OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, July 29, 2016

ट्रम्प - हिलरी युद्धरङ्गः सज्जीकृतः। 
फिलाडेल्फिया >अमेरिक्कायाः राष्ट्रपतिनिर्वाचने डेमोक्राटिक् दलस्य प्रत्याशिपदे भूतपूर्वविदेशकार्यसचिवा हिलरी क्लिन्टणः तथा रिप्पब्लिक् दलाय डोणाल्ड् ट्रम्पः च स्पर्धायै सन्नद्धौ। गतसप्ताहे  ट्रम्पस्य गतदिने हिलर्याः च प्रत्याशित्वं प्रख्यापितमासीत्।
     अमेरिक्काराष्ट्रस्य इतःपर्यन्तचरिते प्रप्रथमतया एव काचन वनिता प्रधानदलेन राष्ट्राध्यक्षपदाय स्पर्धते।  नवंबरमासस्य अष्टमे दिनाङ्के एव निर्वाचनं भविष्यति।

महाश्वेता देवी परं महादीप्तिः। 

  कोल्कत्ता > प्रमुखा बङ्गाली लेखिका ज्ञानपीठपुरस्कारजेत्री च महाश्वेता देवी दिवङ्गता। सामाजिकसेवा मण्डले चिरपरिचिता सा मासद्वयात्मककालं यावत् चिकित्सायाम् आसीत्। सा ९१ वयस्का आसीत्I कोल्ककत्तायां वय्यक्तिके आतुरालये आसीत् मृत्यु:। समूहस्य दुर्बलविभागानां शब्दः आसीत् इयं साहित्यप्रेमी। पद्मविभूषणः, माग्ससे पुरस्कारः , केन्द्रसाहित्य अकादमी पुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः आदृता भवति महाश्वेता देवी। प्रमुखकविः लेखकः च मनीष् घट्टक् पिता लेखिका सामूहिकप्रवर्तका च धरित्री देवी माता च आस्ताम्। प्रसिद्धः चलनचित्रप्रवर्तकः ऋत्विक् घट्टक् पितृसहोदरः च भवति। तस्याः देहवियोगे  राष्ट्रपतिः, प्रधानमन्त्री, बङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी इत्यादयः बहवः अनुशोचनं न्यवेदयन्।


अपकीर्तिनियमः राष्ट्रियायुधः न - उच्चतरन्यायालयः।
  नवदहली > सर्वकारपक्षतः जायमानं दुर्व्यवहारं प्रति विमर्शनाय अथवा अभिप्रायप्रकटनाय पौरस्य अधिकारः अस्तीति उच्चतरन्यायालयः। एवं विमर्श्यतामुपरि अपकीर्तिनियममाश्रित्य न्यायालयव्यवहारः न स्वीकरणीयः इति उच्चतरन्यायालयेन उद्‌बोधितम्। एवं स्वीक्रियमाणः व्यवहारः समाजे विपरीतफलं जनयति। सर्वकारं विरुद्ध्य वा विमर्श्य वा अभिमतप्रकटनं कूर्वतां सामाजिकानां,उद्योगस्थानां, सामान्यजनानां च उपरि न्यायालयव्यवहारस्वीकारः सर्वकारस्य प्रवर्तनादिकं प्रतिकूलतया बाधते - उच्चतरन्यायालयेन स्मारितम्। तमिल्नाटु सर्वकारं प्रत्येव उच्चतरन्यायालयस्य विमर्शः।


यु एन् रक्षासमित्यां स्थिराङ्गत्वम् - भारतं प्रति आघातः।
   न्यूयोर्क > यु एन् रक्षासमित्‍यां स्थिराङ्गत्वसम्पादनाय प्रयत्नं कुर्वतां राष्ट्राणां निराशा। गतदिने अवसिते योगे रक्षासमित्‍याः पुनःसंघटनम् अधिकृत्य चर्चा नावश्यकीति यु एन् सामूहिकसभया निश्चितम्। एतत्संबन्धचर्चाः अग्रिमवर्षे भवन्तु इत्येव योगस्य निर्णयः। निर्णयोऽयं दौर्भाग्यदायकः इति भारतेन तथा ब्रसील्,जपान्,जर्मनी इत्यादिभिः राष्ट्रैः च अभिप्रेतम्। यु एन् मध्ये विद्यमानेषु १९३ राष्ट्रेषु १५ राष्ट्राणि रक्षासमित्‍याम् अन्तर्भवन्ति।एवं चेदपि स्थिराङ्गत्वसम्पादनाय प्रयत्नः अनुवर्तते इति भारतेन सूचितम्।