OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 16, 2017

अमेरिक्कायाः बोम्बाक्रमणेन हताः ९४ भीकराः। 
काबूल्>अफ्गान्स्थाने अमेरिक्कया कृतेन बृहत्तमेन आणवेतरबोम्बाक्रमणेन चतुर्नवतिः ऐ एस् भीकराः हताः। हतेषु कतिपयाः केरलीयाः अपि अन्तर्भवन्तीति सूच्यते। 
     गुरुवासरे सायंतने आसीत् बोम्बानां माता इत्याख्यमाणेन जि बि यू ४३- बि उपयुज्य पाकिस्थानसीमायां नांगहार् जनपदस्थम् ऐ एस् शिबिरम् अमेरिक्कया आक्रमितम् । शक्तिमत्ते स्फोटने भीकराणां रहस्यकेन्द्राणि नाशितानि। किन्तु सैनिकानां सामान्यजनानां वा कामपि दुर्घटनां विना अफ्गानिस्थान् सर्वकारस्य सहयोगेन सम्पूर्णतया आसूत्रितम् आक्रमणमासीदिति नांगहार् प्रविश्यायाः राज्यपालेन इस्मयिल् षिन्वारिणा उक्तम्।

 साहसिकस्वीयचित्रग्रहणाभ्यन्तरे  अपघात: । युवानं रक्षितुमुद्युक्ता: चत्वार: मृतवन्त:
 कोलकत्ता> साहसिकस्वीयचित्रस्वीकाराय यून: श्रम: चतुर्णां दारुणमरणकारणमभवत्। पश्चिमवड्गस्य हौरायां गुरुवारे सायमेव एषा दारुणदुर्घटना प्रवृत्ता। रेल्यानेन यात्रामध्ये  अपघातितं तरकनाथमकलं युवानं रक्षितुं चत्वार: प्रयतितवन्त:  पश्चात्  दिवड्गताश्च। रेलयानस्य बहिर्द्वारि स्थित्वा स्वीयचित्रग्रहणं कुर्वन् तरकनाथ: स्खलितपाद: अध:  पतितवान् । तं ग्रहीतुम् उद्युक्ता: चत्वारोपि सुहृद: यानात् उत्प्लुता: किन्तु  समान्तररेलमार्गे पतिता:। तस्मिन्नेव क्षणे  विपरीतदिशया आगतं रेलयानं चतुर्णामपि शरीरोपरि आरुह्य गतम् । तरकनाथ: अतीवगुरुतरावस्थायाम्  आतुरालये  प्रवेशित:। सुमितकुमार:, सञ्जीवपोली, काजलसाह, चन्दनपोली  एते मृता: सुहृद:। सर्वेपि २५ -३० मध्ये प्राप्तवयस्का:। लिलौह--- बेलूरु रेलस्थानकाभ्यन्तरे एव अपघात: समभवत् । हौराप्रान्तस्थे तरकेश्वरमन्दिरे प्रार्थनां समाप्य प्रतिप्रस्थिता: एते पञ्च सुहृद: । एतै: यात्रितयानपेटिकायां  महान् सम्मर्द : आसीत् । तन्मध्ये एव द्वारे दोलनं कृत्वा स्वीयचित्रग्रहणाय तरकनाथस्य श्रम: इति  आरक्षका: उक्तवन्त:। त्रिचक्रिकाचालका: तथा एकस्यां  व्यवसायसंस्थायाम् कर्मकराश्च एते युवीन: । तसकनाथात् विशदांशान्  स्वीक्रियमाणा: सन्तीति  आरक्षका: कथितवन्त: ।।