OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 19, 2016

भारतस्य महाम्मादीयानां चिन्तया पाकिस्थानः व्याकुलो मास्तु - राजनाथसिंहः
नव दिली >भारतस्य माहम्मदीयान् प्रति चिन्तया पाकिस्थानस्य व्याकुलतायाः आवश्यकता नास्ति। तथा क्रैस्तवान् माहम्मदीयान् च पालयितुं भारतं सज्जम् इति च राजनाथसिंहः अवदत्। काश्मीरस्य संघर्षाणां कारकः पाकिस्थानः एव। अस्माकं राष्ट्रम् अस्थिरं कर्तुम् उद्युक्तान् प्रति विना सन्धिं युद्धं कुर्मः, तथापि सामान्य जनान् प्रति सौम्यभावेन आनुकूल्यं दद्मः। आतङ्गवादिनान् प्रतिरोद्धुं राजनैतिकदलानि एकभावनया एकीभूय्य स्थातव्याः इति च राजनाथ सिंहेन उक्तम्। काश्मीरस्य संघर्षान् प्रति लोकसभायां कृतयां चर्चायां उत्तरं दत्तवानासीत् सः।

आन्डमान्‌ समुद्रस्य अधः अपूर्वः धातुनिक्षेपः
                         कवरत्ती > आन्डमान्‌ समुद्रस्य अधः विद्यमानम् अपूर्वं धातुनिक्षेपं स्थिरीकृत्य भारतीयः शास्त्रसङ्घः। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः त्रयोदशाङ्गसङ्घः एव गवेषणम् अकरोत्। सङ्‌घस्थाः सप्त जनाः केरलीयाः भवन्ति। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः समुद्ररत्नाकर् इति नामिकया पर्यवेक्षणमहानौकया कृतैः परीक्षणैरेव अपूर्वधातुनिषेपमधिकृत्य सूचनाः लब्धाः वर्तन्ते। रिमोट्ली ओप्परेषणल् वेहिकिल् उपयुज्य १००० मीटर् अधः कृतेन परीक्षणेन लान्तनं, सिरियं, नियोडीमियं इत्यादीनां बहूनां लोहानां स्रोतसः अयण् माङ्गनीस् इत्यस्य अनेकेषां फलकानां सान्निध्यम् अनुभूतम्। अतीव व्यावसायिकप्राधान्यमर्हतः अयण् माङ्गनीस् इत्यस्य सान्निध्यं साङ्केतिकमण्डले महते परिवर्तनाय निदानं स्यात्।

बि सि सि ऐ समग्रपरिवर्तनाय लोधासमित्याः प्रवादः सर्वोच्चन्यायालयेन अङ्गीकृतः।
नवदिल्ली - भारतीय क्रिकेट् नियन्त्रणपरिषदि समग्रं परिवर्तनम् अपेक्षमाणः न्याय. आर् एम् लोधा समित्याः प्रवादः सर्वोच्चन्यायालयेन अंगीकृतः। सप्ततिवयस्कातीताः, मन्त्रिणः, सर्वकारीयोद्योगस्थाश्च धुरन्धरत्वं न वहेयुः इत्यादीनि प्रमुखानि प्रबोधनानि।

केरलस्य मलप्पुरं जिल्लायां 'कोलरा' रोगः।
कुट्टिप्पुरम् >केरलस्य आतुरालयेषु  कोलरा रोगस्य निरीक्षणाय निर्देशः। अतिसारेण आतुरालयं ये प्रविशन्ति तेषां कोलरा रोगनिरीक्षणाय  प्रत्येकनिर्देशः कृतः स्वास्थ्यविभागेन। मलप्पुरं मण्डले 5 जनानां कोलराबाधा स्थिरीकृता। आतुरालयानां कृते कर्शननिर्देशः दत्तः इति  आरोग्यविभागनिदेशकः डा आर्  रमेशवर्येण सूचितम्।