OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 25, 2017

सप्तग्रहैः सह नूतनं नक्षत्रम् । 
वाषिङ्टण् >भूमिं विहाय जीवस्पन्दः विद्यमानः कोऽपि ग्रहः द्रक्ष्यति इति अन्वेषणात्मकं नूतनं अनुसन्धानम्। नासया कृतान्वेषणे भूपरिमिताकारयुतं सप्तग्रहान् परितः भ्रमन्तः नक्षत्रयूथः दृष्टः। एषु ग्रहेषु त्रिषु अपि जीवानुकूलवातावरणमिति अनुमीयते। नासायाः स्पिट्टर् नाम दूरदर्शिन्याः साह्येन एषा सविशेषता दृष्टा। भूमीतः चत्वारिंशत् प्रकाशवर्षदूरे सौरयूथस्य समानरीत्या परिभ्रमन्ताः ग्रहाः दृष्टाः। विद्यमानानं ग्रहाणां भूसमानाः आकाराः सन्ति।ट्रापिस्ट् वण् इति नामकम् नक्षत्रं परित एव ग्रहाणां सञ्चारः। सूर्यादपि लघु भवति एतत् नक्षत्रम् । एषु ग्रहेषु त्रिषु ग्रहेषु जीवानुकूलावस्थाः सन्ति। इदानीं जीवः नास्ति चेदपि भाविनिकाले भवितुमर्हति इति वैज्ञानिकैः उच्यते। 

कौमारकायिकोत्सवः - विजयपीठे केरलम्।
वडोदरा> देशीयजूनियर् अत्लटिक् मेलायां केरलराज्यस्य किरीटप्राप्तिः। द्वादश सुवर्णपतकानि , पञ्च रजतानि ,सप्त कांस्यानि च प्रथमस्थानं प्राप्तस्य केरलस्य शोभां वर्धयति। द्वितीयस्थानं प्राप्तेन हरियाना राज्येन सुवर्ण-रजत-कांस्यानि यथाक्रमं चत्वारि-पञ्च-पञ्च इति रीत्या प्राप्तानि। तृतीयस्थानं दिल्ली राज्येन करस्थीकृतम्।

अभिनेत्र्याक्रमणविषयः - निलीतवन्तौ अपराधिनावपि गृहीतौ।
कोच्ची> प्रसिद्धा दक्षिणभारतचलच्चित्राभिनेत्री कोच्चीनगरे आक्रमणविधेया अभवत् इत्यस्मिन् विषये सर्वे अपराधिनः आरक्षकैः निगृहीताः। साप्ताहिकं यावत् गूढसङ्केते उषितवन्तौ पल्सर् सुनी इत्याख्यः सुनिल्कुमारः , विजीष् इत्याख्यश्च ह्यः एरणाकुलं न्यायालयपरिसरे गृहीतौ।

 संस्कृतनाट्यसमारोहः समायोक्ष्यते
नवदिल्ली> नवदिल्लीस्थेन राष्ट्रिय-संस्कृतसंस्थानेन चतुर्दश-संस्कृतनाट्यसमारोहः दिल्ल्याम् छावनीक्षेत्रे द्वितीयसंख्याके केन्द्रियविद्यालयीये डॉ. सर्वपल्लीरधाकृष्णन् सभागारे समायोसमायोक्ष्यते| समारोहायोजनस्यानुष्ठानात् प्राग् दिल्ल्यां शुक्रवासरे प्रेसक्लब मध्ये  वार्ताहर-सम्मेलनमेकं प्रवर्तितं। तत्र च संस्थानस्य कुलपतिना प्रो. परमेश्वरनारायणशास्त्रिणा, नाट्य-महोत्सवसंयोजकेन प्रो. रमाकान्त-पाण्डेयवर्येण, पत्रकारा: समारोहस्यायोजनविषये सम्बोधिता:।
  संस्थानस्य कुलपतिना विज्ञापितं यत् ऐषमो नाट्य- आयोजनं विशिष्टं वर्तते। यतोहि ऐषमो वर्षे अद्यावधिम् यावत् अभिनीत-नाटकानां संख्या सार्द्धैकशतमिता भविष्यति। अस्मिन् वर्षे समसामयिक-संस्कृतनाट्यरचनानाम् मञ्चनं भविष्यति। ध्यातव्यं यत् समारोहस्यास्य आयोजनं अस्य मासस्य सप्तविंश दिनाङ्गात् मार्चमासस्य प्रथमदिवसम् यावत् भविष्यति।