OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 1, 2017

महाराष्ट्रराज्ये तापमानं पञ्चचत्वारिंशतादुपरि आगतम्। घोरातपेन राज्यं तपति।
कोचि >राष्ट्रे बहुत्र घोरातपेन जनाः विध्यन्ते। एवम् उष्णवायुना अपि जनाः आतपेन भृष्टीक्रियते। महाराष्ट्र-गुजरात-राजस्थान-उत्तरप्रदेश-उत्तराखण्डं-दिल्ली-पञ्जाब-आन्ध्राप्रदेशादि राजेषु उष्णता असह्या सञ्जाता। महाराष्ट्र-राज्ये उष्णवायुना पञ्चजनाः मृताः। केरले विविध क्षेत्रेषु अत्युष्णता प्रतीयते। पालक्काड् देशे उष्णः अष्टचत्वारिंशदागतम्। राज्यस्थान् राज्यस्य बाडमेर: हरियाणायाः नरनौल: पञ्जाबस्य लुधियाना उत्तरप्रदेशस्य च  वाराणसी, अलहबाद, आगरा चेत्यादिक्षेत्रेषु अत्युष्णता प्रतीयते। आस्थाननगर्यां दिल्याम् अस्य संवत्सरस्य अत्युष्णः अभवत्। तमिलनाडु-राज्ये अत्युष्णेन त्रिशतं (३००) कृषकाः मृताः।

दक्षतानिदेशकः स्थानभ्रष्टः।
अनन्तपुरी > केरले  आरक्षकसेनायाः दक्षतासंस्थायाः निदेशकः डो. जेक्कब् तोमसः स्थानभ्रष्टः अभवत्। समीपकाले अनुवर्तमानाः उच्चन्यायालयस्य प्रतिकूलपरामर्शाः तं त्यागपत्रसमर्पणाय अनयन्। डि जि पि लोकनाथ बह्रा तत्थानं वक्ष्यति।
    कतिपयमासेभ्यः पूर्वमेव उपरिष्ठानां शासनाधिकारिणां मध्ये जेक्कब् तोमसः अप्रियः आसीत्। ऐ ए एस्-ऐ पि एस्  राजपुरूषाः तं विरुध्य सर्वकारं प्रति तथा मुख्यमन्त्रिणं पिणरायि विजयं प्रति च निवेदनानि समर्पितवन्तः। दक्षतानिदेशकस्थानम् उपयुज्य तान् विरुध्य व्याजव्यवहाराः क्रियन्ते इति आरोपितवन्तश्च। किन्तु मुख्यमन्त्रिणः अनुग्रहेण  सः स्वस्थानं संरक्षितवान्। किन्तु वारं वारम् अनुवर्तिताः न्यायालयस्य प्रतिकूलपरामर्शैः जेक्कब् तोमसः स्थानत्यागाय प्रेरितः।

मृत्तैलानां मूल्येषु न्यूनता।
नवदिल्ली >मृत्तैलानां वर्धितानि मूल्यानि न्यूनीकर्तुं तैलशुद्धीकरणशालाभिः निश्चितम्। पट्रोल् तैलस्य त्रीणि रुप्यकाणि सप्तसप्तति पैसाः (३.७७) डीजल् तैलस्य द्वे रुप्यके एकनवति पैसाः (२.९१) रूप्यकाणि न्यूनीकृतानि। बहुकालानन्तरमेव एतादृशं न्यूनीकरणम्। राष्ट्रान्तर विपण्याम् असंस्कृत-मृत्तैलस्य मूल्ये जाता न्यूनता डोलर् पत्रं विरुध्य रुप्यकपत्रस्य मूल्यवर्धनं च अत्रत्यस्य मूल्यन्यूनीकरणस्य कारणम्। वारद्वयारनन्तरं मूल्यालोकनं भवतु इति पूर्व निश्चयानुसारमेव इयं प्रक्रिया। तथापि गाते जनवरिमासानन्तरं मृतैलानां मूल्येषु विशेषाः नासन्।