OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 2, 2023

चाइल्ड् एजुकेशन् सोसायटीति संस्थया अनुष्ठितः प्रथम: भव्यविद्योत्सव:

वार्ताहरः - युवराज भट्टराई

नवदिल्ली> देशव्यापि-बालभारतीविद्यालयानां शृंखलाया: शीर्ष संस्था चाइल्ड एजुकेशन सोसायटीति द्वारा ऐषम: फरवरी प्रथमायां दिल्लीस्थिते कमानी ऑडिटोरियम इत्याख्ये सभागरे प्रथम: विद्या उत्सव: इति कार्यक्रम: भव्यरूपेण आयोजितः। स्वाधीनताया: अमृत-महोत्सवस्य पालनाया: अन्तर्गतं राष्ट्रनिर्माणे बालभारती पब्लिक विद्यालय शृङ्खलायाः महत्त्वपूर्णं योगदानम् सार्वजनीनीकृत्वा अस्मिन् कार्यक्रमे सुतरां प्रकाशितम्। एतद् आयोजनं वार्षिकरूपेण प्रतिवर्षम् अग्रेऽपि आयोजयिष्यते। अस्य विद्योत्सवस्य आयोजनस्य मुख्योद्देश्य: चाइल्ड एजुकेशन सोसायटीत्यस्य

प्रगतिशील-शैक्षिक-कार्याणांम् उपलब्धीनाम् उत्सवाचरणम् अस्ति। युगपदेव अस्यैव विद्यालयस्य प्रतिष्ठित-पूर्व-छात्रै: राष्ट्रनिर्माणार्थं विहित योगदानार्थं तेषां सम्माननम् अपि आसीत्। ध्यानास्पदम् अस्ति यद् अस्या: संस्थाया: स्थापना राष्ट्रे मूल्यात्मिकाया: गुणवत्तापूर्णाया: च शिक्षाया: क्रान्तिकृते 1944 तमे वर्षे विहिता आसीत्। अस्य विद्योत्सवस्य आयोजनद्वारापि संस्थया देशे शैक्षिक-जनचेतना-संवर्धनस्य सकारात्मक: सन्देश: प्रदत्त: अस्ति।

एतस्मिन् विद्या-उत्सव-कार्यक्रमे मुख्य-वक्तृ-रूपेण इंटरनेशनल सोसाइटी फॉर कृष्णा कॉन्शियसनेस (इस्कॉन) इति संस्थाया: सदस्य:, प्रसिद्ध: साधु:, जीवनपद्धतिप्रशिक्षक:, प्रेरक-वक्ता श्रीगौड गोपाल दास वर्य:, निजोद्बोधनेन 'भारतीय-शैक्षिक-मूल्येषु संस्कृतौ च निहिताया: वैश्विक-शिक्षाया: विषये अवगती-कारयन् दर्शका: श्रोतार: च प्रबोधिताः। असौ न्यगादीत् यत् देशे प्रगति: विकासो वा भावनात्मकेन ऐक्य-भावेन भवति। अथ च अस्माकं भावनात्मकस्य ऐक्यभावस्य संवर्धने शिक्षाया: भूरि महत्त्वं वर्तते। शिक्षाक्षेत्रे चाइल्ड एजुकेशन् सोसायटीति संस्थाया: सुदीर्घं योगदानम् अत्यन्तमेव श्लाघनीयमस्ति इत्यपि अमुना प्रोक्तम्। साकमेव अमुना भणितं यत् शिक्षाक्षेत्रे संस्थाया: योगदानं निरन्तरम् अग्रेऽपि यथावस्थमेव भवतु। मनुष्यजीवने देश: सर्वोपरि भवति, शिक्षा मनुष्यान् देशप्रेम्णा संयोजनस्य कार्यं करोति। अमुना एतदपि प्रोक्तं यत् अस्माभिः समेषां धर्माणां सम्मान: करणीयः । राष्ट्रियैक्यभावस्य प्रवर्तने शिक्षा एव अस्मान् प्रेरयति।

अस्मिन् कार्यक्रमे एकमपरम् अपि मुख्याकर्षणम् आसीत् भारतीय-कला-केन्द्रेण प्रस्तुता साध्व्या: मीराबाई इत्यस्याः जीवनाधारिता एका अद्भुता नृत्य-नाटिका। अस्या: नृत्य-नाटिकाया: प्रस्तुत्या सभागारे स्थिता सर्वे दर्शका मन्त्रमुग्धा: जाता:। सहैव अनया भावपूर्ण-प्रस्तुत्या युवजनानां मध्ये देशस्य संस्कृतिं रिक्थं वा सुदृढीकर्तुं विद्यालयस्य प्रतिबद्धता अपि साम्रेडिता। अस्मिन् अवसरे कार्यक्रमे शिक्षाविभागस्य निदेशक: श्रीहिमांशु गुप्त:, श्रीराम भारतीय-कला-केन्द्रस्य निदेशिका पद्मश्रिया सभाजिता शोभा दीपक-सिंह-वर्या, चाइल्ड एजुकेशन सोसायटीति संस्थायाः प्रबन्धनाध्यक्ष:, श्रीनिखिलचानना:, परामर्शदातार; प्राचार्या:, प्रशासनिकप्रमुखा:, देशव्यापीनां बाल भारती पब्लिक विद्यालयानां विभिन्न-एकांशानां कर्मकर-सदस्यै: सह सम्मान्यमाना: प्रतिष्ठिता: पूर्वछात्र-सदस्या: अपि कार्यक्रमस्य शोभां वर्धितवन्त:।

सर्वादौ कार्यक्रमे समागतै: प्रतिष्ठितातिथिभि: गणमान्यै: जनैः च दीपप्रज्वालनपूर्वकम् अस्य उत्साहवर्धकस्य कार्यक्रमस्य श्रीगणेश: कृत:। विभिन्न-बालभारती पब्लिक विद्यालयानां संगीत-छात्राणां गायक-मण्डलेन संयुक्तरूपेण जन-जागरणपरं अवसरानुकूलं दिव्यं हिन्दीगीतं 'जगाओ मेरा देस...' इत्यस्य सुमधुरं प्रस्तवनं प्रस्तुतम्। अत्र हि कार्यक्रमे सी.ई.एस. संस्थायाः निरंतर विकासस्य एका प्रकृष्टा गाथा अपि एकेन वृत्तचित्रमाध्यमेन सभामध्ये प्रदर्शिता। तद् दृष्ट्वा सर्वे दर्शका: मन्त्रमुग्धीभूता:। राष्ट्रव्यापि-बाल-भारती पब्लिक विद्यालयनां प्रतिष्ठिता: पूर्वच्छात्रा: यै: राष्ट्रनिर्माणे योगदानं प्रदत्तं ते अपि तेषां विशिष्ट-योगदानार्थं सम्मानिता: अभूवन्।

अस्मिन् अवसरे एका कला प्रदर्शनी रिफ्लेक्शंस इत्याख्या अपि आयोजिता। यस्यां छात्रकलाकारै: विनिर्मितानि चित्राणि प्रदर्शितानि आसन्। 

कार्यक्रमे सभां सम्बोधयता बालशिक्षा समित्या: (CES) इत्यस्याः अध्यक्ष: श्री निखिल चानना: राष्ट्रस्य विकासाय निरंतर सकारात्मक-शिक्षा-प्रदानं प्रति संस्थायाः प्रतिबद्धतां साम्रेडितवान्, विद्यालयस्य पूर्वछात्रै: राष्ट्र-विकासे विहितानां प्रयासानां च श्लाघां कृतवान्। युगपदेव लोकतन्त्रस्य सुदृढतायै शिक्षाया: अप्रतिमं महत्त्वम् अपि उल्लेखितवान्।

  कार्यक्रमस्य अवसाने, सी. ई. एस. संस्थायाः संयुक्तसचिव:,गंगाराम हॉस्पिटल मार्गस्य बाल भारती पब्लिक विद्यालयस्य प्रधानाचार्य: श्री एल.वी. सहगल:, मूल्याधारितशिक्षायै सी.ई.एस. संस्थाया: अश्रान्तप्रतिबद्धताया: सुदृढीकरणस्य सुदीर्घयात्रायां सहभागीभूतान् सभास्थितान् अतिथिजनान् दर्शकान् शिक्षकान् छात्रान् च प्रति कृतज्ञता-पूर्वकं धन्यवाद-ज्ञापनम् कृतवान्। सहैव अमुना न्यगादि यत् भारतस्य पुरातनैतिहासे, संस्कृतौ, शिक्षापद्धतौ च मानवसभ्यताया: आदिकालात् अधुनावधि विकासस्य समग्र: बोध: सन्निहित: अस्ति। यस्य विद्यालयेषु शिक्षाया: माध्यमेन छात्रेभ्य: पाठनम् आवश्यकम् अस्ति। येन हि समस्त-छात्रा: अस्माकं समृद्ध-शिक्षा परम्परया अवगता: भवेयुः । असौ एतद् अपि उक्तवान् यद् अद्य विद्या-उत्सवस्य माध्यमेन परस्परम् उत्कृष्ट-विचाराणां विनिमय: जात:। येन परस्परं ज्ञानस्य वर्धनं जातम् अस्ति, यद्धि एक: शुभ-संकेत: अस्ति।

   दर्शकै: अस्य कार्यक्रमस्य भूरि भूरि प्रशंसा विहिता। अनेन कार्यक्रमेण उत्कृष्टताया: विश्वासस्य च मृत्तिकया निर्मिताया: चाईल्ड एजुकेसन् सोसायटी इत्यस्या: प्रतिष्ठितं रिक्थम् अपि सार्वजनिकीभूतम्। 

  उक्त-कार्यक्रमेण वैश्विक-परिप्रेक्ष्येण सह मूल्याधारितां समग्र-गुणवत्तापूर्ण-शिक्षाम् प्रदातुं राष्ट्र-निर्माणे सकारात्मक-योगदानं यथावस्थं प्रवर्तयितुं च सी.ई.एस. संस्थायाः उत्साह: प्रतिबद्धतां च सुदृढतया प्रमाणितं प्रकाशितं च कृतम्। अस्मिन् अवसरे बाल भारती पब्लिक विद्यालयस्य पूर्वच्छात्रा: अपि सम्मानिता: जाताः।