OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 30, 2015

 भारतीय मेट्रो रेल् पद्धतीनां कृते जापान् ५,४७९ कोटि रूप्यकाणि ऋणम् दास्यति |
metro rail
-

नवदिल्ली -चेन्नै मेट्रो रेल् पद्धत्याः कृते १,०६९ कोटि रूप्यकाणि तथा अहम्मदाबाद् मेट्रो रेल् पद्धत्याः कृते ४,४१० कोटि रूप्यकाणि जापान् लोण् दास्यति इति केन्द्र धनकार्यमन्त्रालयेन सूचितम्

'वै फ़ै'विद्यायाः 100 गुणित वेगवान्  लै-फ़ै

 परीक्षणम् विजयं प्राप्तः 

LED bulb 
नवदिल्ली- भाविनि कालः LED प्रकाशकन्दः अन्तर्जालं संप्रेषयतुमुपकरिष्यति। 'वै-फ़ै'विद्यायाः स्थाने दृश्य प्रकाशस्य सहायेन दत्त(Data) सन्निवेशं कर्तुं लै-फ़ै ( Li-fi ) संविधानेन आरब्धः। वै-फ़ै'विद्यायाः शतगुणितवेगवान् अयं निमिषाभ्यन्तरेण 1जिगाबैत्  वेगेन (1Gbps ) दत्तस्य सन्निवेशः सुसाध्यं करोति । सामान्य LED कन्दमिव प्रकाशस्रोतः अन्तर्जाल-संबन्धः प्रकाशसंवेदकः च अस्मिन् सौकर्याय पर्याप्तः। एस्तोनियायाः राजधान्यां  टालिन् नाम नगरे  'वेल्मिन्नि '(Velmenni) नाम संस्थया कार्यालयस्य अन्तर्भागे परीक्षणमकरोत् 'दृश्यप्रकाश संप्रेक्षणं ' ( VLC ) रङ्गेषु  पुरोगमनम् इदानीम् साध्यम् इति अनया संस्थया उक्तम् (Velmenni Jugnu )। नवदिल्यां भवति संस्थायाः अद्यतनकार्यालयःVelmenni Jugnu

Sunday, November 29, 2015

दिल्ल्यम्म् IS भीकरदलस्य व्योमाक्रमणाय साध्यता 
भारतस्य राजधान्यां IS आदीनां भीकरदलानां भीषणी अस्ति इति गृहकार्यविभागः वदति। एतादृशान् आक्रमणान् प्रतिरोद्धुं 15 सुप्रधानेषु साध्यताभागेषु जाग्रताम् अवर्धयत्। 
 

Saturday, November 28, 2015

 नीतिसंहितापरिवर्तनं न करिष्यति - प्रधानमन्त्री


नवदिल्ली - भारतस्य नीतिसंहितायाः परिवर्तनमधिकृत्य याकापि चिन्ता न वर्तत इति प्रधानमन्त्री नरेन्द्रमोदिवर्यः। तादृशी चिन्ता आत्महत्यापरा इति च सः अवदत्। भूरिपक्षस्य शासनात् समवायो भवति जनाधिपत्यस्य शक्तिःइति लोकसभायां संवृत्तायाः चर्चायाः प्रतिवचने मोदिवर्यः उक्तवान्। भारतसंविधानस्य आधारतत्त्वानि संरक्षिष्यति  इति अभिमतम् ऐककण्ठ्येन उत्तीर्णम्।


बासमतीधान्यस्य स्थानं  प्रयासं क्रियते
भोपाल:- मुख्यमंत्री श्री शिवराजसिंहचौहान: उक्तवान् यत् मध्यप्रदेशे उत्पादितं भूयमानं बासमती धान्यम् उत्तरप्रदेशम्, पंजाबम्, उत्तराखण्डम् आदय: प्रदेशेषु भूयमानं धान्यस्य समानं बासमती धान्यस्य स्थानं प्रदानस्य प्रयासं क्रियते। एतस्मै एपीडाया: समक्षं मध्यप्रदेशस्य पक्षं सुदृढ़तया स्थाप्यते। श्री चौहान: शाहगंजे अन्त्योदयं मेलापके उपस्थित: जन: समुदायं संबोधयन् आसीत्। स: उक्तवान् यत् प्रदेशे उत्पादितं भूयमानं धान्यं बासमती स्थानं मिलिते सति कृषकान् आर्थिकं लाभं मिलिष्यति। -mpinfo

Thursday, November 26, 2015

केरलेषु हट्ताल् नियन्त्रणाय नियमः।
अनन्तपुरी- केरलेषु हट्ताल् नियन्त्रणाय नियमनिर्माणसभा पर्यालोचयिष्यते। नवंबरमासस्य ३० दिनाङ्गे आरभ्यमाणे ससंमेलने नियम नियमनिर्माणरेखा'बिल्' अवतारयिष्यते इति अभ्यन्तरमन्त्रि: रमेश् चेन्नित्तला अवदत्
बन्द् पूर्वमेव केरले निरोधितः आसीत्

शताधिकानि मृतशरीराणि अपहृतानि।
एकमासाभ्यन्तरेण हैदराबाद्‌ नगरस्य प्रमुखात् आतुरालयात् शताधिकानि मृतशरीराणि अपहृतानि सर्वानुगतावगमावकाशः (RTI ) नियमानुसरेण बहिर्दत्ता इयं वार्ता। मनुष्यशरीरवाणिज्ये लग्नाः गुप्तसङ्घा: राज्ये व्यापका: वर्तान्ते इति अनेन सूच्यते।

सर्वकारीयकर्मकराणां विरामदिनानि न्यूनीकुर्यात् - वेतनपरिष्करण -कम्मीशन्

  कोच्ची : सर्वकारीयकर्मकराणां विरामदिनानि न्यूनी कृत्य कर्मदिनानि वर्धनीयानि इति वेतनपरिष्करण कम्मीशनस्य अध्यक्षः जस्त्तिस् . रामचन्द्रन् नायर् महोदयः अवदत्

प्रवर्तिदिनेषु सङ्घटना प्रवर्त्तनानि निषिद्धानि भवन्तु । सर्वकारीय कर्मकाराणां कार्यक्षमतावर्धनमुद्धिश्य अयं  निदेशः। दलीय प्रवर्तनाय विरामदिनानि अथवा अवकाश दिनानि उपयोक्तव्यानि । अध्यापकाः दलीय प्रवर्तनात् विरक्ताः भवन्तु इति च सः अवदत्

निर्वाचनासन्दर्भेषु विरक्तानां सेवनानि उपयोक्तव्यानि इति च तेन निर्दिष्ठम्।

लोकसभासम्मेलनस्य अद्य प्रारम्भः।
नवदिल्ली - भारतलोकसभायाः शीतकालीनसम्मेलनम् अद्य प्रारभते।भरणसंविधानस्य अङ्गीकारस्य वार्षिकरूपेण सविशेषसम्मेलनं भवति शुक्रवासरे। तत्र भारतीयभरणसंविधानशिल्पिने डो. बि आर् अम्बद्करमहोदयाय आदरं प्रदर्शयिष्यति।

Wednesday, November 25, 2015

मद्यनिरोधनाय बीहारराज्यम्।

पाट्ना - बीहारराज्ये मदिरानिरोधनाय सर्वकारेण निश्चितमस्ति।मद्यनियन्त्रणविभागस्य मन्त्री अब्दुल् जलील् मस्तान् वर्यः एतद्विषयं ज्ञापितवान्।
राज्ये सम्पूर्णमद्यनिरोधनाय पूर्वमेव महिलासहिताः जनाः निवेदनं कृतवन्तः आसन्।


स्वातन्त्र्यदिने गणतन्त्रदिने च सर्वकारसेवकेभ्यः 
विरामः न दातव्यः - उच्चन्यायालयः।
कोच्ची - देशीयस्वातन्त्र्यदिने गणतन्त्रदिने च सर्वकारसेवकानां कृते युक्तियुक्तं कारणं विना विरामः न दातव्यः इति केरलस्य उच्चन्यायालयेन आदिष्टम्।देशीयदिनाचरणकार्यक्रमेषु सेवकानां भागभागित्वं निश्चयेन भवितव्यमिति मुख्यन्यायाधिपः अशोक् भूषणः न्याया. ए एम् षफीखः इत्येतौ न्यायाधीशौ आज्ञप्तवन्तौ।

Tuesday, November 24, 2015

असमत्वे प्रतिषेधः - जयन्तमहापत्रेण पद्मश्रीः प्रत्यर्पिता।

भुवनेश्वरम् - राष्ट्रे वर्धमानायाम् असहिष्णुतायां प्रवर्तमाने असमत्वे च प्रतिषेध्य प्रमुखः ओडीसीयकविः जयन्तमहापात्रवर्यः स्वकीयं पद्मश्रीपुरस्कारं प्रत्यर्पयत्। एतद्विषयं राष्ट्रपतये प्रणब् मुखर्जीवर्याय न्यवेदयत् । एतत् प्रतिसमर्पणं न राष्ट्रं प्रति अवमतिः किन्तु असहिष्णुतां विरुद्ध्य स्वस्य आशयानुसारिणी प्रतिषेधप्रतिक्रिया इति तेनोक्तम्।
८८ वयस्कःमहापात्रवर्यः ओडियाभाषायाम् आङ्गलेयभाषायां च २७ पुस्तकानि रचितवान्। साहित्यमण्डले समग्रयोगदानं पुरस्कृत्य १९९९ तमे वर्षे पद्मश्रीपुरस्कारेण एषः महोदयः सम्मानितः।



जम्मु मध्ये उदग्रयानदुर्घटना - ७ मरणानि।
नवदिल्ली - जम्मु राज्ये कत्रप्रदेशे उदग्रयानस्य भञ्जने केरलीयवैमानिका नवदम्पतीः च सहिताः ७ यात्रिकाः हताः। कत्रातः वैष्णोदेवीमन्दिरं प्रति तीर्थाटकैः सह गन्तुमुद्युक्तम् उदग्रयानम् उड्डयितक्षण एव अभञ्जत। याने पक्षिप्रहरमेव दुर्घटनायाः कारणमिति मन्यते।

Monday, November 23, 2015

भारते सर्वेभ्यः तुल्यः अधिकारः नीतिश्च इति मोदिवर्य:।

क्वालालम्पूर् - भारतम् किञ्चन युवकानां राष्ट्रं भवति, अत्र सर्वेभ्यः तुल्यः अधिकारः नीतिश्च इति प्रधानमन्त्री नरेन्द्रमोदिवर्य:। सर्वकार-जनयो: मध्ये व्यवहारे परिवर्तनम् आगच्छति। सर्वकारीय व्यवहारान् अतीव ललितं कर्तुं प्रयत्नः प्रचलति। नानात्वात् शक्तिं स्वीकृत्य भारतं सर्वथा एकतायां बद्धं भवति। आसियन उच्चकोटिसम्मेलने भागं स्वीकृत्य भारतसमाजम् सम्बुध्य भाषमाणः आसीत् सः। विश्वे महती आर्थिकी शक्ति: भविष्यति भारतम्। विश्वे निपुणानाम् ऐ. टि. विभागज्ञानाम् उत्पत्तिः अधिकतया भारतात्  एव संभवति । भारतीयानि उत्पन्नानि लोक विपण्यां आगच्छन्ति सन्ति। एवं उत्तम कार्याणि आधिकानि जायमानानि सन्ति। भारतस्य बृहत्तमः वाणिज्यसहकारी भवति मलेष्या। सः सम्बन्धः सर्वदा वर्धनीयः। मलेष्यायाः विकसने तमिल् जनानां सम्भावना आपि महत्तमा इति मोदिवर्येण उक्तम्।


॥ सुवचनानि ॥
परोपकारार्थमिदं शरीरम् ।
परोपकारः पुण्याय ।
परोपकाराय सतां विभूतयः ।

Sunday, November 22, 2015

  हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीताध्ययनं अनिवार्यं करणीयम् - इळयराज:


गोवा - राष्ट्रे वर्धमानानि हिंसाशीलानि न्यूनीकर्तुं विद्यालयेषु सङ्गीतपठनम् अनिवार्यम् करणीयमिति सङ्गीतकुलपतिः इलयराजा स्वाभिप्रायं प्राकटयत्। सङ्गीतं छात्रेषु भद्रदर्शनस्य पाठान् पाठयिष्यति इति तेन उक्तम् । बालमनोभ्यः अक्रमवासनाः दूरीकर्तुं सङगीते विद्यमानया ईश्वरीयतया शक्नोतीति तेन स्वीयमतं प्रकटितम् । विद्यालयीय -महाविद्यालयीय -पाठ्यपद्धतीषु सङ्गीताय प्राधान्यं देयम्। तदर्थं सर्वकारेण आवश्यकानि कार्याणि करणीयानि इत्यपि तेन उक्तम्। गोवायां विश्वचलचित्रोत्सवे शताब्दीपुरस्कारं स्वीकृत्य भाषमाण: आसीत् सः।



मद्यशाला उत्कोचविषये सि बि ऐ  अन्वेषणम् उचितमिति उच्चन्यायालयः।
कोच्ची - केरले मद्यशाला उत्कोचविषये  सि बि ऐ सदृशानां संघानाम् अन्वेषणं स्यादुचितमिति उच्चन्यायालयेन अभिमतं प्रकटितम्। भूतपूर्वधनमन्त्री के एम् माणिवर्यः निरपराधी इति  मुख्यमन्त्रिणः इतरमन्त्रिणां च प्रस्तावे नीतिपीठः अतृप्तिं प्राकटयत्। विजिलन्स् न्यायालयात् एतद्विषयसंबन्धिनः सर्वान् प्रलेखान् उच्चन्ययालयं नेतुं निर्दिष्टम्।न्यायालये लब्धे निवेदने डिसं २ दिनाङ्के वादं श्रुत्वा विधिप्रस्तावः भविष्यति।

Saturday, November 21, 2015

मालिदेशे भीकराक्रमणम् - १७० जनाः बन्धनस्थाः।

बमाको - पारीस् भीकराक्रमणानन्तरं आतङ्कवादिनः पश्चिमा आफ्रिक्कीयस्य मालिदेशस्य राजधान्यां कस्मिंश्चित्  उपाहारगृहम् आक्रम्य १७० जनाः बन्धनस्थीकृताः। त्रयः मृताः इति मालि गृहमन्त्रिणा सूचितम्। मृतेषु द्वौ माली देशीयौ एक फ्रञ्च्देशीयः च। नवजनाः मृताः इत्येव औद्योगिकं वृृत्तम्।  विंशति भारतीया: तत्र आसीत् चेदपि ते त्रासिताः इति विदेशकार्यमन्त्रालयेन सूचितम् । बमाक्को मध्ये सम्मर्दयुक्ते राडिसन् ब्लू पञ्चनक्षत्राट्टाहारावासशालायां एव भीकराक्रमणम्। बन्धितेषु १४० जनाः अतिथयः तथा ३० जनाः वासशाला कार्यकर्तार: च भवन्ति। बन्धितान् रक्षितुं मालि फ्रञ्च् सैनिकाः तत्र  प्रविष्टाः।


तटियन्टविट नसीरस्य न्यायवादिनः नीतिपीठेन सूचिताः।

बङ्गलुरु - बङ्गलुरु विस्फोटनविषये अपराधिनः तटियन्टविट नसीर् इत्यस्य न्यायवादिनः बाङ्लूर् ऐ एन् ए न्यायालयः पूर्वसूचनाम् अकरोत्।विषये अन्तर्भूतान् साक्षिणः स्वाधीनतां कुर्वन्ति इत्यारोपणे एव नीतिपीठस्य रूक्षविमर्शः।
नसीरस्य मित्रं सन्देशवाहकः च पेरुम्पावूर् स्वदेशीयः षहनासः गतसप्ताहे आरक्षकैः गृहीतः आसीत्।तस्य सकाशात् साक्षिणः दूरवाणीसंख्या , सङ्केतः इत्यादयः परिगृहीताः।साक्षिणः संरक्षणीयाः इति कर्णाटकसर्वकारः न्यवेदयत्।

Friday, November 20, 2015

 आन्ध्रायां महती वृष्टिः -
१०मरणानि,कृषिनाशः।

चिट्टूर् - बंगाल् अन्तस्समुद्रे संजातेन न्यूनमर्देन आन्ध्राप्रदेशस्य चिट्टूर् नेल्लूर् कटप्प जनपदेषु महती वृष्टिः। १० जनाः आहताः। केदाराः जलोपप्लवे नाशमुपगताः। वीथी- रेल् गतागतानि पूर्णतया स्तम्भितानि। विद्यालयानां कृते दिनद्वयविरामःविज्ञापितः।



 आतङ्कवादीमुख्यः मारितः

पारीस् - फ्रान्स् राष्ट्रस्य राजधान्यां पारीसे शुक्रवासरे जातस्य आतङ्कवादाक्रमणस्य सूत्रधारः अब्देल हमीद् अबौदः मारितः । आक्रमणे द्वौ मारितौ इति अधिकारिभिः सूचितमासीत् । किन्तु अबौदः इति अधुना एव फ्रान्स् प्रधानमन्त्रिणा मान्वल वाल्स्वर्येण स्पष्टीकृतम् ।


केरलेषु ग्रामसभासु वामदलस्य आधिपत्यम् -
एल् डि एफ् ५५० ,यू डि एफ् ३१५।

अनन्तपपुरी - केरलेषु प्रवृत्ते ग्रामसभाध्यक्षानां निर्वाचने एल् डि एफ् दलस्य ५५० ग्रामसभासु अध्यक्षपदप्राप्तिः।३१५ स्थानानि यू डि एफ् दलेन प्राप्तानि।१२ ग्रामसभासु भाजपादलं विजयीभूतम्।

Thursday, November 19, 2015

 पाकिस्थाने विविध धर्मावलम्बिनः मिलित्वा दीपावलीं पर्वयित्वा आदर्शरूपं मार्गं प्रदर्शयन्ति।

पेषावार् - हैन्दवैः समं मुस्लीं सिख् क्रैस्तवादयः मिलित्वा दीपावलीं साघोषम् आचरितवन्तः I उत्सवस्यस्य उद्घाटनं प्रादेशिकः धार्मिककार्यस्य मन्त्री खारि रूहुळ्ळ मदनि वर्येः अकरोत् । धर्मन्यूनपक्षेभ्यः अपि स्वेच्छानुसारं जीवितुं स्वातन्त्यमस्ति इति सः अवदत् । ओल् पाकिस्थान् हिन्दू रैट्‌ मूव्मेन्ट् समितेः अध्यक्षेण हरूण् शराब् दियाल् महोदयेन आयोजितः अयं समारोहः I सौहार्दपूर्ण-सहकारिताया: साक्ष्यत्वेन आसन्न मासे प्रवाचकस्य मुहम्मद् नबि महोदयस्य जन्मदिनं हैन्दवजनाः अपि आघुष्यन्ते  इति च तेन महात्मना सूचितः ।

केरले तद्देशनिर्वाचनवेलायां प्रयुक्तानां 
वैद्युतमतदानयन्त्राणां प्रत्यूहमवलम्ब्य पृथगन्वेषणमारभ्यते।

तिरुवनन्तपुरम् - मलप्पुरे तद्देशनिर्वाचनवेलायां जातं वैद्युतयन्त्राणां दोषम् अधिकृत्य सि डाक् ( सेन्टर् फॉर् डेवलप्मेण्ड् ऑफ अड्वान्स् कम्प्यूटिङ् ) अन्वेषणं करिष्यति । सिडाक्  निदेशकः रजत् मुन्ना , साङ्केतिकविदग्ध : श्रीवत्स: , सि डाक् मुख्यनिदेशक: बि रमणिः , इत्येते एव अन्वेषणसङ्घे सन्ति I मासाभ्यन्तरे वृत्तम् देयमित्येव  निर्वाचनायोगस्य आदेश: ।इलक्ट्रोणिक् काँर्परेषन् ऑफ इन्ट्‌या प्रतिनिधयः अपि अन्वेषणे भागभाजः भविष्यन्ति इयं संस्था निर्वाचनयन्त्राणां निर्माता भवति । जनपदशासनात् औद्योगिके वृत्ते प्राप्ते अन्वेषणम् आरप्स्यते । यन्त्रणां साङ्केतिकः दोष: भवितुं सम्भावना नास्ति । अन्या का समस्या  इति द्रष्टव्या इति कॉर्परेषन् जनैः स्वीये पत्रे सूचितम् । यन्त्रदोषेण मलप्पुरे १०५ केन्द्रेषु तथा तृश्शूरे ९ केन्द्रेषु च पुनर्निर्वाचनं जातम् आसीत् ।

   शबरिगिरिविशेषाः।
सन्निधाने पम्पायां च महत्य: वर्षाः।नदीतीरे यानोद्याने उपस्थितानि अय्यप्पानां वाहनानि जलोपप्लवे निमग्नानि।

Wednesday, November 18, 2015

 पाकिस्ताने ७३ संवत्सरेभ्यः परं सिख् आराधनालयः उद्घाटितः।


पेषवार् - उत्तरपाकिस्ताने पेषवार् प्रविश्यायां ७३ वर्षेभ्यः पूर्वं बन्धितः सिख् धर्मीनुयायिनाम् आराधनालयः (गुरुद्वारा) विश्वासिनां कृते पुनरपि उद्घाटितः।प्रदेशवासिनः प्रादेशिकशासनञ्च धर्माधिकारिभिः सह कृतं सन्ध्यनुसारं गतदिने एव उद्घाटनम्। अत्र अनुष्ठीयमानं पर्दासम्प्रदायं (स्त्रीणाम् एकान्तवासः) प्रति प्रदेशवासिनां विरोधः १९४२ तमे वर्षे देवालयबन्धनस्य कारणमभवत्।


 शबरिगिरिविशेषाः।

भक्तान् स्वीकर्तुं विपुलानि सज्जीकरणानि पम्पायां सन्निधाने च अधिकृतैः स्वीकृतानि।३६ लक्षं त्रपूंषि(Tin) 'अरवणा' (गुडपायसं)  २.५लक्षं बन्धकाः(Packet) अपूपाः च पूर्वमेव संभृताः। शुचीकरणप्रवर्तनाय अमृतानन्दमयीमठात् अय्यप्पसेवासंघाच्च सन्नद्धसेवार्थिनः समागता: वर्तन्ते। निलय्कल् पन्पा सन्निधानम् इत्येतेषु स्थानेषु अहोरात्रम् अन्नदानस्य व्यवस्थापि तिरुवितांकूर देवस्वं नाम निर्वााहकसंस्थया कृता अस्ति।

Tuesday, November 17, 2015

शरणघोषैः मोक्षपथः जागरित: 
दक्षिणभारते व्रतशुद्धेः दिनानि।

शबरिगिरिः -व्रतशुद्धेः मण्डलकालः अद्य आरभते। दक्षिणभारतस्य
महातीर्थाटनमिति विख्यातस्य शबरिगिरितीर्थाटनस्य अद्य (वृश्चिकः१) शुभारम्भः। अद्य आरभ्य धनुमासस्य ११ दिनाङ्कपर्यन्तं ४१ दिनानि दक्षिणभारतेषु हिन्दुधर्मीयानुयायिनां व्रतशुद्धेः दिनानि भवन्ति। दक्षिणकेरऴस्य पत्तनंतिट्टा जिल्लामधिवसन्तं शबरिगिरीशं धर्मशास्तारं सन्दर्शयितुं लक्षशः भक्ताः केरळं प्रवहन्ति। अद्वैतवेदान्तप्रतिष्ठापनस्य आधारशिलाभूतत्वेन वर्तमानेषु महावाक्येषु अन्यतमस्य तत्त्वमसि इति महावाक्यस्य प्रत्यक्षीभूतः अनुभवःअय्यप्पदर्शनेन सिद्ध्यतीति भक्ताः मन्यन्ते।


केन्द्रसाहित्यअक्कादमीपुरस्कारः
जनार्दन हेगडेवर्याय


बङ्गलूरु -केन्द्र साहित्यकेन्द्रसाहित्यअक्कादमी द्वारा बालकथासप्ततिः इति पुस्तकनिमित्तं  २०१५ तम वर्षस्य बालसाहित्यपुरस्कारः जनार्दन हेगडेवर्याय प्रदत्तः । कर्णाटकस्वदेशी एषः संस्कृतभारत्या : आरम्भकर्तृषु अन्यतमः । स्वीयया सरलया सरसया संशुद्धया च शैल्या जनान् परितोषयितुं समर्थ: हेगडे वर्य: विश्वे अत्यधिकप्रचारयुक्तायाः संस्कृतमासिकायाः सम्भाषणसन्देशस्य मुख्यसम्पादक: भवति  । संस्कृत पठन-पाठन-प्रचरणेषु दत्तश्रद्ध: अयं पञ्चाशदधिकानां शैक्षणिक - मनोरञ्जक पुस्तकानां कर्ता च भवति । बालकथासप्ततिः  संस्कृतभारती बेङ्गलूरु द्वारा प्रकाशितम् । सप्ततीनां मनोरञ्जकबालकथानां गुच्छोऽयं संस्कृतभारत्याः प्रादेशिककेन्द्रेषु तथा प्रमुखसंस्कृतपुस्तकशालासु च समुपलभ्यन्ते । जनार्दन हेगडेवर्याय संस्कृतलोकस्य अभिवन्दनानि ।




ऐ एस् ऐ संबन्धः - कोल्कत्तायाम् एकः अपि गृहीतः।


कोल्कत्ता - पाकिस्तान् राष्ट्रस्य गुप्तचरसंघटना ऐ एस् ऐ इति संस्थया सह सम्बन्धमारोप्य एकः अपि आरक्षकैः बद्धः।दिनद्वयात् पूर्वं एतादृशविषये बद्धस्य अक्तर् खान् इत्यस्य सोदरः सफर् नामकः Special Task Force संघेन गृहीतः।बह्व्यः गुप्तरेखाः अलीकानि भारतीयरुप्यकाणि च एतयोः सका शात्  संगृहीतानि इति आरक्षकैः उक्तम्।

Monday, November 16, 2015

संगीतनृत्ते भारतीयचलच्चित्रसविशेषते।


कोच्ची - संगीतस्य नृत्तस्य च प्राधान्येन चलच्चित्रनिर्माणं भारतस्यैव सविशेषता इति प्रमुखः चलच्चित्रसंविधायकः श्यमबनगल्। कोच्चीनगरे All Lights India इति अन्ताराष्ट्र चलच्चित्रोत्सवस्य उद्घाटनं कुर्वन् अवदत्। विभिन्न भारतीयभाषाचलचित्रेषु संगीताय नृत्ताय च प्रधान्यं दीयते। एतत् संस्कृतनाटकानां स्वाधीनात् आर्जिता सविशेषता इति बनगल् वर्येणोक्तम्।

संस्कृतप्रशिक्षणम् - स्वागतसमितिः रूपीकृता
 
तोटुपुष़:-विश्वसंस्कृतप्रतिष्ठानस्य प्रशिक्षणशिबिरस्य स्वागतसंघः रूपीकृतः।17/11/15 दिनाङ्के कृष्णतीर्थमण्डपे भविष्यति कार्यक्रमः। पेरुव गीतामन्दिर् मठाधिपाः श्रीमद्वेदानन्दसरस्वतिस्वामिपादा: कार्यक्रमस्य उद्घाटनम्  कृतवन्त:
विश्वसंस्कृतप्रतिष्ठानस्य मुख्यकार्यदर्शी श्री वी.श्रीकुमारमहोदय: मुख्यभाषणमकरोत्।
 आतङ्कवादान् विरुद्ध्य सर्वैराष्ट्रैकात्मकता  भवेयुः - भारतस्य प्रधानमन्त्री
अन्टालिय - तुर्क्की राज्ये अन्टालियायां जी.20 उच्चकोटी मेलने भागभाजं भवितुमागतः मोदि वर्य: ब्रिक्स् नेतृऋणां  मध्ये कृतायां चर्चायां भाषमाणः आसीत्I पारीस् राष्ट्रे सञ्जात आतङ्क वादाक्रमणे प्रतिरोद्धुं सर्वे मिलित्वा भवेयुः सिना विमानदुर्घटनायां रूसेभ्यः साह्यः दादव्यः इति च उक्तवान् l आतङ्कवादान्‌  विरुध्य पराजेतुं लोकराष्ट्रैः सम्भूय कर्तव्यानि करणीयानि। ब्रिक्स् राष्ट्राणि एतदर्थे प्रामुख्यं दादव्यम् इति च तेन स्मारितः।
2016 फेब्रुवरि मासे ब्रिक्‌स् अध्यक्ष स्थानस्वीकरणे भारतस्य सम्मितिरभिमानित्वं च वर्तते इत्यपि मोदिवर्य: अवदत्।


संस्कृतसेवकेभ्यः सुवर्णावसरः ।

नदिल्ली -भारतभूषा संस्कृतभाषा, जनभाषा भवेत् इत्यस्याः सङ्कल्पनायाः साफल्याय राष्ट्रियसंस्कृतसंस्थानेन सञ्चाल्यमानायां अनौपचारिकसंस्कृतशिक्षणयोजनायां बहूनां सुसंस्कृतशिक्षकाणां नियुक्तिः क्रियमाणा वर्तते । 
अधिकविवरणार्थं sanskrit.nic.in 

http://sanskrit.nic.in/advt_14_11_2015.pdf
http://sanskrit.nic.in/proforma_14_11_2015

Sunday, November 15, 2015

पारीसे भीकराक्रमणे भारतीया: सुरक्षिता : इति सुषमा स्वराजः
नवदेहली - पारीस् महानगरे जाते ऐ. स्.आक्रमणे न कोऽपि भारतीयः दुर्घटनाबद्धः इति विदेशकार्यमन्त्रिणी सुषमा---महाभागा अवदत्। तस्मिन् देशे भारतीया: सर्वे सुरक्षिताः इति तया स्पष्टीकृतम् । ट्विट्टर् द्वारा एव सुषमा वर्या इदमुक्तवती।
      गतदिने भीकराक्रमणवार्तायां समागतायां एव फ्रान्स्देशस्थभारतीयराजदूतेन सह दूरवाण्या सम्भाषणं जातमित्यपि तया ट्विट्टर् मध्ये सूचितम्। भारतीयेभ्यः साहायार्थं संपर्कसंख्याः उद्‌घाटिता: ।तथा सामूहिकमाध्यमद्वारा तैः सह सम्भाषणाय उद्यमः प्रचलति इति उपप्रधानमन्त्री मनीष प्रभातेन उक्तम् ।

पारीस् नगरे जनसंकुलेषु भिन्नभिन्नस्थानेषु युगपद् जाते स्फोटकविस्फोटनेन 150तः मारिता:। मृतसंख्या इतोऽपि अधिकं भविष्यतीति सूचना ।


लण्टने अम्बद्कर् स्मारकं बसवेश्वरप्रतिमा च मोदिना उद्घाटिते।

लण्टन् - लण्टन् महानगरे विद्यमानं बि अार् अम्बेद्कर् महोदयस्य स्मारकं प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। १९२१- २२ काले लण्टन् स्कूल् आफ् इकणोमिक्स् इति संस्थायाम् अध्यय नं कुर्वन् अम्बद्करेण उषितं भवनमधुनास्मारकत्वेन परिवर्तितम्।
         लणटन् नगरे स्थापितं भारतीयतत्वचिन्तकस्य बसवेश्वरस्य नगरे स्थापिता प्रतिमा मोदिना अनाच्छादितम्। "माग्नाकार्टा"याः पूर्वमेव लोकाय जनाधिपत्यबोधं प्रदत्त: चिन्तकः  जनाधिपत्यविश्वासिनां प्रचोदकश्च आसीदयमिति मोदिना प्रकीर्तितम्।

 ॥ सुवचनानि ॥
त्रैलोक्ये दीपकः धर्मः ।

Saturday, November 14, 2015

तमिल्नाट् राज्ये वर्षाः अनुवर्तन्ते; ५५ मरणानि।


चेन्नै - तमिल्नाट् राज्ये कतिपयदिनैः अनुस्यूतमानासु वर्षासु ५५ जनाः मरणं प्राप्ताः।चेन्नै जनपदे वर्षाः रूक्षतया अनुवर्तन्ते। तिरुवल्लूर् काञ्चीपुरमित्याद्याः जिल्लाः जलोपप्लवे अन्तर्भूताः। बङ्गाल् अन्तर्समुद्रे जातः न्यूनमर्द एव वर्षायाः कारणम् द्वित्राणि दिनान्यपि एषा अनुवर्तिष्यत इति च वातावरण निरीक्षणकेन्द्रैः विज्ञापितम्।
 

Friday, November 13, 2015

संस्कृतेन सत्यप्रतिज्ञा - केरले नवचरितं रचितम्।

अनन्तपुरी - केरलेषु इदंप्रथमतया संस्कृतभाषया जनप्रतिनिधेः सत्यप्रतिज्ञा। गतदिने संवृत्तायां तद्देशजनप्रतिनिधीनां सत्यप्रतिज्ञास्वीकरणसमये तिरुवनन्तपुरं महानगरसभासामाजिकः भाजपादलस्य राज्यसमित्यङ्गः करमना अजितः
संस्कृतभाषया सत्यवाक्यमुक्त्वा संस्कृतमातृसेवामकरोत्। अनन्तपुरी महानगरसभायाः चरित्रे इदंप्रथमतया एव संस्कृतवाक्यानि उद्घुष्टानि। संस्कृतश्रवणमात्रेण सश्रद्धं निश्शब्दं सभागृहम् अजित्वर्यस्य शपथस्यान्ते उच्चैर्हस्तघोषैः आदरं प्रदर्शितवत्। आदौ वरणाधिकारी तथा  जनपदाधीशः बिजु प्रभाकरः सभायाः ज्येष्ठतमायै सामाजिकायै डो. विजयलक्ष्म्यै सत्यवाक्यम् उपादिशत्। तदनन्तरं विजयक्ष्मीवर्यायाः नेतृत्वे शिष्टाः९९ सामाजिकाः सत्यप्रतिज्ञां कृतवन्तः।
एष्याभूखण्डस्य बृहत्तमः विद्यालयकलामेला केरलेषु।


अनन्तपुरी - एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति सुविख्यातः केरलच्छात्रोत्सवः (केरला स्कूल् कलोत्सवः) जनुवरिमासस्य १७ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं तिरुवनन्तपुरं जनपदे प्रचलिष्यति इति केरलस्य शिक्षामन्त्री पि के अब्दुरब्ब् महोदयः विज्ञापितवान्। एरणाकुलं जनपदे इति पूर्वनिश्चिता आसीदियं कलामेला । किन्तु मेट्रो निर्माणेन अनुभूयमानां दुरवस्थां परिगणय्य एव मेलासञ्चालनाय अनन्तपुरी निश्चितेति शिक्षामन्त्रिणोक्तम्।
 

ब्रिटनदेशे प्रधानमन्त्रिणे उज्ज्वलं स्वीकरणम्।

लण्टन् - भारतप्रधानमन्त्रिणे  नरेन्द्रमोदिवर्याय  उज्ज्वलं स्वीकरणम् । त्रिदिनसन्दर्शनाय ब्रिटन्देशं प्राप्तं प्रधानमन्त्रिणं कोमण् वेल्त् विदेशकार्यमन्त्री ह्यूगो स्वेर्, भारतवंशजा ब्रिटीश्मन्त्री प्रीति: पटेलः इत्यादयः स्वीकृतवन्तः ।

मोदिनः सन्दर्शनेन अतीव सन्तुष्ट: इति ब्रिटीश् प्रधानमन्त्री डेविड् कामरूण्वर्यः अवदत् । उभयोः राष्ट्रयोः मिथः सौहृदं दृढीकर्तुं मोदिनः सन्दर्शनं उपकरिष्यतीति कामरूण् स्पष्टीकृतवान् ।
ब्रिटीश् पार्लिमेन्ट्  संयुक्तसम्मेलनं प्रधानमन्त्री नरेन्द्र मोदी सम्बोधयिष्‍यति । जनप्रतिनिधिसभायाः प्रभुसभायाः च संयुक्तसम्मेलने अपि स: भागं ग्रहीष्यति । मोदि वर्यस्य बहुमानार्थं एलिसबत् महाराज्ञी मध्याह्नभूरिभोजनस्य व्यवस्थां कृतवती । तस्य इङल्ण्डसन्दर्शनम् शनिवासरे समाप्तिम्' एष्यति । ततः स:  G40 सम्मेलने भागं ग्रहीतुं तुर्कीं गमिष्यति

 
भारते असहिष्णुतायाः स्थानं नास्ति इति प्रधानमन्त्री मोदिवर्यः

लन्टन्- देशवासिनः व्यक्तिगतस्वातन्त्र्यं लिखितभरणशासनानुसारं सर्वेभ्यः समानं इति दृढीकृतमस्ति। भगवतः बुद्धस्य तथा महात्मा गान्धीवर्यस्य च जन्मभूमि: इदं भारतम् । अस्मिन् असहिष्णुतायाः स्थानं नास्ति इति ब्रिट्टन् राष्ट्रस्य  उच्चशासनसभायां नरेन्द्रमोदिना अवदत् ।  ब्रिट्टन् देश:अपि इदानीं आतङ्कवादिभ्यो  भीतो वर्तते। तत् परिहर्तव्य:। आतङ्गवादान् विरुद्ध्य किमपि कर्तव्यः इति सर्वेषां मानवानां कर्तव्यमेव इति च सः अवदत्।
 
चाकलेहः इति विचार्य विस्फोटकं खादिता बालिका मृता।

रत्नगिरिः - महाराष्ट्रायां रत्नगिरिजनपदे तिसाङ्गी इति ग्रामे दामिनी निगम् नामिका पञ्चवयस्का बालिका  चाकलेहः इति विचिन्त्य विस्फोटकं खादित्वा मरणं प्राप्ता।स्वगृहस्य पुरतः मित्रैः साकं क्रीडावत्याम् इयं दुर्घटना जाता। झटित्येव माता समीपस्थमातुरालयं नीतवती तथापि बालिका मृत्युमुपगता।

 ॥ सुवचनानि ॥
गहना कर्मणो गतिः ।
गुणाः सर्वत्र पूज्यन्ते ।

Thursday, November 12, 2015

अनुज्ञा २४७ कोटिरूप्यकाणां ; व्ययः केवलं १४२ कोटिः।

नवदिल्ली - ६ पङ्क्तियुक्तम् उपरितरणपथं(Flyover) निर्मातुं २४७ कोटिरूप्यकाणाम् अनुज्ञा दीयते, १४२
कोटिरूप्यकैः पद्धतेः पूर्तीकरणं सम्भवति ! भ्रष्टाचारसम्पन्ने अस्मिन् राष्ट्रे भ्रष्टाचारविरुद्धमुद्रावाक्यैः सन्देशैश्च अघिकारं प्राप्तवता दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवाल् महोदयेन इयं मान्त्रिकप्रक्रिया सञ्चालिता।
२०१३ तमे वर्षे षीलादीक्षित् सर्वकारेण उत्तरदिल्याम् आसाद्पुर- प्रेमबारीप्रदेशयोः मध्ये १.६ कि.मी. दैर्घ्येन उपरितरणमार्गनिर्माणाय २४७ कोटिरूप्यकाणाम् अनुमतिः दत्ता निर्माणमारभत च। किन्तु केज्रिवाल् वर्यस्य अधिकारप्राप्त्यनन्तरं केवलं १४२ कोटिरूप्यकाणां व्ययेन वीथीनिर्माणं पूर्तीकृत्य गतदिने उद्घाटनमपि कृतम्।


बीहार् - नितीष् कुमारस्य स्थानारोहणं २० तमे।

पाट्ना - बीहारराज्यस्य मुख्यमन्त्रिरूपेण नितीष् कुमार् वर्यस्य स्थनारोहणं नवं- २० तमे दिनाङ्के भविष्यति। पाट्नायां
गान्धीमैतान् मध्ये एव सत्यप्रतिज्ञाक्रियाः आयोजयिष्यन्ते। जे डि यू दलात् १५, आर् जे डी तः१६, कोण्ग्रस् दलात् ६ च सामाजिकाः सचिवपदे भविष्यन्ति।


 
  गोयङ्क एक्सलनस् वार्तामाध्यमपुरस्कारेण बिजु परवत्तः सम्मानितः।

नवदिल्ली - रांनाथ् गोयङ्क एक्स्लन्स् ओफ्‌ जेर्णलिसम् पुरस्कारः मलयालभाषायाः प्रमुखपत्रिका मातृभूमेः वार्ताहराय बिजु परवत्त महोदयाय अलभत। राज्यस्तरीय भाषाया: उत्तमवार्ताहराय प्रख्यापितः अयं पुरस्कारः २०१२-१३ वर्षस्य एव। भारत-पत्र-माध्यम-मण्डल्स्य कुलपति इति विख्यातः इन्ड्यन् एक्‌स्प्रस् पत्रिकायाः स्थापकः राम् नाथ गोयङस्य नाम्नि  संस्थापितः अयं पुरस्कारः। गोयङ्क फौण्डेषन् संस्थया पुरस्कारः यच्छति। लक्षं रुप्यकाणि प्रशस्तिपत्रं च पुरस्कारे अन्तर्भवति ।  2013 अगस्त मासस्य26 तः29 पर्यन्तं मातृभूमिपत्रिकायां प्रकाशितः "नीतिम् अलभमानाम् आदिवासिजीवनम्" इति परम्परायाः कृते एव पुरस्कारः। वि.के माधवन् कुट्टि पुरस्कारेण कालिकट्ट्  प्रस्क्लब् पुरस्कारेण ई. एम्‌ .एस् पठन-गवेषण-केन्द्र-पुरस्कारेण च एषः महोदय: पूर्वं पुरस्कृत: आसीत्।


विदेशचार्टर्विमानसेवनानि इतःपरं भारतात् अपि आरब्धुं शक्यते।
 
नवदेहली - व्योमयानमण्डले विदेशनिक्षेपे उदारीकृते विदेशचार्टर्विमानसेवनानि भारतात् आरब्धुं साध्यता जाता । अस्मिन् मण्डले अधुना चतुस्सप्ततिप्रतिशतम् एव विदेशनिक्षेपाय अनुमति: विद्यते। तत् इतःपरं शतप्रतिशतं कर्तुमेव निश्चयः। नूतनव्योमयाननये आगते वाणिज्यविनोदसञ्चारमण्डलानामपि गुणकरं भविष्यति ।

ISRO संस्थायाः जी साट्15 उपग्रहस्य
विक्षेपणे विजयः
कालीफ़ोर्णिया-  ISRO संस्थायाः जीसाट्15 नाम नूतन उपग्रहस्य विक्षेपणे भारतं विजयीभूतम् । दक्षिण अमेरिक्कायाः फ़्रञ्च् गयानायाः कौरु देशतः विक्षिप्तः विक्षेपणपेटकेन  जीसाट्ट्15 भू भ्रमणपथे न्यक्षिपत् 

 11 घण्डापर्यन्तं अनुवर्तमानः नीच गणनानन्तरं पूर्वनिश्चयानुसारेण आकाशं प्रति उत्पतितः।  43 मिनिट्  24 निमेषानन्तरं स्वस्य स्थानं प्राप्य नियन्त्रकानां कृते सन्देश: प्रेषितः। इदानीम् आरभ्य हासन् तः भवति उपग्रहस्य नियन्त्रणम् ।

Wednesday, November 11, 2015

  ICC अध्यक्षस्थानात् श्रीनिवासः निष्कासितः।

मुम्बई - अन्ताराष्ट्रीयक्रिकट् समित्याः(ICC)अध्यक्षस्थानात् एन्.श्रीनिवासः निष्कासितः। तत्स्थाने शशाङ्क् मनोहरः नियमितः। ICC मध्ये भारतीयक्रिकट्नियन्त्रणमण्डलस्य (BCCI) प्रतिनिधिरूपेण शशाङ्कमनोहरः संस्थायाः वार्षिकसम्मेलने  चितः इत्यतः श्रीनिवासस्य स्थानचलनं सञ्जातम्।


माणिः अपराधं  न कृतवानिति मुख्यमन्त्री।

अनन्तपुरी- मदिराविक्रयणलकुचविषये माणिः अपराधी इति न विश्वसिमि इति
केरलस्य मुख्यमन्त्री उम्मन् चाण्डी वर्यः। माणेः परित्यागपत्रं स्वीकृत्य तिरूवनन्तपुरे माध्यमप्रवर्तकैः साकं भाषमाण : आसीत् मुख्यमन्त्री । उच्चन्यायालयस्य आदेशे कुत्रचित् परामृष्टः इति विहाय माणेः उपरि कोऽपि अपराधः आरोपितः नास्तीति तेन उक्तम् । उन्नतं राजनैतिकमूल्यं  मनसि निधाय एव माणिना स्थानत्यागः कृतः । अयं तस्य स्वीयः निश्चयः इत्येव मुख्यमन्त्री अवदत् । स्थानं  त्यक्तुं कुतश्चिदपि सम्मर्दः नासीत्  । तादृश्य : वार्ता: अतथ्याः इत्यपि तेनोक्तम् ।
1975 तः ऎक्यजनाधिपत्यसख्यस्य अविभाज्यघटकं भवति केरला कोण्ग्रस्। ततः आरभ्य
ऎक्यजनाधिपत्यसख्यस्य शक्तिस्रोतः भवति सः इत्यपि उम्मन् चाण्डिवर्यः अवदत् । के .एम् माणिः सभायां ज्येष्ठ: एव। तस्य सेवनं सर्वकाराय सम्पदेव । निरपराधतां प्रकाश्य सः शीघ्रं प्रत्यागच्छतु इत्यपि तेनोक्तम् ।

माणिना त्यागपत्रं समर्पितम्।


अनन्तपुरी - मदिराविक्रयणलकुचविषये उच्चन्ययालयात् प्रतिकूलपरामर्शविहितः केरलवित्त-नीतिमन्त्री के एम् माणी त्यागपत्रं समर्पयत्। नीतिन्यायव्यवस्थां प्रति आदरसूचकं भवति स्थानत्यागमिति माणिना उक्तम्। यू डि एफ् दलाय इतोपि सम्पूर्णं साहाय्यं स्यादिति तेनोक्तम्।

॥ सुवचनानि ॥
 इतो भ्रष्टस्ततो भ्रष्टः ।
ईश्वरेच्छा बलीयसी ।

 इक्षुः मधुरोऽपि  समूलं न भक्ष्यः।

Tuesday, November 10, 2015

दीपावली शुभाशयाः विविधभाषासु 
 Clik here For Crackers 














❇Sanskrit:
शुभ दीपावली । सर्वे भवान्तु सुखिनः
Shubhah Deepavalihi.. Sarve bhavantu sukhinah

✴Telugu: 
Andariki Deepawali shubakankshalu

✳Tamil: 
Anaivarukum iniya Dheebavali nal valhthukkal.
Deepavali naal vazhthagal.
எல்லோருக்கும் இனிய தீபாவளி நல்வாழ்த்துக்கள்!

✴Malayalam:
 Ellavarkkum santhoshavum ahlathavum niranja Deepavali ashamsakal
എല്ലാവര്‍ക്കും സന്തോഷവും ആഹ്ലാ
വും നിറഞ്ഞ ദീപാവലി ആശംസകള്‍.

❇Tulu: 
Nikulu Materegla deepavali parbada shubhashya!

✴Kodava:
 Ninga eelariku santosha Deepavali.

❇Kannada: 
DeepavaLi habbada hardika shubhashayagaLu.
ದೀಪಾವಳಿ ಹಬ್ನದ ಹಾರ್ದಿಕ ಶುಭಾಶಯಗಳು
ಮೋಜಿನದೀಪಾವಳಿ ಹಬ್ಬದ ಹಾರ್ಧಿಕ ಶುಭಾಶಯಗಳು

✴Konkani: 
तुन्का सग्गाठंकयी दीपावली ची हार्दिक शुभेच्छा ।
Twitter antu asile pura lokaku amgel kadechan Deepavali parbeche shubhashay.
विविध भाषासु
✳Marathi:
तुम्हा सर्वाना सुखी अणि आनंददायी अश्या दिवाळीच्या हार्दिक शुभेच्छा Tumha sarvana, sukhi ani aanandmayi asha ya Diwlicha hardik shubbhecha.

❇Bambaiyya:
Apun ke taraf se sabko ekdum jhakas happy wala Diwali ki badhai.

❇Gujarati: 
Diwali ni hardik shubechao ne nutan varshabhinandan.
Diwali na divas par tamne ane tamara sahu pariwar jan ne diwali ni subhecha pathvu chu.

✴Kathiyawadi: 
Nava varsh na raam raam/ jai shri krishna

✳Kutchi: 
Aanke madi ke di Diwali ji lakh lakh vadhaiyu
✴Sindhi: 
Tawankhey , tawanje gharawaran and dostan khey dil sa dyari ju wadayu.

❇Balochi:
 Washen Diwali Shomara Murad Bath.

✴Malwa: 
Deepawali ki Ram Ram.

✳Marwari:
Ram Ram sa Diwali ra jualda karu sa,aapne or aapre sagla pariwar ne diwali ra ra
विविध भाषासुmasama karu sa.
थे लोंगा ने दिवाली की हार्दिक शुभकामनाएं.

✴Saavji: 
Tumne ani tumara samasta parivaar ne Deewali nu shubbheccha.

✳Rajasthani: 
Aap re or aap re ghar walo ne mari tharaf su diwali ki gani gani shubha kamnaye.

✴Shekhawati:
 Thane Diwalli ki bhot bhot badhaiaan mahri aur soon.

❇Hadoti:
 Tanne diwalli ki bhat bhot badhai mahri aur choon.

✴Sadri: 
Raaur ke shubh Deepavali.

❇Punjabi:
त्वानूं सब नूं दिवाली दी लख लख बधाइयाँ।
Twahnu Diwali diyan lakh-2 badhaiyan!!

✴Kashmiri: 
Tohi chuv Diwali hunz hath hath Mubarak
Diwali’ us pet tohi saarni mubarak. Lassun te Pahlun.

✳Hindi:
आप सभी को खुशियों और उल्लास से भरी दिवाली की शुभ-कामनाएं !
Aap Sab ko prasannata evam anand se paripoorn Diwali ki shubhkaamnaayein!

✴Urdu: 
Deepavali ki dilli mubarakhbaad app sab khavateen o hazrat ko.

✳Bhojpuri:
Raurake Diwali ke badhayi ho.

✴Nepali:
शुभ दिपावली को पावन अवसरमा हार्दिक मंगलमय शुभकामना

❇Maithili:
Aahan sabgote ke mithilawasi ke or sa Diwali ke hardik subhkamna.

✴Bangla:
Sakalkeyi Diwali)priti o antarik subhecha. Asha kori, ei Dibas apnar jibone Anando niye ashe

✳Asomese: 
दीपावली’र हार्दिक शुभेच्छा जौनाइसु आपुना’र लौक

✴Dimasa:
Deepawali Ni Khirbkhe Aani Hamjauma Odehe Khasauma Rilahadu.

❇Odia: 
Apana sabhinku subha abong anandamaya DIPAVALI ra hardhik subha kamala

✴Romanian: 
Deepawali fericite.

✳Spanish: 
Deseamos feliz Deepavali.

✴Arabic:
  ديوالي سعيد جداً
diwali Ya saeed jidan

❇French :
Vous souhaite un joyeux Deepavali

✴German: 
Herzlichen Glueckwunsch  zum Diwali
✳English: 
Wishing you all in advance, a very happy and fun filled Diwali. Happy Deepawali.
-डा.सि.जि. विजयकुमारः 
कविकुलगुरु कालिदास विश्वविद्यालयः
मदिराविक्रयणलकुचविषये 
उच्चन्यायालयेनापि 'माणिः' परित्यक्तः।

 कोच्ची- मदिराविक्रयणलकुचविषये केरलवित्तमन्त्रिणं के एम् माणिं विरुद्ध्य भ्रष्टाचारविरुद्धन्यायालयस्य आदेशः
उच्चन्यायालयेनापि साधुः इति कृतः। पुनरन्वेषणं करणीयमिति उच्चन्यायालयेनापि निर्दिष्टम्। मदिराव्यापारिणां सकाशात् स्वीकृताविहितधनस्य विषये माणिं विरुद्ध्य नीतिपीठः रूक्षविमर्शमपि कृतवान्। केरलाकोण्ग्रस्(एम्),कोण्ग्रस्(ऐ),यू डि एफ् इत्येषाम् उन्नताधिकारसमितिः अद्य अनन्तपुर्यां सम्मिलति। बहवः दलनेतारः माणिवर्यस्य त्यागपत्रम् अभ्ययाचन्त। अतः अद्य एव स्थानत्यागाय अवकाशः अस्ति। 


वल्लत्तोल् जयन्ती समुचितं आघुष्टम् । 

चेरूतुरुत्ति - केरलीयमहाकवे: वल्लत्तोल् महोदयस्य जयन्तीवार्षिकं समुचितं
आघुष्टम् । उपकुलपतिः पि .एन् .सुरेशवर्यः , वल्लत्तोल् वासन्ती मेनोन् , इत्यादीनां नेतृत्वे कवयः कलामण्डलम् अध्यापका :,अन्ये कार्यकर्तार: छात्राः च वल्लत्तोल् समाधिमन्दिरे  पुष्पार्चनां अकुर्वन् । मलयालम् विश्वविद्यालयस्य उपकुलपतिः के . जयकुमार वर्यः वल्लत्तोल् अनुस्मरणभाषणं कृतवान् । काव्यपूजायां  एन् .के.देशं , के .वि.रामकृष्णः, कल्पट्ट नारायणः आलङ्कोड् लीलाकृष्णः, रफीक्‌ अहम्मदः , सेबास्ट्यन्, श्रीलता वर्मा इत्यादया: भागं गृहीतवन्तः । ततः नलचरितं साहित्यं वेदिका च इति विषये सङ्गोष्ठी जाता रात्रौ निलादेशीय नृत्यसङ्गीतसम्मेलने  जानकी रङ्गराजेन कृतं भरतनाट्यं भावतरङ्गितं जातम् ।  ततः नलचरितं तृतीयदिनं कथाकेलिः आसीत्  यस्मिन् विख्यातनटः कलामण्डलं गोपिवर्यः बाहुकवेषं धृतवान् । ततः कीचकवधम् कथाकेलिः अपि आसीत् ।                                      -सुजा हरिदासः 
  
॥ सुवचने ॥
अनतिक्रमणीया हि नियतिः ।
अधिकस्याधिकं फलम् ।

Monday, November 9, 2015

बीहारे महासख्यस्य महाविजयः।

पाट्ना - बीहार् राज्यस्य नियमसभानिर्वाचने प्रवचनानि अप्रसक्तानि कृत्वा जे डि यू, आर् जे डि, कोण्ग्रस् महासख्यस्य अत्युज्वलविजयः। २४३ मण्डलेषु १७८संख्याकानि प्राप्य विशालसख्यः जनहितं प्रकाशितवान्। भाजपासख्येन केवलं ५८ आसन्दाः प्राप्ताः इति मोदीप्रभावस्य प्रत्याघातः सूचितः।
बीहार् - प्राप्ता आसन्दाः
 
महासख्यः -१७८
जे डि यु -७१
आर् जे डि -८०
कोण्ग्रस् - २७


------------०-------------
एन् डि ए सख्यः -५८
भा ज पा -५३
एल् जे पि -०२
आर् एल् एस् पि -०२
एछ् ए एम् -०१
---------------०------------
अन्ये  ७
आहत्य स्थानानि -२७३

न्यायेन सह समावेशीविकासः नूतनप्रशासनाय प्राथ्म्ययुतः– नीतीशः।
भाजपासंसदीयसमित्याः उपवेशनमद्य नवदिल्ल्याम्।
म्यामारदेशे गतदिने निर्वाचनं सम्पन्नम्।

॥ सुवचनानि ॥
अतिपरिचयादवज्ञा ।
अतिलोभो विनाशाय ।
अतितृष्णा न कर्तव्या ।
अति सर्वत्र वर्जयेत् ।

Sunday, November 8, 2015

कश्मीरविकसनम्  - ८०,००० कोटिरूप्यकाणां पद्धत्या केन्द्रसर्वकारः ।

जम्मू - कश्मीरस्य विकसनाय केन्द्र सर्वकारः ८०,००० कोटि रूप्यकाणि दास्यति इति उद्घोषः । मौलिकसौकर्यविकसनं स्वास्थ्यमण्डलविकसनम्  इत्यादयः बृहत्यः विकसनपद्धत्यः एव प्रधानमन्त्रिणा नरेन्द्रमोदिवर्येण  उद्‌घोषितम् ।
जलोपप्लवे नष्टानां गृहाणां पुनर्निर्माणाय नष्टव्यवसायानां पुनःस्थापनाय च 7854 कोटि रूप्यकाणि अयच्छत् जलोपप्लवनियन्त्रणाय अपि व्यवस्थाः भविष्यन्ति | अत्यधिकं धनं मार्ग - राजमार्गविकसनाय एव 42,611 कोटिरूप्यकाणि| ऊर्जपद्धतीनां कृते 11708 कोटिरूप्यकाणि  दास्यति  । आरोग्याय 49,000 कोटिः तथा कार्षिकविकसनाय 529 कोटि: विनोदसञ्चाराय 2241 कोटिः च भवति । अभयार्थिनां पुनरधिवासाय सुरक्षायै च 5263 कोटि: दीयते । 450 मेगावाट् बग्रिम्हार् जलवैद्युत पद्धतेः द्वितीयघट्टस्य उद्घाटनं कश्मीरे कुर्वन् प्रधानमन्त्री एव विकसनपद्धतीः उदघोषयत् ।
 सुवचनम् 
 कर्तव्यो महदाश्रयः ।

Saturday, November 7, 2015

 छोटाराजः दिल्लीं प्राप्तः।

नवदिल्ली - बालीदेशे गृहीतं अधोलोकनेतारं छोटाराजं सि बि ऐ संघः दिल्लीं प्रापयत्।इन्डोनेष्यातः भारतीयव्योमसेनायाः गल्फ् स्ट्रीम् ३ इति विमाने दिल्लीं आनीतं तं सि बि ऐ आस्थानं नीत्वा ततः किमपि अज्ञातकेन्द्रं प्रति स प्रेषितः। छोटाराजस्य आनयनकारणेन मुम्बैय्यां दिल्ल्यां च अतीव  जाग्रता विज्ञापिता।
 
 
एकश्रेणी - एकनिवृत्तिवेतनं - विज्ञापनं दीपावलेः पूर्वम्।


नवदिल्ली - विमुक्तभटानां कृते भारतीयसर्वकारेण सेप्तम्बरमासे अंगीकृतायाः एकस्याः श्रेण्याः कृते एकं समानं रीतिः स्वीक्रियमाणा इत्यपि पद्धत्याः विज्ञापनं दीपावलेः प्राक् भविष्यतीति केन्द्ररक्षासचिवः मनोहर परीक्कर् वर्यः उक्तवान्।किन्तु मन्त्रिणः प्रस्तावना न विश्वसनीया इति समरान्दोलनं कुर्वतां विमुक्तभटानां नेता मेजर् जनरल् सद्भीरसिंहः अवदत्।अतः पुरस्काराणां प्रत्यर्पणमिति नूतनसमर रीतिः आविष्कृता  इत्यपि तेनोक्तम्।

  
नगरसभाध्यक्षाणां  चयनम् अष्टादशे

तिरुवनन्तपुरं - नूतननगरसभाध्यक्षाणां महानगरसभाध्यक्षाणां  च चयनम् अष्टादशदिनाङ्के भविष्यति । प्रातः एकादशवादने एतेषां चयनानन्तरं  उपनगरसभाध्यक्षाणां  उपमहानगरसभाध्यक्षाणां च चयनं मध्याह्ने द्विवादने भविष्यति । एतदधिकृत्य निर्वाचन कम्मीषणेन निर्देशा: दत्ताः । ग्राम- ब्लोक् - जनपद पञ्चायतानां अध्यक्षाणां चयनं नवदशदिनाङ्के प्रातः तथा उपाध्यक्षाणां चयनं मध्याह्ने च भविष्यति


आयुधदानं चैनया ; परिशीलनं म्यान्मर् मध्ये - डिङ्का।

कोषिक्कोट् - भारते विध्वंसकप्रवर्तनाय चैना म्यान्मर् द्वारा बहूनि साहाय्यानि तीव्रवादसंघटनेभ्यः ददतः इति गृहीतस्य बोडोतीव्रवादिनायकस्य डिङ्कस्य  उक्तिः।कोषिक्कोटे कक्कोटीतः गृहीतः बोडोतीव्रवादिनेता लिबियोण् बसुमतारी इत्याख्यः डिङ्कः अन्वेषकाणां पुरतः एवम् अपराधाङ्गीकारोक्तिं कृतवान्।
असम् , नागालान्ट्  मणिप्पूर् इत्यादिषु राज्येषु प्रवर्तमानानां संघटनेभ्यः भारतसैन्यं प्रति युद्धं कर्तुं अभ्यासः आयुधश्रेणयश्च प्रातिवेशिकराष्ट्रेभ्यः लभन्ते। कार्बैन् मषिन् गण् इन्सास् सीरीस् गण् ए के  ४७ ,ए के ८७. .. इत्यदीनि नालिकाशस्त्राणि चीनादेशे निर्मीय आनेतुं मध्यस्थाः बहवः सन्ति। एतादृशेषु आयुधेषु शिक्षणं संसिद्ध्य भारतसैन्यं प्रति प्रयुक्तवानिति डिङ्कः स्वस्य उक्तौ स्पष्टीकृतवान्। डिङ्कम् असमराज्यं नेतुं चिराग् जनपदात् सप्तारक्षका: अद्य कोषिक्कोट् प्राप्स्यन्ति।


Friday, November 6, 2015

तद्देशीयनिर्वाचनम् - निर्वाचनयन्त्रदोषमधिकृत्य विशेषान्वेषणम्।

मलप्पुरम् - मलप्पुरे मतदानयन्त्राणां सम्भूय जातं दोषम् अधिकृत्य विशेष: सङ्घः अन्वेषणं करिष्यतीति गृहमन्त्री रमेश् चेन्नित्‍तला अवदत् । निर्वाचन कम्मीषणस्य सकाशात्  लब्धे सति सपदि तदधिकृत्य विज्ञप्तिः भविष्यति । अयं विषय: गौरवयुक्तः इत्यपि तेन स्पष्टीकृतम् । जनपदे यन्त्रदोषकारणेन स्थगितनिर्वाचनेषु त्रयोदश पञ्चायतेषु सप्तविंशतिषु मतदानकेन्द्रेषु पुनर्निर्वाचनं कारणीयम् इति जनपदाधिकारिणा भास्करवर्येण राज्यनिर्वाचनकम्मीषन् प्रति सूचितम्। निर्वाचनस्थगनम् अधिकृत्य विविध राजनैतिकदलैः प्रतिषेधाः कृताः आसन् । यन्त्रदोषेण  सप्तत्यधिकद्विशतेषु (२७०) केन्द्रेषु निर्वाचनं स्थगितमासीत्   । यन्त्रेषु निर्यासादीनां स्थापनेन दोष: कारितः इति अवलोकितमासीत् । मुस्लीमलीग्‌ शक्तिकेन्द्रेषु  एव  एतत् दृष्टम् . I
तृश्शूरे यन्त्रदोषेण स्थगितनिर्वाचनेषु  अष्टस्थानेषु शुक्रवासरे पुनर्निर्वाचनं भविष्यति । कुन्नत्तङ्ङाडि , दक्षिण एरव् , पूतनक्करा , वेल्लार्कुलं, अन्नमनडा , कय्पमङ्गलं  एङ्ङडियूर् ,  चेलक्करा  , इत्यादि स्थानेषु एव पुनर्निर्वाचनं भविष्यति  ।

Thursday, November 5, 2015


राष्ट्रान्तरीयचलच्चित्रोत्सवस्य उद्धाटनाय संस्कृतचित्रम् ।

नवदिल्ली राज्यस्तरीयपुरस्कारनिर्णयवेलायां केरलचलच्चित्रअकाडम्या निरस्तं संस्कृतचलच्चित्रं गोवायां सञ्चााल्य माने रष्ट्रान्तरीयचलच्चित्रोत्सवे भारतीयपनोरमाविभागे उद्घाटनत्वेन स्वीकृतमस्ति।भारतचलच्चित्रचरित्रे तृतीयं संस्कृतचित्रं "प्रियमानसं" एतादृशम् अपूर्वसौभाग्यमर्हदस्ति। 
 विख्यातसंविधायकेन विनोद् मङ्करा वर्येण संविधानं कृतं प्रियमानसं विश्रुतमलयालकवेः उण्णायिवार्यर् वर्यस्य आत्मसंघर्षाणां दृश्याविष्कारः भवति।प्रशस्तः अभिनेता राजेष् हेब्बारः उण्णायिवार्यर् महाभागम् अवतारयति। सोमा क्रियेषन्स् इत्यस्य नेतृत्वे बेबीमात्यू सोमतीरेण इदं चित्रं निर्मितम्। तिरुवनन्तपुरं चलच्चित्रोत्सवे प्रियमानसेन अनुभूता अवगणना विवादाय कारणमभवत्।

केरलेषु अन्तिमपादनिर्वाचनम्  अद्य


अनन्तपुरी- केरलेषु त्रितलतद्देशनिर्वाचनस्य द्वितीयम् अन्तिमं च निर्वाचनं सप्तजनपदेषु अद्य प्रवर्तते।पत्तनंतिट्टा, आलप्पुषा, कोट्टयं , एरनाकुलम, तृश्शूर्, पालक्काट्, मलप्पुरम् इत्येतेषु जनपदेषु प्रातः सप्तवादनादारभ्य मतदानप्रक्रिया आरभते।
 संवत्सराभ्यन्तरे प्रचाल्यमानस्य नियमसभानिर्वाचनस्य निकषरूपेण कल्प्यमाने अस्मिन् निर्वाचने शासकपक्षेन यू डि एफ् दलेन विपक्षेन एल् डि एफ् दलेन च साकं भा ज पा अपि स्वशक्तिं परीक्षते।मतगणना फलप्रख्यापनं च सप्तमदिनाङ्के भविष्यति।


राष्ट्रपतेः वधश्रम: मालिद्वीपे आपात काल जाग्रता  उद्घुष्टा।

मालि  : राष्ट्रपतिं विरुध्य जातम् वधश्रमम् अनुसृत्य मालिद्वीपे  आपातकाल: उद्‌घुष्टः । देशीयसुरक्षाम् अभिलक्ष्य एव आपातः उद्‌घुष्टः इति विदेशकार्यमन्त्रालयेन सूचितम् । त्रिंशत्दिनपर्यन्तमेव आपात:  I सप्तम्बर् अष्टाविंशतौ एव यामीनस्य नौकायां स्फोटनं जातम् । अस्यां दुर्घटनायां यामीनस्य पत्‍नी तथा अन्यौ द्वाै अपि  व्रणितौ आस्ताम् । प्रधानप्रतिपक्षदलस्य मालिद्वीप् डेमोक्राटिक् पार्टी (एम् . डि .पि .)नेतुः मुहम्मद् नषीदस्य ग्रहणानन्तरघटनाः एव द्वीपराष्ट्रं आपातं प्रति नीताः । प्रतिपक्षनेतुः कारावासं विरुध्य अन्ताराष्ट्रियतले प्रतिषेध: आसीत् । राष्ट्रपतिं अब्दुल्ल यामीनं विरुध्य प्रकटने करिष्यमाणे एव आपातकालस्य उद्घोषणम् ।

Wednesday, November 4, 2015

स्वकीयविमानेन चीना।

बैजिङ्- विमानेषु बोयिङ्, एयर बस् यानयोः प्रतिद्वन्ती इव नूतनं विमानं चीनया निर्मितम् सी 919 इति नाम्ना अवतारितस्य विमानस्य निर्मितिः कमेर्सियल् एयर क्राफ़्त् कोर्परेषन ओफ़् चैना नाम संस्थया एव शान हाइ नगरे पुटोङ् राष्ट्रान्तर विमानपत्तने विमानस्य प्रदर्शनमकरोत्
एञ्जिन् द्वयेनयुक्तस्य 39 मीटर दीर्घाकारस्य च अनेन आकाशयानेन 5555 कि मी दूरम् अनुस्यूतम् डयितुम् शक्यते। प्रथमं परीक्षणडयनम् आगामिनि वर्षे कर्तुं शक्यते इति तेषां शुभेच्छा 2019 तमे विमानस्य प्रथममं क्रमानुसारडयनम् भविष्यति 




भारत स्योपरि आक्रमणं कर्तुं 
सीमनि प्रतीक्षमाणाः ३०० आतङ्कवादिनः



श्रीनगरम्- भारतं निलीय प्रवेष्टुं भारतसीम्नः समीपम् आतङ्कवादिनः गुप्तवासं कुर्वन्तीति  वरिष्ठसैनिक:  जनरल् सतीष्‌ दुव अकथयत् । भारतसुरक्षासेनायाः शक्तैः प्रतिरोधप्रवर्तनैः एव आतङ्कवादिनः अन्तः प्रवेष्टुं न पारयन्ति । कदाचित् आक्रमणमपि कुर्वन्तीति सः अवदत् ।प्रधानमन्त्रिणः जम्मु सन्दर्शनवेलायां ह्यः पाकिस्तानतः गोलास्त्रप्रयोगः आसीत् । भारतसैन्यं प्रति आक्रमणे द्वौ  सैनिकौ मृतौ च । ह्यः१२.३०वादने आरब्धम् आक्रमणं द्विवादन वादन पर्यन्तमासीत् । पाक्‌सैन्यस्य एतादृशी प्रवृत्ति: आतङ्कवादिनां भारतप्रवेशनस्य साहायार्थम् इति भारतम् आरोपणं करोति।

 बोडो भीकरः केरल देशात् गृहीतः।

कोषिक्कोट्- निरुद्धायाः बोडोभीकरसंस्थायाः नेता कोषिक्कोट् जनपदे आरक्षकैः गृहीतः।असं राज्यस्य 'नाषणल् डमोक्राटिक् फ्रन्ट् आफ् बोडोलान्ट् ' इति संस्थायाः कार्यदर्शी तथा सायुधसंघस्य नेता लिबियोण् बसुमतारी (डिङ्का-३८) एव विशिष्टारक्षकसंघेन गृहीतः।
  वटकरायां कक्कोटिमुक्क् इत्यस्मिन् स्थाने असमीयैः कर्मकरैः साकं निलीय वासं कुर्वन्तमेनं सैनिकगुप्तचरविभागात् लब्धां सूचनामनुसृत्य राज्यस्य गुप्तचरविभागस्य अधिकारिणः वि पि सदानन्दस्य संघ अग्रहीत्।

Tuesday, November 3, 2015

 
'चपला' येमन् देशे मरणत्रयम्।
ओमाने  भारतीयाः रिक्तीकृताः।

 येमने सोकोत्र द्वीपे आगतस्य चपला इति झञ्झावातस्य औपग्रहिकं चित्रम् । 

सना - येमने सोकोत्रद्वीपे जाते चपला इति झञ्झावाते त्रयः मृताः I उपशतम् मृताः त। अतिवृष्ट्या जलोपप्लवनेन च १५ ०० कुटुम्बानि तीरप्रदेशात् रिक्तीकृताः । विद्यालयेभ्यः विरामः उद्घुष्टः। मलयालिजनपूर्ण: सलाल अतीव सुरक्षायां भवति । तीरप्रदेशा: च पिहिता:। दोफोर्, तखा, राय्सत्, मिर्बाद, औखाद्‌, अल् साद, तुम्रैत् इत्यादि प्रदेशेषु जाग्रता निर्देश: दत्तः सर्वत्र शक्ता वृष्टि: भविष्यतीति सूचना । तदभ्यन्तरे येमनं प्रति चपलायाः दिशा परिवर्तिता चेदपि कमपि सन्दर्भं सम्मुखीकर्तुं ओमानतीरेषु अतीव सुरक्षा व्यवस्थाः कृताः। दोफोरे भारतीयान् अपि मेलयित्वा ४५००  जनान् १२ सुरक्षितस्थानेषु  परिवर्तिताः इति माध्यमकेन्द्राणि सूचयन्ति ।


कल्बुर्गिवर्याय आर् एस् एस् -स्य आदराञ्जलिः।

राञ्ची - हिन्दुत्ववादिभिः निहताय कन्नटसाहित्यकाराय एम् एम् कल्बुर्गीवर्याय राष्ट्रीय स्वयंसेवक संधस्य आदराञ्जलिः। झार्खण्डराज्ये राञ्चीजनपदे प्रवृत्ते संधस्य अखिल भारतीय कार्यकारिमण्डले एव कल्बुर्गीप्रभृतयः माकिं ८० जनाः अनुस्मृताः। राष्ट्रे विद्यमानाम् असहिष्णुतां विरुद्ध्य साहित्यकाराः चलनचित्रकाराः चरित्रकाराश्च पुरस्कारतिरस्काररूपान् प्रतिषेधकार्यक्रमान् आरब्धवन्तः आसन्।



 टेरि फेलानः ब्लास्टेस् क्रीडाशिक्षकः।

कोषिक्कोट् - केरला ब्लास्टेस् इत्यस्य पादकन्दुकक्रीडादलस्य मुख्यपरिशीलकस्थाने अयर्लान्ट् देशीयः टेरि फेलन् नामकः नियुक्तः। इदानीं सः दलस्य आधारमूलोद्भावकः ( ग्रास् रूट् ) साङ्केतिकनिर्वाहकः अस्ति।
दलस्य दयनीयं प्रदर्शनं हेतुतः इंग्लन्टदेशीयः पीटर् टेय्लरः मुख्यशिक्षकस्थानं त्यक्तवानासीत्।

 सुवचनम् 
 धर्मो मित्रं मृतस्य ।

Monday, November 2, 2015

तिहार् कारागारतः अनुवैद्यानां स्थानान्तरीकरणं
  - देहली सर्वकारस्योपरि विवादः।

नवदेहली- तिहार्  कारागारतः २६ अनुवैद्यानां स्थानान्तरीकरणे देहली सर्वकारः विवादे पतितः। कारागारे अपराधी कश्चन अपमाननं कर्तुम् उद्युक्तवानिति वैद्यायाः परिदेवनानुसारं सुरक्षां परिगणय्य अनुवैद्याः(नर्स् ) अपि स्थानान्तरिताः । किन्तु दक्षिण एष्यायां बृहत्तमे अस्मिन् कारागारे सुरक्षिताः न स्म: चेत् अन्यत्र कुत्र भवेम इति तासां समस्या। तस्मादेव स्थानान्तरनिर्देश: प्रतिनिवर्तनीयः इति ताः अभिप्रयन्ति। दीनदयाल इति आतुरालये एव ताः स्थानान्तरिताः। देहली आरोग्यविभागस्य मानवविभवविकसन विभागस्य नेता एव निर्देशं अदात्। स्थानान्तर निर्देश: प्रतिस्वीकरणीयः इति मुख्यमन्त्रिणे अरविन्द केज्रिवालाय दत्ते पत्रे अनुवैद्याः उक्तवत्यः। यस्मिन् सन्दर्भे सर्वत्र वनिता शाक्तीकरणमधिकृत्य चर्चाः जायन्ते। तस्मिन्नेव एतादृशी  प्रवृत्ति: वनितानाम् आत्मविश्वासं न्यूनीकरोति इति ताः अवदन्। स्थानान्तरं समस्यायाः परिहार: न आवश्यकसुरक्षादानमेव सर्वकारस्य दायित्वम् इत्येव ताः  पृच्छिन्त।
 
दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालये प्रधानमन्त्रिणः अभिनन्दनवर्षः।

 कोच्ची -दक्षिण चिट्टूर् सेन्ट् मेरीस् माध्यमिकविद्यालय: सर्वेभ्यः आदर्श: जात:। अवयवदानबोधवत्करण प्रवर्तने उन्नतादर्शभूतचिन्तां जनेषु उदपादयितुं सर्वे छात्राः स्वस्वाङ्गुलिमुद्रा: भारतराष्ट्रस्य भूरेखाचित्रे मुद्रणं कृत्वा इतरेषां मार्गदर्शकाः अभवन्। 
'मन् की  बात्' इति कार्यक्रमे माननीय: प्रधानमन्त्री श्री नरेन्द्र मोदीवर्यः विद्यालयप्रवर्तकानाम् अभिनन्दनमर्पितवान् ।



अद्य प्रथमः जनविधिः।

कोच्ची - केरलेषु त्रितलपञ्चायदादिनिर्वाचनस्य प्रथमपादं अद्य प्रचलति।तिरुवनन्तपुरं,कोल्लं , इटुक्की, कोषिक्कोट् , वयनाट्, कण्णूर् , कासरगोट् एतेषु जनपदेषु ३१,१६१ स्थानार्थिनः जनविधिम् इच्छन्ति।१.११कोटि सम्मतिदातारः प्रथमपादे सन्ति।प्रातः सप्तवादनादारभ्य सायं पञ्चवादनपर्यन्तं मतदानप्रक्रिया भविष्यति।
नियमसभानिर्वाचनस्य प्राक्परिशीलनमिति व्यवहार्यमाणे अस्मिन् निर्वाचने भरणपक्षेन यू डी एफ् दलेन , विपक्षदलेन एल्  डि एफ् पक्षेन च साकं भाजपा अपि स्वशक्तिं परीक्षते।

 सुवचनम् 
 अनतिक्रमणीया हि नियतिः ।

Sunday, November 1, 2015


डिजिटल् भारताय फेस्बुक् बि एस् एन् एल् च साहाय्यहस्तं प्रसारयतः।

नवदिल्ली - भारतानां ग्रामेषु डिजिटल्स्वाधीनतां संवर्धयितुं सामाजिकनेट्वर्क् श्रृङ्खला फेस्बुक् सर्वकारस्य दूरवाणीसंस्था बि एस् एन् एल् च परस्परसाहाय्यम् आविष्कुरुतः। १०० ग्रामेषु 'वै फै होट् ' स्थानानां सज्जीकरणमेव लक्ष्यम्। अस्यै पद्धत्यै फेस् बुकः प्रतिसंवत्सरं पञ्च कोटि रूप्यकाणि दास्यति। बि एस् एन् एलस्य " बान्ड् विड्त् " क्रयणम् अनेन साध्यमस्ति। ज्ञानसाङ्केतिकाधारविकसनसेवनदातारः क्वाड् सेन् , ट्रैमाक्स् इत्यादय अपि अस्मिन् संरंभे सहकरणं प्रदास्यन्ति।



शाश्वतीकानन्दस्वामिनः मरणे  पुनरन्वेषणम्।
अनन्तपुरी - भूतपूर्वस्य शिवगिरिमठाधिपतेः शाश्वतीकानन्दस्वामिनः दुरूहमरणे केरलगृहमन्त्रालयेन पुनरन्वेषणं विज्ञापितम्। नवीनप्रमाणानां सांगत्यं सर्वकारेण अवगतमित्यत एव पुनरन्वेषणप्रख्यापनमिति केरल राज्यस्य गृहमन्त्रिणा रमेश् चेन्नित्तलावर्येण सूचितम्। क्रैं ब्राञ्च् एस् पी के मधुः अन्वेषणस्य उत्तरदायित्वम् वहति।