OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 1, 2022

 रष्यस्य अग्निबाणप्रहारेण युक्रैनस्य प्रशासनकार्यालयः अग्निगोलः अभवत्।

युक्रैने अधिनिवेशप्रयत्नस्य पश्चात् विभिन्नमण्डलेभ्यः कठिनः उपरोधः बहिष्करणं च रष्येण अभिमुखीक्रियमाणः अस्ति। किन्तु अधुना भवनसमुच्चयाः प्रशासनकार्यालयाः च लक्ष्यीकृत्यैव रष्यस्य आक्रमणं प्रचलति। प्रधाननगरौ कीविं खर्कीविं च लक्ष्यीकृत्यैव रष्यः आक्रमणं करोति। राष्ट्रे द्वितीयं प्रधाननगरमिति ख्यातस्य खर्किविनगरस्य प्रशासनकार्यालयः रष्यस्य अग्निबाणप्रहारेण भग्नमभवत्। दुर्धघटनायाः अस्याः दृश्यखण्डं युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् माध्ये प्रकाशितम्। अन्ताराष्ट्रिय-मानविक-व्यक्तिनियमान् उल्लङ्घ्य एव रष्यः युद्धं करोति। सामान्यजनान् निहन्ति। सैनिकेतर - वस्तूनि नाशयन्ति। बृहन्नगराण्येव रष्यः लक्ष्यीकरोति। रष्यः अधुना तत्र अग्निबाणेन प्रहरति इति युक्रैनस्य विदेशकार्यमन्त्रालयेन ट्विट्टर् मध्ये सूचितम।