OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 31, 2016

अतिवृष्टिः - जनजीवनं दुष्करम्।
mumbai rains hits traffic, mumbai rains news today, mumbai rains news latest, mumbai rains today,, mumbai local train problem today, rains in mumbai today, heavy rains in mumbai today, rain news today in mumbai, mumbai rain latest news  बङ्गलुरु > अनुस्यूततया वर्षमानया वृष्ट्या बङ्गलुरुनगरे जीवनं दुष्करं जातम्। गुरुवासरे शुक्रवासरे च जातया अतिवृष्ट्या नगरस्य विविधेषु भागेषु जलोपप्लवम् अपि सञ्जातम् । मालिन्यजलनिर्गमनसंविधानं बहुत्र भग्नं जातम्। अतिशक्तेन वातेन गतागतमार्गेषु वृक्षाः पतिता:। जलोपप्लवेन बहवः जनाः गृहेषु कार्यालयेषु च वर्तन्तः सन्ति। बहुत्र गृहोपकरणानि , भक्ष्यवस्तूनि, वाहनानि च उपयोगशून्यानि अभवन्। बहुत्र यात्रायै मार्गेषु यन्त्रनौकाः च उपयुज्यन्ते। बङ्गलुरु नगरे इव राष्ट्रे हैदराबाद्‌, मुंबई,नवदहली,हरियानायां गुड्गाव् इत्यादिषु महानगरेषु अतिवृष्ट्या जनाः कष्टतां अनुभवन्ति। आसाम् मध्ये प्रलयेन एतावता १८ जनाः मृताः च।

 व्योमसेनाविमानस्य अन्वेषणाय अमेरिकायाः साहाय्याय भारतम्।
   नवदहली > गतसप्ताहे चेन्नैतः यात्रामारभ्य अप्रत्यक्षस्य व्योमसेनाविमानस्य अन्वेषणाय भारतेन अमेरिकायाः साहाय्यम् अभ्यर्थितम्। प्रतिरोधसचिवः मनोहरपरीकर: एतत् न्यवेदयत् । अप्रत्यक्षात् पूर्वं विमानात् कापि सूचना अमेरिकायाः उपग्रहेभ्यः लब्धा वा इति परिशोधयिष्यतीति प्रतिरोधसचिवेन उक्तम्। विमानस्य अप्रत्यक्षे शत्रवेभ्यः जायमानस्य दुष्कृतस्य साध्यताः तेन तिरस्कृताः।   'सिन्धुध्वज्' नामिका अन्तर्वाहिनी , नाविक सेनाया: १० महानौका: च अन्वेषणं कुर्वन्तः सन्ति।

उभयपक्षचर्चा नास्ति।
  नवदहली > इस्लामाबाद्‌ मध्ये आगस्त् ४ दिनाङ्के जायमाने सार्क राष्ट्राणां योगे पाकिस्तान् नेतृभिः सह चर्चा कापि नास्तीति विदेशकार्यमन्त्रालयः। सार्कयोगे भारतं प्रतिनिधीकृत्य आभ्यन्तरसचिवः राजनाथसिंहः भागभागित्वं वहति। तस्यां वेलायां पाक् प्रधानमन्त्रिणा नवास् षेरीफेण , आभ्यन्तरमन्त्रिणा चौधरी निसार् अलिखानेन च सह राजनाथसिंहः चर्चां करिष्यतीति वार्ता: प्रचरिताः सन्ति। अत एव नूतनविशदीकरणं विदेशकार्यमन्त्रालयपक्षतः कृतं वर्तते। विदेशकार्यवक्ता विकासस्वरूपः एव विदेशकार्यमन्त्रालयाय विशदीकरणम् अयच्छत्। किन्तु पाकिस्तानपक्षतः भीकरप्रवर्तनानि उपेक्षणीयानि इति सार्कयोगे आभ्यन्तरसचिवेन अभ्यर्थ्यते इत्यपि विदेशकार्यमन्त्रालयेन सूचितम्।