OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 23, 2023

 जयपुरे भव्यतया समनुष्ठित: संस्कृत चलच्चित्रमहोत्सव:।


कालिदास: विश्वस्य सर्वश्रेष्ठ: शृङ्गारलेखक: इति ब्रूते दुष्यन्त श्रीधर:

टॉक शो इति सत्रे जाता संस्कृतचलच्चित्रस्यभविष्यविषये परिचर्चा  

यानमिति चलच्चित्रे दृष्टिपथमायातं संस्कृतस्यवैभवम्

यानमिति चलच्चित्रेऽन्तरिक्षस्योपलब्धि: वर्णिता 

यानमिति चलच्चित्रं रचितं मङ्गलयानस्य साफल्यमधिकृत्य रचितम्

शाकुन्तलमिति चलच्चित्रं गौरवपूर्णैतिह्यस्य गाथा

राजस्थानसंस्कृताकादम्या: प्रयासा: श्लघिता: दर्शकै:

 जयपुरम्> जयपुरे राजस्थानसंस्कृताकादम्या स्वतन्त्रताया: अमृतमहोत्सवम् उपलक्ष्य आनुष्ठितस्य अखिल-भारतीय-माघ-महोत्सवस्य अन्तर्गतं जयपुरस्य जैम सिनेमा इत्याख्ये चलच्चित्र-मन्दिरे गत-शनिरविवासरयो: फरवरी मासस्य अष्टादश-नवदश दिनाङ्कयो: रिफ फिल्म क्लब इत्यस्य सहयोगेन द्विदिवसीय: राष्ट्रिय-संस्कृत फिल्म फैस्टिवल इति संस्कृत-चलच्चित्र महोत्सव: परिपालित:। एतद् अन्तर्गतं प्रथमे दिवसे उद्घाटन-समारोहस्य अनन्तरं संस्कृतस्य आदि शंकराचार्य: इत्याख्यं चत्वारिंशद्वर्ष-पुराचीनं चलचित्रं, भगवदज्जुकमित्याख्यं प्रहसनपरं चलचित्रं च प्रदर्शितम्। तदनु द्वितीये दिवसे अभिज्ञानशाकुन्तलम् इति कालिदासीयं नाट्याधारितं शाकुन्तलम् इति शृङ्गारपरं चलचित्रं प्रदर्शितं येन खलु उपस्थितानां दर्शकानां मनांसि मन्त्र-मुग्धीकृतानि


एतदन्तर्गतं उभयोः दिनयो: संस्कृत चलच्चित्रस्य ऐतिह्यं भविष्यं चावलम्ब्य "टॉक शो" इति परिचर्चापि समायोजिता। तत्र हि प्रथमे दिवसे "संस्कृत सिनेमा: अतीत से वर्तमान तक" इति विषये परिचर्चा अनुष्ठिता। द्वितीये दिने च “संस्कृत सिनेमा : भविष्य के साथ संवाद” इत्याख्ये विषये परिचर्चा अभूत्।

परिचर्चायां शाकुन्तलम् चलचित्रस्य निर्देशक: दुष्यन्त श्रीधर:, भगवदज्जुकं चलचित्रस्य निर्देशक: यदु विजयकृष्णन्, चलचित्र-समीक्षक: ऑस्ट्रेलिया देशीय: चार्ल्स थॉमसन: , स्पेन् देशीय: संस्कृतमनीषी ऑस्कर पुजोल:, अभिनेता शुभम सहरावत:, अभिनेत्री ज्वाला एस्. परमेश्वर, रिफ़ क्लब संस्थापक: सोमन्द्रहर्ष:, कार्यक्रमप्रवर्तिका अंशु: हर्ष: समवाप्तसाहित्याकादेमीयुवपुरस्कार: डॉ. युवराज भट्टराई च संस्कृत चलच्चित्र-संवर्धन-विषये परिचर्चां विहितवन्त:। अस्मिन् अवसरे राजस्थान सर्वकारस्य मन्त्री महेश जोशी, विप्र कल्याण बोर्ड इत्यस्य अध्यक्ष: महेश शर्मा, शासनसचिवप्रमुखा गायत्री राठौड:, संस्कृताकादम्या: अध्यक्षा डॉ सरोज कोचर:, संस्कृताकादम्या: निदेशक: सञ्जय: झाला, रमानन्दाचार्य राजस्थान संस्कृत विश्वविद्यालयस्य कुलपतिः रामसेवक दुबे:, श्रीकल्ला जी वैदिक विश्वविद्यालयस्य कुलपति: ताराशंकर शर्मा पाण्डेय:,कार्यक्रम-सञ्चालिका अंशु: हर्ष: चेत्यादिभि: समेता: नैके संस्कृत-मनीषिणः, दर्शका: च उपातिष्ठन्त। अस्मिन् अवसरे शाकुन्तलमिति चलच्चित्रस्य निर्माता निर्देशकः, दुष्यन्त: श्रीधर: प्रवोचत् यत् अभिज्ञानशाकुन्तलमिति कालिदासस्य दिव्यं नाट्यम् अस्ति। अस्मिन् नाट्ये तमिल-तेलगु-हिंदी-सहितासु नैकासु भाषासु चलच्चित्राणि सन्ति निर्मितानि, किन्तु अस्या: नाट्यकृते: मूलभाषायां किमपि चलच्चित्रं नासीत् रचितम्। एतद् दृष्ट्वा एव अहं संस्कृते शाकुन्तलमिति निर्माणस्य निर्णयं कृतवान्। चलच्चित्र निर्माणस्य अस्मिन् उपक्रमे भूरि समाह्वानानि आगतानि किन्तु अस्माकं चलच्चित्रनिर्माणसमूह: सर्वा: बाधा: उत्तीर्य चलच्चित्रम् अरचयत्, अमुना एतदपि प्रोक्तं यत् संस्कृतं केवलं सिद्धान्तानां, शास्त्रीय-विधि-विधानानामेव भाषा नास्ति वस्तुत: संस्कृते सर्वप्रकारकं ज्ञानं निहितम् अस्ति। संस्कृते शृङ्गारश्चापि विशिष्ट: वर्तते। संस्कृतं शिष्टाचारस्य भाषास्ति। संस्कृत-वाङ्मये सर्वे रसा: प्राप्यन्ते, येषां चलच्चित्र-माध्यमेन लोकसमक्षं प्रस्तवनस्य आवश्यकता वर्तते। 

तत्रैव शाकुन्तलमिति चलच्चित्रस्य मुख्यनायक: राज्ञ: दुष्यन्तस्य भूमिकायां प्रवर्तनपर: अभिनेता शुभम: सहरावत: अस्मिन् अवसरे संस्कृते चलच्चित्रस्य संवादं संश्राव्य दर्शकान् मुग्धीकृतवान्।

व्यंग्यप्रहसनपरं ‘भगवदज्जुकम्’ इति चलच्चित्रस्य निर्देशक: यदु विजयकृष्णन् चर्चाया: अवसरे संस्कृत-चलच्चित्राणां जन-जनेषु प्रापणस्य कृते एतादृशानां चलच्चित्र-निर्मातृणाम् आवश्यकतास्ति ये खलु धनलाभस्य चिन्तां विहाय चलच्चित्र निर्माणं कर्तुं प्रभवेयु:। 

अकादम्या: अध्यक्ष: डॉ सरोज कोचर: उक्तवती यत् चर्चा संस्कृतं भाष्यमाणं विधातुं चलच्चित्रनिर्माणम् अत्यन्तम् अपरिवार्यं वर्तते। चलच्चित्राणि अस्माकं सम्पूर्णसाहित्यं सरल-संवाद-माध्यमेन जनजनेषु लोकप्रियतां प्रापयितुं शक्नुवन्ति।  

 ध्येयम् अस्ति यत् कला-संस्कृति-विभागस्य, जगद्गुरु रमानन्दाचार्य-राजस्थान संस्कृत विश्व विद्यालयस्य, राजस्थान विप्र कल्याण बोर्ड इत्यस्य, एन. एफ. डी. सी. इत्यस्य, रिफ फ़िल्म क्लब इत्यस्य च सहयोगेन एष: समारोह: आयोजित: आसीत्।