उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
स्त्री तु सिमोणा।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgUBWX848UFiQpZtR07uIf6YrK2YKeieCrLU82QHD6Di43lB6lqhxjYwP4K_J_OY2zF3LP0nskjMA_4yWep98aIAiUM_VzERqJ8UsJ-xziWdcJXxHbl8IEu6xuztF6zuNiC-rOy3oRBORxC/s200/bolt.jpeg)
गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।
स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।
ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।
त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।
पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः मृताः।
कराच्ची
> पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन
विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य
लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य
उत्तरदायित्वम् इस्लामिक्स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन्
सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।८० जनाः मृताः।