OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 15, 2016

कृष्णधनम् - लक्षत्रयाणाम् उपरि विनिमयः निवारणीयः इति SIT
नवदिल्ली > कृष्णधनस्य निर्व्यापनमुद्दिश्य नूतननिर्देशान् समर्प्य अन्वेषण सङ्घः। विनिमयाय लक्षत्रयम्, हस्ते स्थापनाय पञ्चदश लक्षम् च परिधौ भवतः। इदानीं जनाः धनं गृहेषु पालयन्ति इति भूतपूर्व - न्यायाधीशेन एन् .बि .षा महोदयेन उक्ततम्। एतदधिकृत्या सर्वोच्च न्यायालये  पठनपत्रम् समर्पितम् । अधिकं धनं स्वपार्श्वे पालयितुम् इच्छुः आयकर विभागतः अनुमतिः स्वीकरणीयः इत्यपि व्यवस्था स्वीकरणीया इत्यपि निर्देशः पठनपत्रे अस्ति।

दिल्ल्यां मोहल्ला स्वास्थ्यकेन्द्राणि लोके सर्वत्र चर्च्यन्ते। 
नवदिल्ली > अरविन्द् केज्रिवाल् सर्वकारेण दिल्याम् आरब्धानि मोहल्ला इति स्वास्थ्यसेवनकेन्द्राणि राजधानिनिवासिभ्यः बहुभ्यः  निष्किञ्चनविभागेभ्यः आश्वासप्रदानि भवन्ति। शताधिकानि केन्द्राणि दिल्ल्यां सर्वत्र प्रवर्तन्ते। निश्शुल्कप्राथमिकपरिशोधना तथा आधारचिकित्सा रसक्रियाशोधना  न्यूनतममूल्ये औषधानि च अत्र लभन्ते। एतादृशानि स्वास्थ्यकेन्द्राणि न केवलं भारते किन्तु लोके सर्वत्र प्रसिद्धिमाप्नुवन्ति। वाषिङ्टण् पोस्ट् , चिक्कागो ट्रिब्यूण् , एन् डि टि वि , इ पि डब्ल्यू इत्यादयः माध्यमाः एतां पद्धतिम् आशंसन्ते स्म।

केरळे महानगरेषु डीसल् त्रिचक्रिकाणां निरोधः। 
कोच्ची - केरळे तिरुवनन्तपुरं कोच्ची कोष़िक्कोट् महानगरेषु इतःपरं नवीनाभ्यः  डीसल् तैलत्रिचक्रिकाभ्यः अनुमतिः न दातव्येति राज्यस्य यन्त्रवाहनविभागः सर्वकारं प्रति निरदिशत्। वर्तमानाः डीसल् त्रिचक्रिकाः क्रमानुगतेन एल् पि जि , सि एन् जि  इन्धनं प्रति परिवर्तनं करणीयाः इति च निर्देशः कृतः।
  डीसल् यानानि अधिकतया धूमेन वायु मलिनीकरणकारणानि इत्यतः एवायं परिष्कृतिः इति गतागतायोगकेन टोमिन् जे तच्चङ्करिणा उक्तम्।

आभारतं गङ्गाजलं पत्रालयद्वारा। 
कोच्ची > भारतस्य दक्षिणान्तेषु केरळेषु अपि पवित्रं गङ्गाजलं पत्रालयद्वारा अद्य आरभ्य गृहं प्राप्नोति। राष्ट्रव्यापकेण चितैः ८०० पत्रालयैः गंगाजलवितरणाय केन्द्रसर्वकारस्य पद्धतिः भवत्येषा।  ऋषिकेशः गंगोत्री स्थानाभ्यां संभृतं गंगाजलमेव वितरति। २०० मि.लि. , ५००मि.लि. परिमाणेषु पलास्तिक कूप्येषु एव वितरणयोग्यं जलं प्राप्तमस्ति।