकरं लेखमेकम् अपठम्। तस्मिन् लिखितमासीत् यत् कोरोना-सङ्क्रमणकाले आद्रकं हरिद्रां च समेत्य अन्योपस्कराणाम् आवश्यकता एशियामहाद्वीपेन साकम् अमेरिकादेशेsपि सम्वर्धिता। सम्पूर्णमपि जगत् इदानीं रोगप्रतिरोधि-क्षमतासम्वर्धनं काङ्क्षते । एतेषां वस्तूनां सम्बन्धः  भारतेन सह विद्यते। अस्माभिरेतेषामावश्यकता जगति सहजतया सरलतया च प्रतिपादनीया। येन ते सारल्येनाधिगन्तुं शक्नुयुः यत् Healthier Planet इति स्वस्थतर-परिवेशं निर्मातुं वयमस्माकं योगदानं दातुं शक्नुयाम |
मम प्रियाः देशवासिनः, कोरोना-सदृश-संकटाभावे जीवनं किमस्ति, जीवनं किमर्थमस्ति, जीवनं कीदृशमस्ति, मन्ये, एते विषयाः सम्मुखं नैवागमिष्यन्तीति प्रतीयते। अनेके जनाः अनेनेव कारणेन मानसिकव्याधिमयं जीवनं यापयन्ति। अपरत्र जनैः इदमपि प्रोक्तं यत् कथं सङ्गरोधसमये सुखस्य लघुप्रकरणान्यपि जीवने दृष्टानि। नैके जनाः मह्यं कुटुम्बि-जनेभ्यः साकं पारम्परिक-क्रीडानाम् आनन्दानुभवान् प्रेषितवन्तः।
सुहृदः, अस्माकं देशे पारम्परिक-क्रीडानां समृद्ध-रिक्थम् वर्तते । यथा भवद्भिरेका क्रीडा श्रुता स्यात् - पचीसी इति, पञ्चविंशतिः। इयं क्रीडा तमिलनाडुराज्ये “पल्लान्गुली”, कर्नाटके ‘अलि –गुलि-मणे’, आन्ध्र-प्रदेशे “वामन-गुंटलू” इति नाम्ना क्रीड्यते। इयं तादृशी क्रीडास्ति यस्यां फलकमेकं प्रयुज्यते। फलके च छिद्राणि भवन्ति, तेषु विद्यमाना गुलिका उत वा बीजानि क्रीडकैः स्वीकर्तव्यानि भवन्ति। प्रोच्यते यदेषा क्रीडा दक्षिणभारतात्  दक्षिण-पूर्वेशिया-क्षेत्रे ततः परं जगति च प्रसरिता।
सखायः, अद्य प्रत्येकं बालः ‘साँप-सीढी’ इति सर्पसोपानक्रीडां जानाति। परं किं भवन्तः जानन्ति एषा क्रीडा अपि भारतीया पारम्परिकी क्रीडा अस्ति, या हि ‘मोक्षपाटम’ उत ‘परमपदम’ इत्यादिभिः नामभिः ज्ञायते। अस्माकीनम् एकम् इतोsपि खेलनं ‘गुट्टा’ इति अवर्तत । ज्येष्ठाः अपि गुट्टेति क्रीडन्ति, कनिष्ठाः बालाः अपि। केवलं पञ्च लघूनि सम-शिलाखण्डानि उत्थापयन्तु, ततः भवन्तः क्रीडितुं सिद्धाः। एकं शिलाखण्‍डम्‌ ऊर्ध्वं क्षिपतु, यावता सः शिलाखण्डं वायौ भवति, तावता अन्यशिलाखण्डानि उत्थापनीयानि भवन्ति। सामान्यतया अस्मभ्यम्‌‌ अन्तःपरिसरक्रीडाभ्यः अधिकानां संसाधनानाम् आवश्यकता न भवति। कश्चन एकः, सुधाखण्डं पाषाणखण्डं वा आनयति, तेन भूमौ रेखाः निर्माति,  ततः क्रीडा आरभते। यासु क्रीडासु Dice इति पार्श्वकस्य आवश्यकता भवति, तस्य विकल्पत्वेन ‘कौडी’ इति लघुशङ्खस्य तिन्तिडिकायाः बीजस्य वा प्रयोगः क्रियते।
मित्राणि, अहं भावयामि,  अद्य, यदा अहम्‌ अस्मिन् विषये वदन् अस्मि, बहवः जनाः स्वबाल्यकालं प्रति गताः स्युः, कतिपयाः स्वीयानि बालदिनानि स्मरन्तः स्युः। अहम् एवं कथयामि किमर्थं भवन्तः तानि दिनानि विस्मरन्ति?  ताः क्रीडाः किमर्थं विस्मरन्ति? अहं गृहवर्तिभ्यः मातामही-मातामहेभ्यः पितामही-पितामहेभ्यः ज्येष्ठेभ्यः च साग्रहं विनिवेदयामि, यदि भवन्तः अधुनातने वंशे एताः क्रीडाः न प्रकाशयिष्यन्ति तर्हि के प्रकाशयिष्यन्ति?  यदा अन्तर्जालीयस्य अध्ययनस्य विषयः आयाति तदा साम्यं कर्तुं, अपि अन्तर्जालीयक्रीडातः मुक्तये एवं प्रकारेण आचरणीयम् एव भवेत्। अस्माकं यूनां कृते, नवोद्योगस्य आरम्भार्थं अत्र कश्चन नूतनः सुदृढः च अवसरः अस्ति। वयं भारतस्य पारम्परिकीः क्रीडाः नूतने आकर्षक-कलेवरे प्रस्तुमः। तत्सम्बद्धाः सामग्री-सङ्ग्राहकाः, वितरकाः, नवोद्योगाः अतिप्रसिद्धाः भविष्यन्ति। एतत् अपि चिन्तनीयं यत् अस्माकं क्रीडाः अपि स्थानीयाः एव। वयं च स्थान-निर्मातृ-वस्तुभ्यः आग्रहिणः भवितुं कृतसङ्कल्पाः स्मः।
अयि मम बालसखायः, प्रत्येकं गृहस्य बालेभ्यः, युवबालेभ्यः अहं विशिष्टम् आग्रहं करोमि। बालाः, भवन्तः मम आग्रहं परिपालयिष्यन्ति किल?  शृण्वन्तु, यद् अहं वदामि तत् निश्चयेन कुर्वन्तु - यदा विरामः भवेत्, पितरौ पृष्ट्वा दूरभाषं स्वीकुर्वन्तु। गृहे उपलब्धानां पितामहेत्यादीनां वयोवृद्धानां सम्वादं स्वीकुर्वन्तु। तस्य चलचित्राङ्कनं कुर्वन्तु। दूरदर्शने भवन्तः दृष्टवन्तः स्युः, यथा पत्रकाराः सम्वादं कुर्वन्ति तथैव भवन्तः अपि कुर्वन्तु। अन्यत् किं किं भवन्तः प्रष्टुं शक्नुवन्ति अस्मिन् विषये, अहं परामर्शान् वदामि। भवन्तः एतत् अवश्यं पृच्छन्तु यत् बाल्यकाले तेषां जीवनं कथम् आसीत्?  कीदृश्यः क्रीडाः खेलन्ति स्म? ते कदापि नाटकं चलचित्रं द्रष्टुं गतवन्तः वा? अवकाशदिनेषु मातुलग्रामं गतवन्तः वा? तैः कृषिक्षेत्राणि गतानि वा?  बहुविधं भवन्तः प्रष्टुं शक्नुवन्ति। इदानीं चत्वारिंशत् पञ्चाशत् षष्टिः वा वर्षाणि पूर्वं घटिताः घटनाः स्मृत्वा तेषां महान् आनन्दः भविष्यति। अथ च, भवतां कृते ज्ञानवर्धकं भविष्यति यत् उपपञ्चाशति-वर्षाणि पूर्वं भारतं कथम् आसीत्। भवन्तः यत्र वसन्ति तत् स्थानं कीदृशम् आसीत्? परिसरः कीदृशः आसीत्?  जनानां स्वभावः कीदृशः आसीत्?  एतत् सर्वमपि सहजतया भवन्तः ज्ञास्यन्ति,  नूतनं शिक्षिष्यन्ति, आनन्दिताः भविष्यन्ति। परिवाराय अपि एषः अमूल्यः न्यासः भविष्यति। एकः परिवारस्य चलचित्रपचः अपि निर्मितः भविष्यति।
सुहृदः, सत्यम् इदं यत् आत्मकथाः जीवन्यः वा इतिहासस्य सत्यतायाः निकटं गन्तुम् उत्कृष्टमार्गत्वेन भवन्ति। भवन्तः यदा तैः सह सम्वादं करिष्यन्ति, तदा तत्कालीनेन वृत्तेन तेषां बाल्यकालविषये इतोsपि सरलतया अवगमिष्यन्ति। एषः शुभावसरः अस्ति - वयोवृद्धाः अपि स्वबाल्यकालस्य विषये तत्समयस्य विषये शिशूंश्च बोधयन्तु।
   सखायः, देशस्य विस्तृते भागे प्रावृ़ड् आगता। ऐषमः वृष्टिम् अधिकृत्य ऋतुवैज्ञानिकाः आशान्विताः उत्साहिताः च सन्ति। सम्यक् वृष्टिः भविष्यति तर्हि अस्माकं कृषकाणां शस्यानि उत्तमानि भविष्यन्ति।  वातावरणम् अपि शुद्धं समृद्धं च भविष्यति। वृष्ट्या प्रकृतिः अपि आत्मानि नवतां विधत्ते। मानवः प्राकृतिकसंसाधनानां यावत् प्रयोगं करोति, तावत् प्रकृतिः अपि वृष्टिकाले तत् परिपूर्णं करोति, पुनः पूरिता भवति। परम् एतत् पुनःपूरणं तदा एव भवितुं शक्नोति, यदा वयं मातुः वसुन्धरायै सहयोगं कुर्मः, स्वदायित्वानां निर्वहणं कुर्मः। अस्माभिः कृतः लघुप्रयासः अपि प्रकृतिपर्यावरणयोः कृते सहयोगाय कल्पते। बहवः अस्माकं देशवासिनः अस्यां दिशि महत्कार्यं कुर्वन्तः सन्ति।
    कर्णाटकस्य मण्डावल्याम् एकः उप-पञ्चाशीतिवर्षदेशीयः वृद्धः अस्ति। तस्य नाम कामेगौडा। सः साधारणः कृषकः परं तस्य व्यक्तित्वम् असाधारणम्। तेन एतादृशं कार्यं कृतं येन यः कोsपि वा भवतु, आश्चर्यचकितः भविष्यति। असौ कामेगौडा-महोदयः पशुचारणं करोति परं सहैव तस्मिन् क्षेत्रे नूतनं सरोवरं निर्मातुं सङ्कल्पितवान् । सः स्वक्षेत्रस्य जलसमस्यां दूरीकर्तुम् इच्छति अतः लघुसरोवराणां निर्माणे संलिप्तः भवति। भवन्तः आश्चर्यम् अनुभविष्यन्ति यत् एषः उप-पञ्चाशीतिवर्षदेशीयः वृद्धः परिश्रमपूर्वकम्‌ एतावता षोडश सरोवरान् खातवान् । भवितुम् अर्हति यत् तेन निर्मिताः सरोवराः विशालाः न स्युः, परं तस्य प्रयासः तु अतिविशालः अस्ति। अद्य सम्पूर्णम् अपि तत्क्षेत्रं एतैः सरोवरैः पुनरुज्जीवितम् अस्ति।
सखायः, गुजरातस्य वडोदरायाः अपि एकम् उदाहरणं बहु प्रेरकम् अस्ति। अत्र जनपद-प्रशासनेन स्थानीयजनैः च मिलित्वा अद्भुतम् अनुष्ठितम्। अनेन कार्यानुष्ठानेन वडोदरायाम्‌ एकसहस्र-विद्यालयेषु वृष्टिजलसंरक्षणम् आरब्धम्। अनुमानमस्ति यत् एतेन कारणेन प्रतिवर्षं प्रायः दशकोटि-लीटरपरिमितं जलं व्यर्थं न स्रवति।
सुहृदः, ऐषमः प्रावृडि प्रकृतिरक्षणाय पर्यावरणरक्षणाय च अस्माभिः अपि एतादृशं चिन्तनीयम्। यथा बहुषु स्थानेषु गणेशचतुर्थीमुपलक्ष्यः सज्जता आरप्स्यते। किम् ऐषमः, वयं प्रयत्नपूर्वकं eco-friendly -  इति पर्यावरणानुकूलानां मूर्तीनां निर्माणं कृत्वा पूजनं कर्तुं शक्नुमः वा? किं वयम्‌ एतादृशीभिः मूर्तिभिः आत्मानं दूरं स्थापयितुं शक्नुमः, याः नदीषु तडागेषु च विसर्जनानन्तरं जलजीवेभ्यः सङ्कटं जनयेयुः। अहं विश्वसिमि - भवन्तः सर्वे उक्तं सर्वं करिष्यन्ति। अस्मिन् एतदपि अवधेयं यत् प्रावृट्काले रोगाः अपि आयान्ति। कोरोना- सङ्क्रमणकाले तेभ्यः आत्मरक्षणम् अनिवार्यम्। आयुर्वेदोक्तम् औषधं, क्वाथम्, उष्णं जलं च सेव्यमानाः स्वस्थाः सन्तिष्ठन्ताम्‌।
मम प्रियाः देशवासिनः, अद्य जून-मासस्य अष्टाविंशतितमः दिनाङ्कः | भारतं स्वीयान्यतमाय प्राक्तन-प्रधानमन्त्रिणे श्रृद्धाञ्जलिम् अर्पयति, यो हि अतितरां पेशलायां स्थितौ देशस्य नेतृत्वं व्यदधात् | अस्मदीयोsयं पूर्व-प्रधानमन्त्री श्रीपी.वी.नरसिम्ह-रावः अस्ति यस्याद्य जन्म-शताब्द-वर्षस्य शुभारम्भ-दिवसो विद्यते | यदा वयं श्रीपी.वी.नरसिम्ह-रावस्य विषये वदामः तदा, स्वाभाविक-रूपेण राजनेतृरूपेण तस्य व्यक्तित्वम् अस्माकं सम्मुखं समुपैति, परञ्च, एतदपि सत्यमस्ति यत्, सः, अनेकासां भाषाणां ज्ञातासीत् | भारतीयाः वैदेशिक्यश्च भाषाः अभिभाषितुं शक्नोति स्म | सः, एकतः भारतीय-मूल्येषु गहनां रुचिं सन्धारयति स्म, अपरतश्च, पाश्चात्य-साहित्यस्य विज्ञानस्य चापि ज्ञाता आसीत् | असौ, भारतस्य अतितराम् अनुभविषु नेतृषु अन्यतमः अवर्त्तत | परञ्च, तस्य जीवनस्य अपरः एकः पक्षोsस्ति, स च उल्लेखनीयः, अस्माभिरपि सः पक्षः बोधव्योsस्ति |
सखायः, नरसिम्ह-राव-महोदयः स्वीय-किशोरावस्थायामेव स्वतन्त्रतान्दोलने सहभागी अभवत् | यदा, हैदराबादस्य निज़ामः ‘वन्दे मातरम्’ इति गीतस्य गानार्थम्  अनुमति-प्रदानं न्यषेधीत्, तदा, तं विरुद्ध्य प्रवर्तिते आन्दोलने सोsपि सक्रिय-रूपेण सहभागी अभवत्, तस्मिन् काले तस्य वयः केवलं सप्तदश-वर्षात्मकमेवासीत् | लघु-वयसि एव श्रीमान् नरसिम्ह-रावः अन्यायं विरुध्य योद्धुम् अग्रणी आसीत् | स्वीय-स्वरं दृढतया घोषयितुं सः न किञ्चिदपि नैयून्यम् आदधाति स्म | नरसिम्ह- राव-महोदयः इतिहासमपि सम्यक्तया अवगच्छति स्म | सुतरां सामान्य-पृष्ठभूमितः उत्त्थाय तस्य अग्रेसरणम्, शिक्षायाः कृते तस्य सबलं प्रतिपादनम्, शिक्षणस्य तस्य प्रवृत्तिः, तथा च, युगपदेव, तस्य नेतृत्व-क्षमता – सर्वमपि स्मरणीयमेवास्ति | ममायम् आग्रहः यत् श्रीनरसिम्हरावस्य जन्म-शताब्दी-वर्षे, भवन्तः सर्वेsपि, तस्य जीवनस्य विचाराणां च विषये, अधिकाधिकं ज्ञातुं प्रयतेरन् | पुनरप्येकवारम् अहं तस्मै निज-श्रद्धाञ्जलिं समर्पयामि |
मम प्रियाः देशवासिनः, क्रमेsस्मिन् ‘मन की बात’-इति मनोगत-प्रसारणे विविध-विषयान् आलक्ष्य चर्चा जाता | आगामिनि क्रमे यदा वयं मेलिष्यामः, तदा काञ्श्चन नवीनान् विषयान् चर्चिष्यामः | भवन्तः, स्वीयान् सन्देशान्, नैजान् नवाचारयुतान् च विचारान् सततं मां प्रति नूनं प्रेषयन्तु | वयं, सर्वे सम्भूय अग्रेसरिष्यामः, तथा च, भाविनो दिवसाः इतोsप्यधिकतरं सकारात्मकाः भवितारः, यथा अहमद्य आरम्भे न्यगदम् – वयम् अस्मिन्नेव वर्षे अर्थात् २०२०-तमे सम्वत्सरे एव भद्रतरं करिष्यामः, अग्रेसरिष्यामः, तथा च देशोsपि नूतनाः उच्छ्रितताः स्प्रक्ष्यति | दृढं विश्वसिमि यत् २०२०-वर्षम्, दशकेsस्मिन् भारताय नवां दिशं प्रदातुं विशेष-सम्वत्सरत्वेन सेत्स्यति | अमुं विश्वासम् आश्रित्य, भवन्तोsपि अग्रेसरन्तु, स्वस्थाः तिष्ठन्तु, सकारात्मकाः च सन्तु | एताभिः शुभकामनाभिः साकम्, भवद्भ्यः सर्वेभ्यः  भूरिशो धन्यवादाः | नमस्कारः |
                            ***
   [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीश-द्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
                        Email- baldevanand.sagar@gmail.com