OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 23, 2022

श्रीलङ्कायाम् आर्थिकसमस्या; दुर्भिक्षभीत्या जनाः पलायन्ते।

कोलम्बो> आर्थिकसमस्यया श्रीलङ्का महान्तं क्लेशमनुभवति। जनजीवनं दुस्सहमभवत्।  दौर्भिक्ष्यं भविष्यतीति मत्वा जनाः पलायनमारभन्त। षट् श्रीलङ्कीयनागरिकाः गतदिने तमिल्नाटे रामेश्वरं प्राप्ताः। भारत तटसंरक्षणसेनया ते परिप्रश्नविधेयाः कृताः।

  अवश्यवस्तूनां मूल्यातिवर्धनमभवत्। मूल्यातिवर्धनस्य दुर्भिक्षस्य च हेतोः पेट्रोल्-डीसल् तैलादीनां नियन्त्रणं विधत्तम्। पाकवातानिलकोशस्य मूल्यं १३५९ भारतीयरूप्यकाणि अभवत्। विद्युन्निलयाः पिहिताः। एकलिटर् परिमितस्य पेट्रोल् तैलस्य मूल्यं २८३ श्रीलङ्कीयरूप्यकाणि अभवत्। डीसलाय १७६ रूप्यकाणि दातव्यानि। १ लिटर् क्षीरं - २६३, १ किलो तण्डुलं - ४४८ रूप्यकाणि। एतादृशरीत्या एव श्रीलङ्कायाम् अवश्यवस्तूनां मूल्यवर्धनम्।   कोविड्महामारेः अनन्तरफलमेव आर्थिकसमस्यया  कारणमिति सूच्यते। भारतं, चीनः इत्यादीनि राष्ट्राणि साह्याभ्यर्थितानि सन्ति।