OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 16, 2022

 नवदिल्ली देववाणी परिषदा कवि विंध्येश्वरीप्रसादमिश्रः समादृतः

वार्ताहरः - देशराज शर्मा-

साहित्याकादमी-पुरस्कारसम्मानितस्य (२०२१) संस्कृतकवेः डा. विंध्येश्वरीप्रसादमिश्र "विनय" -महाभागस्याभिनन्दनं "देववाणी परिषद्, दिल्ली" -पक्षतो नवदिल्ल्यां वाणीविहारे रमालये ११.३.२०२१ तमे दिनाङ्के अक्रियत। आचार्यमिश्रेण "सृजति शङ्खनादं किल कविता" इत्यस्मात् पुरस्कृतात् काव्यसङ्ग्रहात्कविता अपि श्राविता:।

 पंडित: सत्यनारायणपांडेय: मङ्गलाचरणमकरोत्। वरद:, रम्या, शुभांगी (सुरुचि:) शिवांगी च श्लोकान् अश्रावयन्।  परिषदुपाध्यक्ष: प्रोफेसरसुधीकान्तभारद्वाजोऽ

भिनन्दनीयकवे:  मिश्रमहाभागस्य परिचयमदात्। परिषद: संरक्षिका श्रीमती रमादेवी शुक्ला, अध्यक्ष: रमाकान्तशुक्ल:  सारस्वतातिथि: डाक्टरब्रजेशगौतमश्च माल्यार्पणेन शालसमर्पणेन च मिश्रमहोदयस्य  स्वागतमकुर्वन्।। मिश्रवर्य्याय "भाति मे भारतम्' इत्यस्य तथा च "अर्वाचीनसंस्कृतस्य" प्रतिरूपे अप्युपायनीकृते।  मिश्रमहाभागै: स्वकाव्यसंग्रहस्य "सृजति शङ्खनादं किल कविता" इत्यस्यैकं प्रतिरूपं कार्यक्रमाध्यक्षाय  रमाकान्तशुक्लायार्पितम्। डा. शुक्लेन  स्वस्य  नवीनतम संस्कृतकविताया  "भारतीयोऽस्म्यहम्"इत्यस्याअंशा अपि श्राविता:।

   स्मरणीयमस्ति यद्  डाक्टरविन्ध्येश्वरीप्रसादमिश्र "विनय"स्य प्रथम: कवितासङ्ग्रह: "सारस्वतसमुन्मेष:"   देववाणी परिषद्, दिल्लीत: १९८५तमे ऽब्दे प्रकाशितोऽभूत्।