OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 26, 2022

 इम्रान् खानं विरुद्ध्य अविश्वासप्रमेयः न परिगणितः। 

इस्लामबाद्> पाकिस्थानप्रधानमन्त्रिणं इम्रान् खानं विरुध्य विमतपक्षेण समर्पितः अविश्वासप्रमेयपत्रं पाकिस्थानसंसदा शुक्रवासरे न परिगणितम्। सदस्यः खायल् समन् इत्यस्य देहवियोगे श्रद्धाञ्जलिं प्रकाश्य सोमवासरपर्यन्तं सभा अवष्टम्भिता। गतदिनस्य कार्यक्रमेषु अविश्वासप्रमेयपत्रं नान्तर्भावितमित्यतः विपक्षदलीयैः प्रतिषिद्धमासीत्। 

   पाकिस्थानस्य आर्थिकप्रतिसन्धेः द्रव्यमूल्यातिवर्धनस्य च हेतुः इम्रान् खानस्य विलक्षितनयाः इत्यारोप्य मार्च् ८ तमे उपशतं विपक्षसदस्याः अविश्वासप्रमेयपत्रं समर्पितवन्तः।  इम्रान् खानस्य दलात् २५ विमतसदस्याः अपि प्रमेयानुकूलिनः भविष्यन्तीति वृत्तान्तं बहिरागतम्।