OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 17, 2015

शरणघोषैः मोक्षपथः जागरित: 
दक्षिणभारते व्रतशुद्धेः दिनानि।

शबरिगिरिः -व्रतशुद्धेः मण्डलकालः अद्य आरभते। दक्षिणभारतस्य
महातीर्थाटनमिति विख्यातस्य शबरिगिरितीर्थाटनस्य अद्य (वृश्चिकः१) शुभारम्भः। अद्य आरभ्य धनुमासस्य ११ दिनाङ्कपर्यन्तं ४१ दिनानि दक्षिणभारतेषु हिन्दुधर्मीयानुयायिनां व्रतशुद्धेः दिनानि भवन्ति। दक्षिणकेरऴस्य पत्तनंतिट्टा जिल्लामधिवसन्तं शबरिगिरीशं धर्मशास्तारं सन्दर्शयितुं लक्षशः भक्ताः केरळं प्रवहन्ति। अद्वैतवेदान्तप्रतिष्ठापनस्य आधारशिलाभूतत्वेन वर्तमानेषु महावाक्येषु अन्यतमस्य तत्त्वमसि इति महावाक्यस्य प्रत्यक्षीभूतः अनुभवःअय्यप्पदर्शनेन सिद्ध्यतीति भक्ताः मन्यन्ते।


केन्द्रसाहित्यअक्कादमीपुरस्कारः
जनार्दन हेगडेवर्याय


बङ्गलूरु -केन्द्र साहित्यकेन्द्रसाहित्यअक्कादमी द्वारा बालकथासप्ततिः इति पुस्तकनिमित्तं  २०१५ तम वर्षस्य बालसाहित्यपुरस्कारः जनार्दन हेगडेवर्याय प्रदत्तः । कर्णाटकस्वदेशी एषः संस्कृतभारत्या : आरम्भकर्तृषु अन्यतमः । स्वीयया सरलया सरसया संशुद्धया च शैल्या जनान् परितोषयितुं समर्थ: हेगडे वर्य: विश्वे अत्यधिकप्रचारयुक्तायाः संस्कृतमासिकायाः सम्भाषणसन्देशस्य मुख्यसम्पादक: भवति  । संस्कृत पठन-पाठन-प्रचरणेषु दत्तश्रद्ध: अयं पञ्चाशदधिकानां शैक्षणिक - मनोरञ्जक पुस्तकानां कर्ता च भवति । बालकथासप्ततिः  संस्कृतभारती बेङ्गलूरु द्वारा प्रकाशितम् । सप्ततीनां मनोरञ्जकबालकथानां गुच्छोऽयं संस्कृतभारत्याः प्रादेशिककेन्द्रेषु तथा प्रमुखसंस्कृतपुस्तकशालासु च समुपलभ्यन्ते । जनार्दन हेगडेवर्याय संस्कृतलोकस्य अभिवन्दनानि ।




ऐ एस् ऐ संबन्धः - कोल्कत्तायाम् एकः अपि गृहीतः।


कोल्कत्ता - पाकिस्तान् राष्ट्रस्य गुप्तचरसंघटना ऐ एस् ऐ इति संस्थया सह सम्बन्धमारोप्य एकः अपि आरक्षकैः बद्धः।दिनद्वयात् पूर्वं एतादृशविषये बद्धस्य अक्तर् खान् इत्यस्य सोदरः सफर् नामकः Special Task Force संघेन गृहीतः।बह्व्यः गुप्तरेखाः अलीकानि भारतीयरुप्यकाणि च एतयोः सका शात्  संगृहीतानि इति आरक्षकैः उक्तम्।