OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 29, 2022

हरियाणासंस्कृतविद्यापीठे अन्ताराष्ट्रियसंगोष्ठी॥ 

(वार्ताहरः वत्स देशराज शर्मा)


नवदिल्ली> सामोदं संकेतयामि दिल्ली-केन्द्रीय-संस्कृतविश्वविद्यालयेन सम्बद्धे यद्धरियाणा-संस्कृतविद्यापीठे द्विदिवसात्मिका अन्ताराष्ट्रिय-संस्कृतसंगोष्ठी संजाता। यस्यां संगोष्ठ्यां विविधबुधकुलालंकारा विभिन्नेभ्यो राज्येभ्यो विदेशेभ्यश्च सम्प्राप्ताः। यस्याः संगोष्ठ्या विषयोऽतीवरुचिकरो ज्ञानवर्धकश्चासीत् यथा- एकविंशशताब्द्या

द्वितीयदशके संस्कृतपरम्पराणां विकासः" विषयेऽस्मिन् नैकशोधपत्राणि विद्वद्भिः प्रकाशितानि। नवीनायां संगोष्ठ्यां मुख्यातिथित्वेन समवेता श्रीलालबहादुर-केन्द्रीयसंस्कृतविश्वविद्यालयस्य यशस्विनो विविधविद्याविचारचणा मृदुभाषिभूषणभूषिताः सम्मानिताः कुलपतय आचार्या  मुरलीमनोहरपाठकमहाशयाः। सारस्वतातिथित्वेन भ्राजमाना दिल्ली -केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकाः परमवैयाकरणाः काव्यकाननकविकोविदाः सरलस्वभावधनाः श्रीमन्तः प्रो० बनमालीबिश्वालमहोदयाः।

निर्देशकत्वेन हरियाणासंस्कृतविद्यापीठस्यौजस्विनो व्याकरणधर्मशास्त्रविशारदाः कुशलप्रशासका  धीमन्तः प्राचार्याः पशुपतिनाथमिश्रमहोदया आसन्। समन्वयकत्वेन विद्यापीठस्य साहित्याचार्याः प्रख्यातकवयो लब्धसाहित्याकादमीपुरस्कारा मनीषिणो डॉ राजकुमारमिश्रमहोदयाः, संयोजकत्वेन सुरभारतीसमुपासकाः साहित्यशास्त्रधुरन्धरा विशालहृदया डॉ राधावल्लभशर्ममहोदयाः डॉ छोटूकुमारमिश्रमहोदयाश्च। समेऽपि विद्यापीठस्थाध्यापका अध्यापिकाश्चापि यथायोग्यं कार्यं सम्पादितवन्तः। यथा- डॉ ऊषापण्डितमहोदयाः, डॉ रञ्जनागुप्तामहोदयाः, डॉ राहुलपोखरियालमहोदयाः, श्रीमत्यो ललितामहोदयाः, श्रीमन्तः शुभंकरसामन्तमहोदयाश्च।