OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 4, 2016


विदेशोद्योगार्थिनः कृते नैपुण्यविकसनपरिशीलनम्।
  नवदहली > विदेशेषु उद्योगमन्विष्य गच्छतां भारतीयानां कृते नैपुण्यविकसनपरिशीलनं दातुं विदेशकार्यमन्त्रालयस्य पर्यालोचना। एतदर्थं राष्ट्रे ५० केन्द्राणि आरब्धुं मन्त्रालयेन आलोच्यते। विदेशराष्ट्रेषु यत्र कुत्रापि वा भवतु तत्रत्या: परीक्षाः परिशीलनानि च पूर्तीकरणीयानि। तदर्थं नैपुणी विकसनमेव मुख्योद्देश्यम्। अन्तःराष्ट्रियवैदग्ध्ययुक्तं  परिशीलनमेव एतेषु केन्द्रेषु उद्दिश्यते।

 डो. जि गंगाधरन् नायर् संस्कृतविश्वविद्यालयस्य सिन्डिकेट् अङ्गः।
कालटी> प्रमुखः संस्कृतपण्डितः आचार्यश्रेष्ठः डो. जि गङ्गाधरन् नायर् वर्यः कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सिन्डिकेट् सदस्यरूपेण केरलराज्यपालेन नियुक्तः। इदानीं विश्वविद्यालये व्याकरणविभागस्य डीन् अस्ति।
   संस्कृतभारत्याः केरलघटकस्य ( विश्वसंस्कृतप्रतिष्ठानम्) रक्षाधिकारी अयं वेलियनाट् चिन्मय अन्तर्देशीय गवेषणसंस्थायाः अध्यक्षः तथा कोच्ची सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् संस्थायां ओणररि प्रोफसर् च वर्तते।

एकीकृतपौरधर्मसंहिता - सम्मिश्रप्रतिकरणानि।
  कोषिकोट् > राष्ट्रे एकीकृतपौरधर्मसंहितायाः सन्निवेशनं प्रति सामूहिकमण्डलेभ्यः सम्मिश्रप्रतिकरणानि। एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति केचन सामुदायिकनेतारः अभिप्रेतवन्तः। किन्तु एतस्याः सन्निवेशनं राष्ट्रस्य धर्मनिरपेक्षतां हनिष्यतीति भारतीयमुस्लिंदलनेतारः अभिप्रयन्ति।भा ज पा दलेन नेतृत्वं कुर्वतः केन्द्रसर्वकारस्य नूतनपरिष्कारः दूरव्यापकप्रत्याघातः स्रक्ष्यतीति तेषामभिप्रायः। विवाहः, जीवनांशः,पैतृकसम्पत्,मरणानन्तरकार्यक्रमाः इत्यादिषु व्यक्तिनियमः दैवीकः एव, तत्र चर्चायाः आवश्यकता एव नास्ति- भारतीयमुस्लिंदलस्य देशीयकार्यदर्शिना इ टि मुहम्मदबषी रेण उक्तम्।किन्तु एकीकृतपौरधर्मसंहितायाः सन्निवेशनम् अवश्यं करणीयमिति सीरो मलबार् सभया उक्तम्।केन्द्रसर्वकारस्य निर्णयोऽयं स्वागतार्हः,तथापि आचारानुष्ठानानां वैविध्यानि संरक्षणीयानि इति मेजर् आर्च बिषप् कर्दिनाल् मार् जोर्ज् आलञ्चेरि अवदत्।

शिरस्त्राणविहीनेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः-इन्धनदातारः
  तिरुवनन्तपुरम् > केरलराज्ये आगस्त् मासादारभ्य शिरस्त्राणविहीनेभ्यः द्विचक्रिकायात्रिकेभ्यः इन्धनं न दीयते इति निर्णयः अप्रायोगिकः इति इन्धनदातारः अभिप्रेतवन्तः।विषयेऽस्मिन् अधिकृतैः इन्धनव्यापारसंघैः सह चर्चा कापि न कृता। नियमस्यास्य प्रायोगिकांशाः इन्धनव्यापारसंघान् प्रतिकूलतया एव बाधन्ते। अतः निर्णयममुं अङ्‌गीकर्तुं नैव शक्यते इति तै: उक्तम्। किन्तु अधुना केषुचित् जनपदेषु परीक्षणाधारेण नियमोऽयम् आरब्धः वर्तते।

अरुणाचलप्रदेशे शकलराश्यपघातः- दश जनाः हताः। इट्‌टानगरम् > अरुणाचलप्रदेशे वेस्ट् कमेंग्मण्डले गतदिने संजाते शकलराश्यपघाते दश जनाः हताः। अतिवृष्ट्या शुक्रवासरे रात्रावेव अपघातः संजातः। अपघातेन बहूनि गृहाणि ,अनेके विद्यालयाश्च भग्नाः। अपघातस्थलेषु एन् डि आर् एफ्‌ संघाः मण्डलाधिकारिभिः सह रक्षाप्रवर्तनानि कुर्वन्तः सन्ति।

विम्बिल्डण् मध्ये पुनरपि अप्रतीक्षितविजयः- जोकोविच् बहिर्गतः।
  लण्डण् > अनुस्यूतं किरीटधारणं लक्ष्यीकृत्य आगतं विश्वप्रथमस्थानवाहकं नोवाक् जोकोविचं तृतीयपादे पराजित्वा अमेरिकायाः सांक्वरेः प्रयाणः। अनेन कलण्डर् ग्रान्ट्स्लाम् इति प्राप्तिः जोकोविचस्य अप्राप्या जाता। ७-६,६-१,३-६,७-६ इत्यनुपाते एव सांक्वरेः विजयः।

 धाक्का आतङ्गवादाक्रमणम् - मृतेषु भारतीयविद्यार्थिनी अपि।
     धाक्का > बड्ग्लादेशस्य राजधान्यां धाक्कायाम् एकस्मिन् भोजनालये संवृत्ते आक्रमणे विंशदधिकाः जनाः हताः। तेषु भारतीया विद्यार्थिन्यपि अन्तर्भूता वर्तते। आतङ्गवादिभिः बन्धितेषु तारिषी जेयिन् (१९) नामिका भारतीयविद्यार्थिनी एव हता। विदेशकार्यसचिवया सुषमा  स्वाराजमहोदयया एतत् दृढीकृतम्। मृतेषु सर्वेऽपि जपान्‌-इट्टलीराज्येभ्यः आगताः जनाः आसन् इति सूचनाः।ऐ एस् आतङ्गवादिनः एव आक्रमणं कृतवन्तः। तथापि विशुद्धखुरान् ग्रन्थस्य पारायणं कृतवन्तं प्रत्येकमपि जनम् आतङ्गवादिनः वधात् मोचितवन्तः इत्यपि सूचनाः सन्ति। विशुद्धरमदानसम्बन्धानाम् आचाराणाम् अनुष्ठानसमये एव सम्पन्नानां मण्डले गुल्षन् मध्ये होली आर्टिसान् नामके भोजनालये ऐ एस् आक्रमणं सञ्जातम्।

केरलेषु इतरराज्यस्थानां दिवसवेतनकर्मकराणां संख्या क्रमातीता - गत्यन्तरं विना कर्मकरमन्त्रालयः।
     तिरुवनन्तपुरम् > केरलेषु इतरराज्यस्थानां कर्मकराणां संख्या प्रतिदिनं वर्धयन्ती एव।उद्योगाय कति जनाः केरलम् आगच्छन्ति इति मन्त्रालयपक्षतः स्पष्टं विशदीकरणमपि नास्ति। समीपकाले पेरुम्पावूर् देशे जाते जिषा नामिकायाः युवत्याः वधे आसामदेशीयः युवकः आसीत् अपराधिः।ततः इतरराज्यस्थानां जनानां विषये गणनायै सर्वकारेण श्रमः कृतःवर्तते।गणनेयं मन्त्रालयाय श्रमकरः एव भवति। अनौद्योगिकगणनामनुसृत्य केरलेषु २५ लक्षाधिकाः इतरराज्यस्थकर्मकराः सन्तीति उच्यते। ते च उद्योगेन प्रतिवर्षं १७,५०० कोटि रुप्यकाणि सम्पादयन्ति इति सर्वकारः विशदयति।

 फेय्स् बुक् मध्ये वाचनं सुकरम्
 न्यूयोर्क् >  प्रचुरतया प्रचाल्यमाने सामूहिकमाध्यमे फेय्स्  बुक् मध्ये वाचनं सुकरं कर्तुं नूतनसंविधानेन सह फेय्स् बुक् अधिकारिणः।फेय्स् बुक् ब्लोग् मध्ये दत्तां सूचनामनुसृत्य नूतनसंविधानेन एकस्मिन्नेव समये ४४ भाषाः प्रति लेखनानि परिवर्तयितुं शक्यन्ते। एतदर्थं ' मल्टी लिङ्ग्वल् ' संविधानमेव उपयुज्यते। तथा च  अन्यभाषाज्ञानं विनापि सामूहिकमाध्यमेऽस्मिन् वाचनलेखनादिकं सुकरं कर्तुं शक्यते।

 पठन्ति प्रौढाः सादरं संस्कृतं मुदा।
 कोच्ची > एरणाकुलं जनपदे मुवाट्टुपुष़ायां प्रचलित विश्व संस्कृतप्रतिष्ठानस्य दशदिनात्मक संभाषण शिबिरस्य उद्‌घाटनकर्मं श्री नारायणशर्म महोदयेन अकरोत् । प्रथमकक्ष्या एरणाकुलं जनपदस्य सहकार्यदर्शी श्री राजेष् कुमार् महोदयेन अचालयत् | जूलै १३ दिनाङ्के कक्ष्यायाः समापनं भविष्यति।
 एरणाकुलं जनपदे मूवाट्टुपुष़ायां प्रचलित दशदिनात्मक-संस्कृतसम्भाषण-शिबिरम्