OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 4, 2017

महाकविः "जि" विश्वमानवकल्पः - एस् के वसन्तः। 
कोच्ची - भारतस्य प्रथमज्ञानपीठपुरस्कारजेता केरलीयः महाकविः जि. शङ्करक्कुरुप्प् वर्यः विश्वमानवकल्पः भारतीयः आसीदिति प्रशस्तः साहित्यनिरूपकः एस् के वसन्तः अवदत्। महाकवेः एकोनचत्वारिंशत्तमे चरमसंवत्सरदिने तस्य जन्मग्रामे नायत्तोट् प्रदेशे आयोजिते सम्मेलने अनुस्मरणप्रभाषणं कुर्वन्नासीत् सः।
     भारतस्य विश्वपौरः इति प्रसिद्धस्य रवीन्द्रनाथ ठक्कुरस्य विश्वदर्शनपर्यन्तं जि वर्यस्यापि विश्वदर्शनम् औन्नत्यमावहतीति वसन्तमहोदयेन समर्थितम्। किन्तु नवीनपरम्परया महाकविः तस्य काव्यानि  तथा काव्यदर्शनं च सम्यगवगन्तव्यानीति तेनोक्तम्।
    प्रसिद्धकविना चलनचित्रगानरचयित्रा कैतप्रं दामोदरन् नम्पूतिरि वर्येण अनुस्मरणसम्मेलनस्य उद्घाटनं कृतम्।केरलविधानसभायाः अङ्कमाली सदस्यः रोजी एम्  जोण् भूतपूर्वसदस्यः जोस् तेट्टयिल् नगरसभाध्यक्षा एम् ए ग्रेसी  इत्यादयः आशंसाः समर्पितवन्तः।
    अनुस्मरणदिनमनुबद्ध्य छात्रेभ्यः आयोजितानां रचनास्पर्धानां पुरस्कारदानमपि सम्पन्नम्।  तदनन्तरं महाकवेः "चन्दनक्कट्टिल्" नामकस्य काव्यस्य मोहिनियाट्टनृत्ताविष्कार अपि सम्पन्नः।

 राष्ट्रपतेः अभिभाषणस्योपरि धन्यवादप्रस्तावः 
नवदिल्ली >केन्द्रीयमन्त्री रविशंकरप्रसादेन राष्ट्रपतेः अभिभाषणस्य उपरि धन्यवादप्रस्तावावसरे परिचर्चां कुर्वता प्रोदीरितं यत् जनशक्तेः विकासोन्मुखराष्ट्रशक्तित्वेन परिवर्तनार्थं केन्द्रप्रशासनेन भूरि पदक्षेपाः समुत्थापिताः, येषु निर्धन-वञ्चित-दलित-पीडित-दिव्यांगजनानां कृते प्रारब्धाः प्राशासनिकयोजनाः प्रामुख्यं भजन्ते | अपि च एदर्थं रविशंकरप्रसादेन प्रधानमंत्री श्रीमोदी श्लाघितः |