OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 1, 2018

महिलानां विश्वचषकहॉकिस्पर्धायां भारतस्य विजय:
प्रागुपान्त्यचक्रे श्व: भारत-आयरलैण्डयो: स्पर्धा भविष्यति

      भारतीयमहिलादलं विश्वचषकहॉकिस्पर्धायां भव्यप्रदर्शनं विधाय प्रागुपान्त्यचक्रे प्रविष्टम् । गतरात्रौ क्रीडितायां स्पर्धायां भारतेन इटली वृन्दं त्रीणि शून्यमति गोलाङ्केन पराजितम् । रानी रामपालस्य नेतृत्वे 'क्रियतां म्रियतां' वेति स्पर्धायां प्रारम्भादेव भारतेनाक्रामकरीत्या क्रीडितम्।  भारतस्य लालरेमसियामी (नवमे निमेषे) नेहागोयल: (पञ्चत्वारिंशे निमेषे) वन्दना कटारिया च (पञ्चपञ्चारिंशे निमेषे) गोलाङ्कानि कृतवत्य:। 
    प्रागुपान्त्यचक्रे श्व: भारतीयमहिला: आयरलैण्डदलेन सह स्पर्धिष्यन्ति । प्रागुपान्त्यचक्रं भारताय सरलं नास्ति, यतोहि  समूहस्पर्धायां भारतेन आयरलैण्डदलात् पराजयं सम्मुखीकृतमासीत् । तथापि भारतीयमहिलानाम् आत्मबलं सुदृढमस्ति ।