OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 18, 2017

केरळे विद्युत्प्रमाणं संवर्धितम्। 
अनन्तपुरी> केरळराज्ये विद्युदुपभोगस्य मूल्यप्रमाणं रगुलेटरि कम्मीषन् संस्थया संवर्धितम्। गार्हिकोपभोगाय वैद्युतेः मूल्यं दश पैसाभ्यः आरभ्य पञ्चाशत् पैसापर्यन्तं एकाङ्कं प्रति  [यूणिट् ] वर्धनं जातम्। उद्योगोपभोगाय त्रिंशत् पैसानां वर्धनमभवत्। किन्तु वाणिज्य-कार्षिकावश्यानां वर्धनं नास्ति। नूतनप्रमाणानि अद्य प्रवृत्तिपथमापद्यते।

संस्कृतविश्वविद्यालये सौरवैद्युतनिलयः उद्घाटितः। 
कालटी>  कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सौरवैद्युतनिलयस्य समुद्घाटनं नवदिल्ल्याम् आयोजिते समारोहे केन्द्रमन्त्रिणा प्रकाश् जावेद्कर् वर्येण निर्व्यूढम्। अन्येषां कृते पि आदर्शभूता पद्धतिरिति तेन प्रोक्तम्। केरलस्य शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य सान्निध्ये आसीदुद्घाटनम्। समारोहस्य तत्समयवीडियो सम्प्रेषणं सर्वकलाशालायाः कनकधारा सभागृहे प्रवृत्तम्।
       विश्वविद्यालयस्य शैक्षिकभवनसमुच्चयस्य (Academic Block) उपरि १२३० चतुरश्रमीटर् विस्तृतौ स्थापितात् अस्मात् निलयात् प्रतिदिनं ४००-५०० एककपरिमितं विद्युच्छक्तिम् उत्पादयितुमर्हति। विद्युत्कोशसंभरणप्रणालिं विना (Battery Storage) के एस् ई बि संस्थायाः संभरण वितरणश्रृङ्खलां प्रति (Grid) एव निलयः संयोजितः अस्ति। अनया पद्धत्या प्रतिमासम् एकलक्षरूप्यकाणां लाभः भविष्यति।