OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 16, 2018

फ्रान्स् पादकन्दुकसार्वभौमः। 
    मोस्को > विश्वपादकन्दुकमहोत्सवे   प्रतिलोमाय सन्नद्धभूतं क्रोयेष्याराष्ट्रं ४-२ इति लक्ष्यकन्दुकक्रमेण पराजित्य पूर्वभूतलोकविजयिना फ्रान्स् राष्ट्रेण पादकन्दुकस्य राजसिंहासनम् अवाप्तम्। अत्यन्तम् उत्साहोज्वले प्रतिद्वन्द्वे नवपरिवर्तनाय कोयेष्यादलं सर्वदा सर्वथा स्वेदजलं प्रावाहयत्तथापि फ्रान्स्दलस्य तन्त्रज्ञतां परिचयसम्पन्नतां च पराजेतुम् अशक्तमासीत्। 
    १८तमे निमिषे क्रोयेष्यादलस्य मान्सूकिच् नामकस्य आत्मनिष्ठलक्ष्यकन्दुकदानेनैव क्रोयेष्यायाः दौर्भाग्यस्य वीथिः प्रकाशिता। अनन्तरं पेरिसिच् नामकस्य लक्ष्यकन्दुकप्रत्यर्पणं ३८निमिषे संजाते क्रीडा उत्तेजनभरिता जाता। किन्तु अनवधानतया वशंवदेन दण्डार्हलक्ष्यकन्दुकेन (पोग्बा - ५९) तथा एम् बापे नामकेन प्राप्तेन लक्ष्यकन्दुकेन (६५) च क्रोयेष्यायाः विधिः निर्णीता। एतदाभ्यन्तरे मान्सूकिचेन प्रायश्चित्तः कृतः अपि न पर्याप्तः अभवत्। तथा फ्रान्स् दलं ४-२ क्रमेण विजयीभूतम्। चषकसमर्पणवेलायां जाता वृष्टिः फ्रान्स्दलाय हर्षवर्षः क्रोयेष्यादलाय अश्रुवर्षश्चाभवत्।