OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 24, 2015

असमत्वे प्रतिषेधः - जयन्तमहापत्रेण पद्मश्रीः प्रत्यर्पिता।

भुवनेश्वरम् - राष्ट्रे वर्धमानायाम् असहिष्णुतायां प्रवर्तमाने असमत्वे च प्रतिषेध्य प्रमुखः ओडीसीयकविः जयन्तमहापात्रवर्यः स्वकीयं पद्मश्रीपुरस्कारं प्रत्यर्पयत्। एतद्विषयं राष्ट्रपतये प्रणब् मुखर्जीवर्याय न्यवेदयत् । एतत् प्रतिसमर्पणं न राष्ट्रं प्रति अवमतिः किन्तु असहिष्णुतां विरुद्ध्य स्वस्य आशयानुसारिणी प्रतिषेधप्रतिक्रिया इति तेनोक्तम्।
८८ वयस्कःमहापात्रवर्यः ओडियाभाषायाम् आङ्गलेयभाषायां च २७ पुस्तकानि रचितवान्। साहित्यमण्डले समग्रयोगदानं पुरस्कृत्य १९९९ तमे वर्षे पद्मश्रीपुरस्कारेण एषः महोदयः सम्मानितः।



जम्मु मध्ये उदग्रयानदुर्घटना - ७ मरणानि।
नवदिल्ली - जम्मु राज्ये कत्रप्रदेशे उदग्रयानस्य भञ्जने केरलीयवैमानिका नवदम्पतीः च सहिताः ७ यात्रिकाः हताः। कत्रातः वैष्णोदेवीमन्दिरं प्रति तीर्थाटकैः सह गन्तुमुद्युक्तम् उदग्रयानम् उड्डयितक्षण एव अभञ्जत। याने पक्षिप्रहरमेव दुर्घटनायाः कारणमिति मन्यते।